छान्दोग्योपनिषत्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

परिचयः[सम्पादयतु]

दशसु प्रमुखोपनिषत्सु अन्यतमा अस्ति छान्दोग्योपनिषत् । इयं हयग्रीवरूपीभगवतः मुखात् आविर्भूतानि पवित्रवाक्यानि । सर्वासाम् उपनिषदां मुख्याभिमानिनी लक्ष्मीदेवी स्वस्य पतिं श्रीहरिम् अत्र ओमित्यक्षरमुद्गीथमुपासीत इत्येवम्प्रकारेण स्तुतवती अस्ति इति आचार्याः उपोद्घाते उल्लिखितवन्तः सन्ति ।

हयग्रीवोद्गीतवाक्यै रमादेवी रमापतिम् ।
ओमित्येतन्मुखैर्देवमस्तुवत् सामवेदगैः ॥ इति महासंहितायाम् । (छा उ भाष्यम् १-१-१)

इयम् उपनिषत् सामवेदस्य छान्दोग्यब्राह्मणस्य कश्चन भागः वर्तते । इयं गद्यरूपेण वर्तते इत्यतः अत्र छन्दः नास्ति । अस्याः उपनिषदः प्रथमद्रष्टा हयग्रीवभगवान् अस्याः प्रधानऋषिः । रमादेवी द्वितीया ऋषिः । अनन्तगुणपरिपूर्णः, शेषशायी रमापतिः अस्याः प्रतिपाद्यदेवता ।

हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमापतिम् ।
अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम् ॥ (छा उ भाष्यम् १-१-१)

दशसु प्रमुखोपनिषत्सु छान्दोग्योपनिषदः वैशिष्ट्यं वर्तते । अस्याः उपनिषदः भाष्यं श्रीशङ्कराचार्यैः श्रीमध्वाचारैश्च लिखितम् अस्ति ।

शान्तिमन्त्रः[सम्पादयतु]

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि।
सर्वम् ब्रह्मौपनिषदम् माऽहं ब्रह्म
निराकुर्यां मा मा ब्रह्म
निराकरोदनिराकरणमस्त्वनिराकरणम् मेऽस्तु।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु।
ॐ शान्तिः शान्तिः शान्तिः॥

विषयव्याप्तिः[सम्पादयतु]

१-५ अध्यायाः[सम्पादयतु]

वागभिमानिनी सरस्वती मुख्यप्राणौ च दम्पती । ऋगभिमानिनी सरस्वती सामाभिमानी प्राणश्च नित्यदम्पती । एते ओङ्कारवाच्यं हृदयसन्निहितम् अक्षरनामकं भगवता सायुज्यं प्राप्नुवन्ति ।

तद्वा एतन्मिथुनं यद्वाक् च प्राणश्च ऋक् च साम च ।
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ॥ (छा उ अ-१-ख-१-म-४)

यदा एतौ दम्पती भगवतः सायुज्यं प्राप्तवन्तौ तदा तैः अभीष्टं सर्वं प्राप्तम् ।

उपासनापद्धतयः (१ - ५ अध्यायाः)[सम्पादयतु]

अस्याः उपनिषदः प्रथमतः पञ्चमोध्यायं यावत् उपासनापद्धतयः विवृताः सन्ति -

उद्गीथोपासना (अ १ - ख १ - मं १)
मुख्यप्राणे भगवदुपासना (अ १ - ख २)
उद्गीथाक्षरोपासना (अ १ - ख ३)
सामोपासना (अ १ - ख ७) (अ २ - ख २ - ६)
मधुविद्या (अ ३ - ख १-९)

रैक्वेण उपदिष्टा संवर्गविद्या (अ ४ - ख ३)

पञ्चाग्निविद्या (अ ५ - ख ४)
वैश्वानरविद्या (अ ५ - ख ११) इत्यादयः उपासनाविधयः अत्र विवृताः सन्ति ।

६,७,८ अध्यायाः[सम्पादयतु]

एतेषु अध्यायेषु तत्त्वविचाराः उपदिष्टाः सन्ति । तत् त्वमसि इत्येतत् प्रसिद्धं वाक्यं षष्ठाध्याये निरूपितमस्ति । अस्मिन् प्रकरणे ९ दृष्टान्ताः प्रदत्ताः सन्ति -

पक्षी बद्धा रज्जुश्च
विविधाः पुष्परसाः
नदी समुद्रश्च
वृक्षः तस्य जीवचैतन्यश्च
सूक्ष्मबीजं तदन्तर्गता शक्तिः
जलं लवणञ्च
यात्रिकः तेन गम्यमानः देशश्च
रोगी तस्य प्राणनियन्त्रकदेवता च
चोरः तेन अपहृतं वस्तु च

सप्तमोध्याये भूमोपासनं विवृतम् । अस्मिन् सनत्कुमार-नारदयोः संवादः वर्तते । देवता-तारतम्यपरिमाणम् अत्र विस्तृतरूपेण प्रदत्तमस्ति ।
अष्टमोध्याये दहरविद्या वर्णिता अस्ति । हृदये विद्यमानः दहराकाशः (अल्पावकाशः) न परब्रह्म । दहराकाशे विद्यमानः महाकाशः एव परब्रह्म इति अत्र प्रतिपादितम् । ब्रह्मचर्यस्य विषये मनोहारकं विवरणम् अस्य अध्यायस्य ५ खण्डे उपलभ्यते । ब्रह्मचर्यं नाम कायेन वाचा मनसा परमात्मनः प्राप्त्यै अनुष्ठानम् ।
अस्मिन् अध्याये चतुर्मुखब्रह्मणा इन्द्र-विरोचनयोः कृते कृतः उपदेशः विद्यते । तत्त्वज्ञानस्य प्राप्त्यै समीपम् आगतवन्तौ तौ उभौ उद्दिश्य चतुर्मुखब्रह्मणा एकमेव वाक्यम् उपदिष्टम् - य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच इति । उभौ अपि स्वयोग्यतानुसारम् अवगतवन्तौ ।
अष्टमाध्याये लभ्यमानानि उपनिष्द्वाक्यानि तत्त्वविचारस्य दृष्ट्या नितरां महत्त्वं प्राप्नोति । तेषु इदमेकं वाक्यम् - आत्तो वै सशरीरः प्रियाप्रियाभ्याम् । न हवै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः । (अध्याय ८ खण्डः १२) शरीराभिमानसहितः जीवः सुखदुःखयोः आक्रमणेन पीडितः भवति । देहाभिमानयुतेन जनेन सुखदुःखानि अनुभोक्तव्यानि एव । जीवेन सह परमात्मा शरीरे विद्यते चेदपि सः शरीराभिमानरहितः इत्यतः सः सुखदुःखाभ्यां दूरे तिष्ठति ।

मूलानि[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=छान्दोग्योपनिषत्&oldid=280256" इत्यस्माद् पुनः प्राप्तिः