तैत्तिरीयोपनिषत्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

तैत्तिरीयोपनिषत् (Taittiriyopanishat) प्रसिद्धासु दशसु उपनिषत्सु अन्यतमा । इयं कृष्णयजुर्वेदीयतैत्तिरीयशाखान्तर्गता । इयम् उपनिषत् वल्लीत्रयेण विभक्ता विद्यते । प्रथमा वल्ली वर्णोच्चारविषयकः इत्यतः शिक्षावल्ली इति निर्दिश्यते । द्वितीयायां वल्ल्याम् आनन्दस्य मीमांसा विद्यते इत्यतः ब्रह्मानन्दवल्ली इति निर्दिश्यते । तृतीयायां वल्ल्यां वरुणस्य पुत्रः भृगुः प्रश्नोत्तरैः तपसा ब्रह्मज्ञानं प्राप्तवान् इत्यतः भृगुवल्ली इति निर्दिश्यते ।

शिक्षावल्ली[सम्पादयतु]

शिक्षावल्ल्यां १२ अनुवाकाः विद्यन्ते । तेषु विषयप्रस्तुतिः एवं विद्यते -

अनुवाकः प्रस्तुताः विषयाः
अनुवाकः १ शान्तिमन्त्राः
अनुवाकः २ वर्ण-स्वर-मात्रा-बल-साम-सन्तानादयः क्रमेण उल्लिखिताः
अनुवाकः ३ विश्व-ज्योति-विद्या-प्रजा-देहादीनि केषां तत्त्वानां संयोगेन कथं जातमिति विवृतम्
अनुवाकः ४ बुद्धिबलयोः अधिष्ठातृदेवतायाः इन्द्रदेवतायाः वर्णनं प्रार्थना च विद्यते । सम्पदः यशः च सम्प्रार्थ्य अधिकाः ब्रह्मचारिणः अध्ययनाय आगच्छेयुः इति वरं प्रार्थयते
अनुवाकः ५ भूः भुवः स्वः महः इत्येतेषां चतुर्णां मन्त्राणाम् अर्थः उपासनाक्रमः च विवृतम्
अनुवाकः ६ अन्तर्हृदये स्थितस्य पुरुषस्य उल्लेखपूर्वकम् आनन्दः नाम किम् ? अमृतं किमिति संक्षेपेण विवृतम्
अनुवाकः ७ भूतेषु पञ्च भागाः देहे अपि पञ्च भागाः इति निरूप्य शरीरं पञ्चभूतैः एव निर्मितम् इति वर्णितम्
अनुवाकः ८ ओङ्कारस्य विभिन्नेषु अवसरेषु दश उपयोगाः वर्णिताः
अनुवाकः ९ स्वाध्याय-प्रवचनयोः आवश्यकता निरूपिता
अनुवाकः १० त्रिशङ्कुना कृतस्य आत्मस्वरूपस्य वर्णनं विद्यते
अनुवाकः ११ अध्ययनं समाप्य गमनोद्युक्तं शिष्यम् उद्दिश्य गुरोः उपदेशः निरूपितः
अनुवाकः १२ शान्तिमन्त्राः

ब्रह्मानन्दवल्ली[सम्पादयतु]

ब्रह्मानन्दवल्ल्यां ९ अनुवाकाः विद्यन्ते । तेषु विषयप्रस्तुतिः एवं विद्यते -

अनुवाकः प्रस्तुताः विषयाः
अनुवाकः १ ब्रह्मणा एव विश्वस्य उत्पत्तिः
अनुवाकः २ अन्नेन एव सर्वेषां वस्तूनाम् उत्पत्तिः
अनुवाकः ३ प्राणेन एव सर्वे जीवन्ति
अनुवाकः ४ ब्रह्म इन्द्रियातीतम् । श्रद्धा, ऋतं, सत्यं, योगः, बुद्धिश्च विज्ञानमयपुरुषस्य अवयवानि
अनुवाकः ५ विज्ञानेन यज्ञ-कर्मयोः विस्तारः भविष्यति । प्रिय-मोद-प्रमोद-आनन्द-ब्रह्म एते आनन्दमयस्य आत्मनः अवयवानि
अनुवाकः ६ असत् तन्नाम इन्द्रियातीतं सत्यं पूर्वम् एकमेव आसीत् । स्वसङ्कल्पेन मूर्तामूर्तवस्तुरूपेण परिणतम्
अनुवाकः ७ असता सत् जातम् । वस्तुनः आनन्ददायकं तत्त्वम् असतः रूपम् । असतः साक्षात्कारतः पुरुषः निर्भयः भवति ।
अनुवाकः ८ ब्रह्मानन्दः कीदृशः इति निरूपितः । निष्कामिना वेदज्ञेन ब्रह्मानन्दः प्राप्यते ।
अनुवाकः ९ आत्मज्ञानी पापपुण्यातीतः भवति इति निरूपितम् ।

