श्री अरविन्दः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
श्री अरविन्दः

श्री अरविन्दः (श्री अरविन्दघोषः) in 1916.
जन्मतिथिः 15 August 1872(1872-08-15)
जन्मस्थानम् कोलकाता, भारतम्
पूर्वाश्रमनाम श्री अरविन्दः
मृत्युतिथिः 5 December 1950(1950-12-05) (aged 78)
मृत्युस्थानम् पाण्डीचेरी , भारतम्
उक्तिः The Spirit shall look out through Matter's gaze.
And Matter shall reveal the Spirit's face.[१]
हस्ताक्षरम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

श्री अरविन्द (अरविन्दो घोष) (१८७२-१९५०) आधुनिक भारतस्य महान् योगी: एवं दार्शनिक: आसीत्। श्री अरविन्दमहाशयः द्विसप्तत्युत्तराष्टादशशततमे (१८७२) वर्षे अगस्तमासस्य पञ्चदश(१५)दिनाङ्के जननं प्राप्तवान् । सः कोलकातानगरे बारिस्टर् मनमोहनघोषगृहे जन्म लेभे । तस्य पिता कृष्णधनघोषमहारायः कश्चित् प्रभुत्ववैद्याधिकारी । तस्य माता स्वर्णलतादेवी । सा प्रख्यातभरतीयसंस्कृतिपरिरक्षणयोधस्य ऋषिराजनारायणबोस्-महोदयस्य ज्येष्ठापुत्रिका । श्री अरविन्दः कृष्णधनघोषमहोदयस्य तृतीयसन्ततिः । विनयभूषणमनमोहनौ श्री अरविन्दस्य अग्रजौ । यस्मिन् दिने श्रीरामकृष्णपरमहंसः महासमाधिं प्राप्तवान् तस्मिन्नेव दिने श्री अरविन्दः जननं प्राप । रतदेशस्वातन्त्र्यदिनोत्सवः अपि अगस्त-पञ्चदशदिनाङ्के एव खलु । श्री अरविन्दस्य श्वशुरः राजनारयणबोस् महोदयः विशिष्टदेशभक्तः ।

बाल्यं शिक्षा च[सम्पादयतु]

एकषष्ठयुत्तराष्टादशशततमे (१८६१)वर्षे बोस् महोदयः बेङ्गाल्-देशीयानां दृष्टिम् आङ्ग्लेयसंस्कृतिप्रभावतः परिवर्तयितुं, स्वकीयां संस्कृतिम्, आचारान् अनुसर्तुमपि महान्तं प्रयत्नं कृतवान् । श्री अरविन्दः क्रमेण आङ्गल्, हिन्दूस्थानी, लाटिन्, फ्रेञ्च्, ग्रीक्, गुजराती, मराठी, बेङ्गाली, संस्कृतभाषासु पण्डितः अभवत् । सप्तवर्षप्रायः श्री अरविन्दः " फाक्सफमिली" पत्रिकायाः कृते आङ्गलभाषायां पद्यानि विरच्य प्रेषितवान् । सेइन्ट पाल्स, केंब्रिड्ज् आदि विद्यालयेषु तस्य नाम अरविन्द आक्राइडघोष नाम्ना लिखितम् । नवत्युत्तराष्टदशशततमे (१८९०) वर्षे ऐ सि यस् परीक्षायाम् उत्तीर्णः अभवत् । स्वपित्रा लिखितान् लेखान् पत्रिकाप्रकटनानि च दृष्ट्वा, पठित्वा तस्य स्वातन्त्र्यसङ्ग्राम - सङ्कल्पः कार्यरुपम् अलभत । ङ्ग्लण्ड्देशे निवसन् श्री अरविन्दः लण्डन् नगरे भारतीयैः आयोजिते प्रत्येकसमावेशे उपस्थितवान् । श्री अरविन्दः एकविंशति (२१) वर्षप्राये स्वदेशमागतवान् । एकोनविंशतिशततमे (१९००) वर्षे बरोडा कलाशालायाम् आङ्ग्लप्राचार्यरूपेण प्रविष्टवान् ।

कुटुम्बजीवनम्[सम्पादयतु]

श्री अरविन्दः एकाधिकैकोनविंशतितमे (१९०१) वर्षे भूपालचन्द्रबोस्-महोदयस्य पुत्रीं मृणाळिनीं परिणीतवान् । चतुरधिकैकोनविंशतिशततमे (१९०४) वत्सरे सः बरोडा कलाशालायाः उपध्यक्षः अभवत् । श्री के यम् मुन्षी श्री अरविन्द् महोदयस्य शिष्यः । भारतजातीयोद्यम् इत्येतस्या: संस्थाया: लक्ष्यं उध्दोषणञ्च स्वराज् इति आसीत् । श्री अरविन्दः एतत् पदम् आध्यात्मिक-राजकीयप्रामुख्येन चापि उपयुक्तवान् । सः भारतीयसंस्कृतिविषये "दि रिनेसान्स् इन् इण्डिया" इति ग्रन्थं लिखितवान् । साहित्यसम्बद्धं "कालिदासः", " व्यासः वाल्मीकिश्च्" इति ग्र्न्थद्वयं रचितवान् । जातीयताविष्ये " बङ्किम -तिलक- दयानन्द " इत्येकं ग्रन्थम् अरचयत् । राजकीयक्षेत्रे, साहित्ये, आध्यत्मिकक्षेत्रेष्वपि सः बहुधा भारतमातुः अर्चनं कृतवान् ।

को हि भारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ।।

ग्रन्था:[सम्पादयतु]

टिप्पणी[सम्पादयतु]

  1. Savitri: A Legend and a Symbol, Book XI: The Book of Everlasting Day, Canto I: The Eternal Day: The Soul's Choice and The Supreme Consummation, p 709
"http://sa.wikipedia.org/w/index.php?title=श्री_अरविन्दः&oldid=279596" इत्यस्माद् पुनः प्राप्तिः