विष्णुः
| विष्णु: | |
|---|---|
विष्णुः सनातनधार्मिकाणां प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकः। विश्वरक्षकः च। तस्य पत्नी लक्ष्मीः। वाहनं गरुडः। आदिशेषस्य उपरि तस्य शयनम्।
अन्तर्विषयाः |
दशावताराः [सम्पादयतु]
स: सतां संरक्षणाय दुष्टानां विनाशाय च भूमौ पुनः पुनः जायते। सः उवाच
-
- परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
- धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥
तेन दश अवताराः गृहीताः । ते
- मत्स्यः - प्रलयसमये नारायणः हयग्रीवम् हत्वा जीविनः अपालयत्।
- कूर्मः - कूर्मावतारे विष्णुः समुद्रमन्थने देवान् उपाकरोत्।
- वराहः - हरिः वराहरूपेण आविर्भूय हिरण्याक्षं हत्वा भुवम् अरक्षत्।
- नृसिंहः - नारयणः असुरं हिरण्यकशिपुम् अमारयत् ।
- वामन: - दानशूरस्य बले: गर्वहरणं कृत्वा तम् अमारयत्।
- परशुराम: - २१ पृथिवीप्रदक्षिणा कृत्वा १०८ तीर्थक्षेत्राणां संशोधित:।
- राम: - रावणम् अमारयत् । युगे एकमेव पुरुषोत्तम:।
- कृष्ण: - कंसं बाल्ये एव अमारयत्। महाभारतयुद्धे सहभाग: गीतोपदेशकर्ता च।
- बौद्ध: - कलियुगे सिद्धपुरुष: जनहितकर्ता च ।
- कलकी - कलियुगे दुष्टानां संहारं कर्तुं आविर्भविष्यति।
नाम [सम्पादयतु]
निरुक्ते "यद्विषितो भवति तद्विष्णुर्भवति"इति कथ्यते। आदिशङ्करः विष्णोः अर्थः सर्वत्रगतः इति अवदत्।
लक्षणानि [सम्पादयतु]
विष्णुः चतुर्भुजः अस्ति। तेषु पाञ्चजन्यम्-शङ्खम् सुदर्शन-चक्रम् कौमोदकी-गदाम् पद्मम् च धारयति। उक्तञ्च "वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी श्रीमान् नारायणोर्विष्णुः वासुदेवोभिरक्षतु” इति। सः मेघश्यामः अस्ति। तस्य वक्षः श्रीवत्सेन अङ्कितः। सः कौस्तुभमणिं वनमालां च धारयति। सः अनन्तनागे शेते।
सहस्रनामानि [सम्पादयतु]
भीष्मः युधिष्ठिरस्य विज्ञप्तिम् अनुमन्यमानः विष्णोः सहस्रानामस्तुतिम् अकरोत्। यः विष्णोः सहस्रनामानि जपेत् सः जन्मसंसारबन्धनात् विमुच्यते इति मन्यते। एष: सहस्रनामावली महाभारते अनुशासनिके पर्वणि अस्ति।
आङ्कोरवतमन्दिरम् [सम्पादयतु]
आङ्कोरवतमन्दिरं सूर्यवर्मन: नाम्ना कम्बोजस्य राज्ञा कृतम्। एतद्मन्दिरं विष्णो: एव।