भृगुवल्ली[सम्पादयतु]

भृगुवल्ल्यां १० अनुवाकाः विद्यन्ते । तेषु विषयप्रस्तुतिः एवं विद्यते -

अनुवाकः प्रस्तुताः विषयाः
अनुवाकः १ भृगुः पितरं ब्रह्मज्ञानम् अयाचत । भूतानि कथम् उत्पद्यन्ते ? केन आधारेण जीवन्ति ? कस्मिन् लीयन्ते इत्येतत् तपसा ज्ञायताम् इति पिता उपदिशति ।
अनुवाकः २ अन्नमेव ब्रह्म इति पितरं वदति । पिता पुनः तपसः आचरणाय प्रेषयति ।
अनुवाकः ३ प्राणः एव ब्रह्म इति पितरं वदति । पिता पुनः तपसः आचरणाय प्रेषयति ।
अनुवाकः ४ मनः एव ब्रह्म इति पितरं वदति । पिता पुनः तपसः आचरणाय प्रेषयति ।
अनुवाकः ५ विज्ञानमेव ब्रह्म इति पितरं वदति । पिता पुनः तपसः आचरणाय प्रेषयति ।
अनुवाकः ६ आनन्दः एव ब्रह्म इति पितरं वदति । अस्य ज्ञानमेव भार्गवीवारुणीविद्या । अस्य ज्ञाता महिमावान् भवति ।
अनुवाकः ७ अन्नं न निन्दितव्यम् । अन्नप्राणयोः अन्योन्याश्रयः विद्यते । अस्य ज्ञाता महिमावान् भवति ।
अनुवाकः ८ आपतेजसोः अन्योन्याश्रयः विद्यते । उभौ अपि अन्नरूपौ एव । अस्य ज्ञाता महिमावान् भवति ।
अनुवाकः ९ पृथ्व्याकाशयोः अन्योन्याश्रयः विद्यते । उभौ अपि अन्नरूपौ एव । अस्य ज्ञाता महिमावान् भवति ।
अनुवाकः १० अतिथिसत्कारः कर्तव्यः । शरीरदेवताः उपासितव्याः । तृप्तिबलतेजसां प्राप्तये दैव्योपासनं कर्तव्यम् इति सूचितम् ।

प्रतिष्ठा इति, मनः इति, महातत्त्वमिति (बुद्धेः) ब्रह्मणः उपासनेन विभिन्नानि फलानि प्राप्यन्ते । ब्रह्मज्ञानी पञ्चकोशान् अतीत्य आनन्देन गायन् समग्रमपि उपभुङ्क्ते । आत्मा देवताभ्यः पूर्वम् आसीत्, अमृतनाभौ तस्य जन्म, आत्मा एव विश्वस्य उपसंहारकः इति निरूपितमस्ति । ततः शान्तिमन्त्राः उक्ताः ।

प्रमुखाः शब्दाः[सम्पादयतु]

  • मित्रः - सूर्यदेवता
  • अर्यमा - द्वादशादित्येषु अन्यतमः
  • ऋतम् - यथासत्यम्
  • ब्रह्मवर्चस् - ब्रह्मज्ञानेन उत्पन्नं तेजः
  • उपनिषत् - ज्ञानं, तत्त्वं, रहस्यम्
  • संहिता - संयोगः
  • सन्धिः - ऐक्यस्थानं कालः वा
  • सन्धानम् - संयोजकं वस्तु
  • प्रवचनम् - अध्यापनम्, विवेचनम्, व्याख्यानम्, विवरणम्
  • कोशः - अवस्था
  • दमः - इन्द्रियसंयमः
  • शमः - मनसः संयमः
  • स्वाराज्यम् - ब्रह्मपदवी, मोक्षः
  • विज्ञानम् - शुद्धबुद्धिशक्तिः
  • ऋत्विक् - यज्ञस्य कारयिता पुरोहितः
  • विद्याधर - देवताविशेषः

तैत्तिरीयोपनिषदः वैशिष्ट्यम्[सम्पादयतु]

