ब्राह्मणम्
बृहि वृद्धौ इति धातोः निष्पन्नं पदं ब्राह्मणम् इति । वेदो द्विविधो मन्त्ररुपो ब्राह्मणरुपश्चेत्युक्तं तदयं ब्राह्मणाभागोऽपि वेद एव । ब्रह्म वेदस्तद्वयाख्या ब्राह्मण इति केचित् । वेदशेषभूता इमे ब्राह्मणग्रन्था यज्ञानुष्ठानस्य विस्तृतं वर्णनं कुर्वन्ति । कतिचन कथा अपि ब्राह्मणेषु प्राप्यन्ते । प्रत्येकवेदशाखानुसारेण ब्राह्मणा आरण्यकग्रन्थाश्च भिन्नाः सन्ति, तत्र ब्राह्मणा यथा – ऋग्वेदस्य ऎतरेयब्राह्मण कौषीतकिब्राह्मणञ्चेति ब्राह्मणद्वयम् । अनयोरैतरेयब्राह्मणमति प्रथितम् । अत्र अष्टौ पञ्चिकाः, प्रतिपञ्चिकं पञ्चाध्याया इति मिलित्वा ४० अध्यायाः सन्ति । कौषीतकिब्राह्मणे केवलं त्रिंशदध्यायाः ।
सामवेदस्य बहवो ब्राह्मणभागाः सन्तिः येषु ताण्ड्यब्राह्मणं प्रसिध्दतरम् । अयं ग्रन्थः पञ्चविशत्यध्यायशाली, अत एव पञ्चविशब्राह्मण संज्ञयाऽपि प्रसिदध्यति । कृष्णयजुर्वेदस्य तैत्तिरीयब्राह्मणनामा ब्राह्मणभागो विद्यते । शुक्लयजुर्वेदस्य शतपठब्राह्मणं नितान्तप्रसिध्दम्, अत्र शतमध्याया विद्यन्ते । अथर्ववेदस्य गोपथब्राह्मणम् । अत्र खण्डद्वयमेव, प्रथमखण्डे पञ्चाध्यायाः द्वितीये च षट् । ब्राह्मणग्रन्थेषु सर्वतो नवोऽयं ग्रन्थः कथ्यते । एवमेव ऋग्वेदस्य आरण्यकद्वयम्, ऐतरेयमारण्यकम् शाङ्खायनारण्यकञ्च । कृष्णयजुर्वेदस्य तैत्तिरीयमारण्यकम् । सामवेदस्य जैमिनीयशाखायाः जैमिनीयोपनिषदब्राह्मणमेव तवलकाराण्यकमिति नाम्ना प्रसिध्दम् । अस्मिन् सममन्त्राणां शोभना व्याख्या कृता । इयं सामवेदारण्यसंहिता सत्यव्रतसामश्रमिणा १८७८ ई. वर्षे मुद्रयित्वा प्रकाशिता ।
वेदार्थानां विवरणं स्पष्टीकरणं विशदीकरणं च उद्दिश्य एतानि ब्राह्मणानि रचितानि । आख्यानानि उपाख्यानानि च विवरणं विशदं सरसं च कुर्वन्ति । ब्राह्मणानि छन्दोबद्धानि न भवन्ति।एतानि गद्यमयानि । अन्तरान्तरा छन्दोबद्धानि वाक्यानि च सन्ति । ब्राह्मणानां निर्माणकालः क्रिस्तोः पूर्वम् अष्टमशतक - पञ्चमशतकयोः मध्यो कालः इति चरित्रकारा: अभिप्रयन्ति । चतुर्णामपि वेदानां ब्राह्मणानि सन्ति । तत्र ऋग्वेदस्य ऐतरेयं, कौशीतकी इति द्वेशाखे । शुक्लयजुर्वेदस्य शतपथमिति एकं ब्राह्मणं विद्यते। कृष्णयजुषः तु कठ, मैत्रायणी, तैत्तिरीयशाखासु प्रतेकं आरण्यकमुपलभ्यते । साम्नः तु जैमिनीयशाखायाम् एकं ब्राह्मणं लभ्यते । अथ कौथुमराणायनेययोः अष्टौ ब्राह्मणानि भवन्ति । अथर्ववेदस्य गोपथमिति एकं ब्राह्मणमेव वर्तते । एतेषां ब्राह्मणानां निर्माणकालं पौर्वापर्यं चाधिकृत्य गवेषकाः नैकमतयः । भाषा, शैली, प्रतिपाद्यं चेति त्रितयपरिशोधने तैत्तिरीयं पञ्चविंशतिकं च प्राचीनतमे इति निरुच्यते ।