आदिशङ्कराचार्यः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
शङ्कराचार्यः ।

सशिष्यश्रीशङ्कराचार्यः ।
जन्मतिथिः क्रि.श. ७८८ ।
जन्मस्थानम् कालटि, केरळराज्यम्, भारतम्
पूर्वाश्रमनाम शङ्करः
मृत्युतिथिः क्रि.श. ८२० ।
मृत्युस्थानम् केदारे अभ्यगात्,हिमाचलप्रदेशः भारतम्
गुरुः/गुरवः गोविन्दभगवत्पादः
तत्त्वचिन्तनम् अद्वैतम् ।
सम्मानाः भगवत्पादः, अद्वैतसिद्धन्तप्रतिष्ठापनाचर्यः ।
साहित्यिककृतयः ब्रह्मसूत्रभाष्यम्, उपनिषद्भाष्यम्, गीताभाष्यम्, स्तोत्रकाव्यानि ।
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

शङ्कराचार्यः (मलयाळम्: ശങ്കരാചാര്യൻ,शङ्कराचार्यन्) (क्रिस्ताब्दम् ७८८ - क्रिस्ताब्दम् ८२०), यस्यान्ये अभिधाने शङ्करभगवत्पादाचार्यः तथा च आदिशङ्कराचार्यः इति । आदिशङ्कराचार्यः एकः भारतीयः दार्शनिकः आसीत्, येन अद्वैतवेदान्तस्य सिद्धान्तः दृढतया प्रोद्बलितः । अद्वैतवेदान्तः वेदान्तस्य उपसंप्रदायः वर्तते । पूर्वमीमांसा इत्यपि एतस्य अपरं नाम । अद्वैतवेदान्तानुसारं जीवब्रह्मणोः अभेदः ब्रह्मणः निर्गुणत्वञ्च उच्यते । शङ्करः समग्रभारतवर्षस्य यात्रां कृत्वा स्वकीयं दर्शनं प्रवचनेभ्यः शास्त्रार्थेभ्यश्च प्रसारितवान् । सः दशनामी इति अद्वैतसंप्रदायस्य संघटनकर्ता मन्यते, तथा च षण्मत इति पूजनपरम्परायाः संस्थापकः मन्यते ।

संस्कृतेन रचिताः तस्य कृतयः, याः सर्वाः अपि अद्यापि प्राप्यमानाः, अद्वैतवेदान्तसिद्धान्तस्थापनविषयकाः सन्ति । सः उपनिषद्ब्रह्मसूत्रसम्मतस्य संन्यासस्य महत्तामपि प्रतिपादितवान्, यस्मिन् काले मीमांसा संप्रदायेन दृढं कर्मकाण्डं स्थापितमासीत् संन्यासश्च निन्दित: आसीत् । शङ्करः ब्रह्मविषये उपनिषदः प्रामाण्यं प्रोक्तवान् । तथा च ब्रह्मसूत्राणाम्, उपनिषदां, भगवद्गीतायाः च भाष्यं लिखितवान् । कर्मवादस्स्य प्रवर्तकेन मण्डनमिश्रेण सह ज्ञानवादं मण्डयित्वा जितवान् ।

चरितम्[सम्पादयतु]

केरळेषु पूर्णानद्यास्तीरे विद्यमाने कालटि ग्रामे स जज्ञे । सस्य शैशवे एव पिता शिवगुरुः दिवं प्रपेदे । अतः माता आर्यादेवी रक्षाधुरं वहन्ती शिशुं पोषयामास । असाधारणया मेधाशक्त्या स बालः सर्वान् अत्यवर्तत । पञ्चमे वयसि उपनीतः साङ्गान् वेदान् अधीते स्म । संन्यासाश्रमं प्रवेष्टुम् उत्कटेच्छा समजनि। परन्तु, माता नान्वमोदत ॥

एकस्मिन् दिने मात्रा सह पूर्णानदीं प्राप्य स्नानार्थम् अवतीर्णः । एकः ग्राहः तस्य पादं जग्राह । निनाय च नदीमध्यम् । तदवलोक्य तारं क्रन्दन्तीं मातरं स ऊचे । "यदि सन्यासानुज्ञां मे दास्यसि तर्हि नूनं ग्राहो मोक्ष्यति" इति । पुत्रं जीवन्तमिच्छन्ती सा कथञ्चित् अनुमेने । झटिति ग्राहशिशुं तीरोपकण्ठमानीय अमुञ्चत् ।