दशोपनिषत्सु छान्दोग्य-बृहदारण्यके विहाय अवशिष्टासु बृहत्तमा वर्तते इयम् उपनिषत् । इयम् उपनिषत् प्रवृत्तिपरा वर्तते । स्वाद्यायप्रवचनयोः आचरणं सर्वदा स्यादिति आग्रहः अत्र वर्तते । जीवने कानि नीतितत्त्वानि अनुसर्तव्यानि इति स्पष्टोल्लेखः अत्र वर्तते । अत्र प्रस्तुतः पञ्चकोशविचारः तत्त्वज्ञानदृष्ट्या बहुव्यापकं बोधपरञ्च वर्तते । अत्रत्या आनन्दमीमांसा च विशेषमहत्त्वयुता वर्तते । अस्याः उपनिषदः तिसृषु वल्लीषु त्रिविधाः मीमांसाः प्रस्तुताः ।

शिक्षावल्ली[सम्पादयतु]

अस्यां वल्ल्याम् अध्ययन-विद्यार्जन-नैतिकाचरणविषयाः सुष्ठु उल्लिखिताः सन्ति । शिक्षा नाम वर्णोच्चारविद्या या च ब्रह्मचर्यावस्थायाम् अध्येतव्या । बुद्धेः अधिष्ठातृदेवस्य इन्द्रस्य आह्वानं कृत्वा ऋषयः उत्तमां बुद्धिं मधुरवाणीं च प्रार्थयन्ति । शमदमयुक्ताः उत्तमाः विद्यार्थिनः विद्यार्जनाय अस्मद्समीपं यथा आगच्छेयुः तथा क्रियताम् इत्यपि प्रार्थयन्ति । अत्र प्रत्येकस्य कर्तव्यस्य निर्देशानन्तरं 'स्वाध्यायप्रवचने च' इति उक्तिः विद्यते पौनःपुन्येन । 'सत्यं वद धर्मं चर' इत्येतत् वचनं तु सुप्रसिद्धमेव । अध्ययनं समाप्य गृहगमनोद्युक्तं शिष्यम् उद्दिश्य कृतः उपदेशः अयम् । 'यान्यस्माकं सुचरितानि ॥ तानि त्वयोपास्यानि ॥' - अस्माकम् उत्तमचरितानि भवता उपास्यानि न अन्यानि - इति यत् गुरुः वदति तत् तस्मिन् विद्यमानं माधुर्यं विनयशीलतां च दर्शयति ।

अस्याम् उपनिषदि प्रवृत्तिपराः उल्लेखाः बहवः दृश्यन्ते । 'मम अन्नवस्त्रादीनि वर्धेत, गोसम्पत्तिः वर्धेत' इति ऋषयः प्रार्थयन्ति । 'महान् भवति प्रजया पशुभिः ब्रह्मवर्चसेन' इति ऋषयः शिष्यान् आशिषा अनुगृह्णन्ति । शास्त्रोक्तः धर्मसम्मतः प्रवृत्तिमार्गः निकृष्टः इति केनापि न चिन्त्यते स्म ।

'सत्यम्' 'ऋतम्' इति शब्दद्वयं वेदोपनिषत्सु पौनःपुन्येन श्रूयते । सत्यं नाम तत्त्वं, तत्त्वज्ञानं, निजवस्तु । 'ऋतं' नाम सत्यम् अनुसृतः धर्मः, योग्यमार्गः वा । सत्यज्ञानमात्रेण फलितार्थः न सिद्ध्यति । तेन सह ऋतं धर्माचरणम् अत्यवश्यम् । सत्यज्ञानेन विना मनसि स्पष्टता न भवति । धर्माचरणं विना अध्यात्मसाधनं विना साक्षात्कारः न भविष्यति । अतः एतद्वयमपि अत्यवश्यम् । अस्याम् उपनिषदि नीतिविषयः विशेषतया उल्लिखितः । अध्ययनं समाप्य गमनोद्युक्तं शिष्यम् उद्दिश्य अत्र कृतः उपदेशः अद्यत्वे अपि समुचितः विद्यते ।

ब्रह्मानन्दवल्ली[सम्पादयतु]

अस्यां ब्रह्मानन्दमीमांसा विद्यते । परब्रह्म अन्तराकाशे सर्वत्र व्याप्तं विद्यते । ब्रह्मज्ञानिनः ब्रह्मणि एकीभूय तदीयं वैभवम् एव अनुभवन्ति इति ऋषिभिः सिद्धान्तः कृतः वर्तते । ततः ब्रह्मणः सृष्टिक्रमं वर्णयन्ति । अन्नमय-प्राणमय-मनोमय-विज्ञानमय-आनन्दमयकोशाः कथम् अन्योन्यव्यापकाः विद्यन्ते इति वर्णितम् । सृष्टिः ब्रह्मणः सङ्कल्पशक्त्या जाता । ब्रह्मज्ञानी भयातीतः भविष्यति इत्येतत् वर्णनम् आत्मिकानुभवस्य परमोच्चवर्णनम् । समग्रं विश्वम् आनन्दमूलं विद्यते इति वदद्भिः ऋषिभिः विश्वोत्पन्नमूलशक्तेः भावः एव सधैर्यं वर्णितः विद्यते । ततः मानुषानन्दं परिमाणं परिकल्प्य तद्वर्धयन्तः ब्रह्मानन्दस्य श्रेष्ठाम् आत्यन्तिकसीमां वर्णितवन्तः सन्ति । निष्कामवेदज्ञेन अयम् आनन्दः अनुभोक्तुं शक्यः । तस्य आनन्दस्य अनुभोक्ता सर्वविधभयेभ्यः पापपुण्यकल्पनाभ्यः च मुक्तः भविष्यति इति स्वयम् अनुभूय ऋषयः वदन्ति । मनुष्यस्य महत्त्वाकांक्षायाः सीमा कदापि कुत्रापि एतावत्पर्यन्तं न गतमिति इतिहासः साक्षीभूतः विद्यते ।

पञ्चकोशवर्णनम्[सम्पादयतु]

अन्नमय-प्राणमय-मनोमय-विज्ञानमय-आनन्दमयकोशाः सूक्ष्मातिसूक्ष्माः सन्ति । अधस्तनकोशाः उपरितनकोशैः व्याप्ताः सन्ति । अत्र कोशः नाम न देहः, अपि च अवस्था विद्यते । अस्माकं चैतन्यशक्तिः अनुभवप्राप्त्यर्थं पञ्चसु विविधासु अवस्थासु यत् सञ्चरति ताः भूमिकाः एव कोशाः । जडं निर्जीवं चेतनारहितम् इति यत् भाति तत्सर्वं भवति अन्नमयकोशः । शरीरव्यापारः श्वासोच्छ्वासः रुधिराभिसरणम् इत्यादयः प्राणमयकोशे प्रचलति । सङ्कल्पविकल्पादयः मनोमयकोशे, इदमित्थम् इति निश्चितज्ञानं यत् भवेत् तत् विज्ञानमयकोशे, सुखानुभवः यत् भवति सः आनन्दमयकोशः इत्युच्यते । आनन्दमयः कोशः सूक्ष्मतमः नाम चैतन्यस्वरूपं शुद्धतमं विद्यते इत्यर्थः ।

भृगुवल्ली[सम्पादयतु]

प्राणिनः कुतः उत्पन्नाः, कुत्र विद्यन्ते, कुत्र प्रविशन्ति इत्येतेषां मुख्यप्रश्नानाम् उत्तरं परिशोधयता भृगुना तपोबलेन अवगतं यत् इदं विश्वम् आनन्दे उत्पद्य, आनन्दे तिष्ठत् आनन्दे एव लयं गच्छति इति । अस्य निर्णयस्य प्राप्तेः पूर्वं सः अन्नमय-प्राणमय-मनोमय-विज्ञानमयकोशान् आविष्कृत्य अन्ते आनन्दमयकोशः एव सर्वस्य मूलम् इति निरचिनोत् । चिद्वस्तु एकमेव । तदेव स्वसङ्कल्पशक्त्या पञ्चधा विभागं प्राप्य पञ्चसु कोशेषु अनुभवं प्राप्नोति । अन्नमयकोषे जडसृष्टिमात्रम् । अत्र चिच्छक्तिः सुषुप्तावस्थायां भवति । प्राणमयकोशे जीवसृष्टिः । अत्र चिच्छक्तिः प्राणशक्तिरूपेण कार्यं करोति । मनोमयकोशे मनसः सृष्टिः । अत्र चिच्छक्तिः सूक्ष्मरूपेण मनोव्यापारान् करोति । तत्र सात्त्विकांशः भागशः प्रकाश्यते । विज्ञानमयकोशः शुद्धबुद्धेः सृष्टिः । अत्र चिच्छक्तिः शुद्धचैतन्यद्वारा प्रकाश्यते । अत्र विश्वैक्यभावः वर्धते । शुद्धसात्त्विकभावः स्पष्टतया कार्यं करोति । आनन्दमयकोशः नाम शुद्धचिन्मयसृष्टिः । अत्र स्वात्मनि लीनः सन् आनन्दम् अनुभवति । चराचरवस्तूनाम् उत्पत्तिः, स्थितिः, लयश्च आनन्दस्वरूपे ब्रह्मचैतन्ये भविष्यति इत्येतस्य साक्षात्कारः एव भार्गवीवारुणीविद्या । अस्याः सम्पादनमेव मानवजीवनस्य परमं लक्ष्यम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=तैत्तिरीयोपनिषत्&oldid=268294" इत्यस्माद् पुनः प्राप्तिः