अथ विलम्बं विनैव स प्रव्रजितुं निरणौषीत् । "यदा मां स्मरिष्यसि, तदा त्वामुपस्थास्यामि" इति प्रतिश्रुत्य मातरं समाश्वासयन् गृहान्निरगाच्च ॥

स देशाद्देशं परिक्रममाणः नर्मदारोधसि स्थितं गौडपादाशिष्यं गोविन्दगुरुं प्रपेदे । परावरज्ञात् तस्मात् सकलाः विद्याः संन्यासञ्च जग्राह । तदनु तस्य गुरोः आज्ञया उपनिषदां ब्रह्मसूत्राणां गीतायाश्च भाष्याणि निर्ममे । अन्यानपि बहून् ग्रन्थान् निबबन्ध । तदनु गुरुणा अनुज्ञातः गौडपादेन चानुमोदितः कैश्चित् कुतार्किकैः कदर्थितं श्रौतं मतं सुप्रतिष्ठां नेतुं प्रायतत । प्रतिदेशं भ्रममाणः विपक्षवादान् तिलशः खण्डयामास । वैदिकमद्वैतमतं सुदृढं समर्थयामास च । तत्र तत्रानेके शिष्याश्च तस्याभूवन् ॥

अनन्तरं स्वेन समर्थितं मतं प्रचारयन् शिष्यैः सह कञ्चन कालं श्रीकाशीमध्युवास । तस्य यशः दिक्षु विदिक्षु च विससार । अस्मिन् अवसरे गयायामासन्नमृत्योः कुमारिलभट्टस्य अनुज्ञानुगुणम् अयमाचार्यः माहिष्मतीमेत्य मीमांसकानामग्रगण्यस्य मण्डनमिश्रस्य सकाशे वादभिक्षामयाचत । याचनामङ्गीकृत्य मिश्रः वादाय सज्जः अभवत् । तेन सह सुदीर्घवादः प्रावर्तत । अन्ते आचार्यः मिश्रं जिगाय । पराजितो मिश्रः सबहुमानं सभक्तिकञ्च आचार्यस्य शिष्यतां वव्रे । स एव सुरेश्वराचार्य इति प्रख्यातः ॥

एवमद्वैतमतं प्रतिष्ठापयन् आचार्यः बदरिकाश्रमं गत्वा नारायणं समाराध्य तत्र कञ्चन मठं स्थापयामास । तथैव पश्चिमतः द्वारकायां, पूर्वतः पुर्यां दक्षिणतः शृङ्गगिरौ तुङ्गायास्तीरे च । तेषु चतुर्षु मठेषु यथाक्रमं स्वशिष्यान् तोटकं, हस्तामलकं, पद्मपादं, सुरेश्वरञ्च पीठाधिपतिरूपेण न्ययोजयत् । उपनिषदां सम्मतस्य अद्वैतमतस्य रक्षणे पोषणे च तानादिदेश च ॥

अत्रान्तरे आतुरया मात्रा स्मृतः योगशक्त्या तस्याः पुरस्तादाविरासीत् । उचिताभिः परिचर्याभिस्तां प्रातोषयत् । प्रत्यासन्नायां तस्याः प्राणानामुत्क्रान्तौ नूतनाभिः नूतिभिः प्रसादितदैवतैस्तामनुगृहीतां सुगतिञ्च वितेने । पारत्रिकाणि कृत्यानि च यथाविधि वितेने ॥

अथ स्वकृत्यं सर्वं कृतं मन्यमानः स काश्मीरदेशं प्रययौ । तत्र महाजनानां मनोरथं मानयन् सर्वज्ञपीठमधिष्ठानं भूषयामास । तदनु हिमालयस्थां दत्तात्रेयगुहां जगाह । ततस्सत्ये शिवे शाश्वते पदे तिरोदधे च ॥

सम्बद्धितलेखाः[सम्पादयतु]

आदिशङ्कराचार्यः (चलच्चित्रम्)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=आदिशङ्कराचार्यः&oldid=276653" इत्यस्माद् पुनः प्राप्तिः