श्री अरविन्दः
| श्री अरविन्दः | |
|---|---|
श्री अरविन्दः (श्री अरविन्दघोषः) in 1916. |
|
| जन्मतिथिः | 15 August 1872 |
| जन्मस्थानम् | कोलकाता, भारतम् |
| पूर्वाश्रमनाम | श्री अरविन्दः |
| मृत्युतिथिः | 5 December 1950 (aged 78) |
| मृत्युस्थानम् | पाण्डीचेरी , भारतम् |
| उक्तिः | The Spirit shall look out through Matter's gaze. And Matter shall reveal the Spirit's face.[१] |
| हस्ताक्षरम् | |
|
|
|
परम्पराः
|
|
प्रवेशद्वारम्:सनातनधर्मः |
श्री अरविन्द (अरविन्दो घोष) (१८७२-१९५०) आधुनिक भारतस्य महान् योगी: एवं दार्शनिक: आसीत्। श्री अरविन्दमहाशयः द्विसप्तत्युत्तराष्टादशशततमे (१८७२) वर्षे अगस्तमासस्य पञ्चदश(१५)दिनाङ्के जननं प्राप्तवान् । सः कोलकातानगरे बारिस्टर् मनमोहनघोषगृहे जन्म लेभे । तस्य पिता कृष्णधनघोषमहारायः कश्चित् प्रभुत्ववैद्याधिकारी । तस्य माता स्वर्णलतादेवी । सा प्रख्यातभरतीयसंस्कृतिपरिरक्षणयोधस्य ऋषिराजनारायणबोस्-महोदयस्य ज्येष्ठापुत्रिका । श्री अरविन्दः कृष्णधनघोषमहोदयस्य तृतीयसन्ततिः । विनयभूषणमनमोहनौ श्री अरविन्दस्य अग्रजौ । यस्मिन् दिने श्रीरामकृष्णपरमहंसः महासमाधिं प्राप्तवान् तस्मिन्नेव दिने श्री अरविन्दः जननं प्राप । रतदेशस्वातन्त्र्यदिनोत्सवः अपि अगस्त-पञ्चदशदिनाङ्के एव खलु । श्री अरविन्दस्य श्वशुरः राजनारयणबोस् महोदयः विशिष्टदेशभक्तः ।
बाल्यं शिक्षा च [सम्पादयतु]
एकषष्ठयुत्तराष्टादशशततमे (१८६१)वर्षे बोस् महोदयः बेङ्गाल्-देशीयानां दृष्टिम् आङ्ग्लेयसंस्कृतिप्रभावतः परिवर्तयितुं, स्वकीयां संस्कृतिम्, आचारान् अनुसर्तुमपि महान्तं प्रयत्नं कृतवान् । श्री अरविन्दः क्रमेण आङ्गल्, हिन्दूस्थानी, लाटिन्, फ्रेञ्च्, ग्रीक्, गुजराती, मराठी, बेङ्गाली, संस्कृतभाषासु पण्डितः अभवत् । सप्तवर्षप्रायः श्री अरविन्दः " फाक्सफमिली" पत्रिकायाः कृते आङ्गलभाषायां पद्यानि विरच्य प्रेषितवान् । सेइन्ट पाल्स, केंब्रिड्ज् आदि विद्यालयेषु तस्य नाम अरविन्द आक्राइडघोष नाम्ना लिखितम् । नवत्युत्तराष्टदशशततमे (१८९०) वर्षे ऐ सि यस् परीक्षायाम् उत्तीर्णः अभवत् । स्वपित्रा लिखितान् लेखान् पत्रिकाप्रकटनानि च दृष्ट्वा, पठित्वा तस्य स्वातन्त्र्यसङ्ग्राम - सङ्कल्पः कार्यरुपम् अलभत । ङ्ग्लण्ड्देशे निवसन् श्री अरविन्दः लण्डन् नगरे भारतीयैः आयोजिते प्रत्येकसमावेशे उपस्थितवान् । श्री अरविन्दः एकविंशति (२१) वर्षप्राये स्वदेशमागतवान् । एकोनविंशतिशततमे (१९००) वर्षे बरोडा कलाशालायाम् आङ्ग्लप्राचार्यरूपेण प्रविष्टवान् ।
कुटुम्बजीवनम् [सम्पादयतु]
श्री अरविन्दः एकाधिकैकोनविंशतितमे (१९०१) वर्षे भूपालचन्द्रबोस्-महोदयस्य पुत्रीं मृणाळिनीं परिणीतवान् । चतुरधिकैकोनविंशतिशततमे (१९०४) वत्सरे सः बरोडा कलाशालायाः उपध्यक्षः अभवत् । श्री के यम् मुन्षी श्री अरविन्द् महोदयस्य शिष्यः । भारतजातीयोद्यम् इत्येतस्या: संस्थाया: लक्ष्यं उध्दोषणञ्च स्वराज् इति आसीत् । श्री अरविन्दः एतत् पदम् आध्यात्मिक-राजकीयप्रामुख्येन चापि उपयुक्तवान् । सः भारतीयसंस्कृतिविषये "दि रिनेसान्स् इन् इण्डिया" इति ग्रन्थं लिखितवान् । साहित्यसम्बद्धं "कालिदासः", " व्यासः वाल्मीकिश्च्" इति ग्र्न्थद्वयं रचितवान् । जातीयताविष्ये " बङ्किम -तिलक- दयानन्द " इत्येकं ग्रन्थम् अरचयत् । राजकीयक्षेत्रे, साहित्ये, आध्यत्मिकक्षेत्रेष्वपि सः बहुधा भारतमातुः अर्चनं कृतवान् ।
को हि भारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ।।
ग्रन्था: [सम्पादयतु]
- Bases of Yoga, Lotus Press, Twin Lakes, Wisconsin ISBN 0-941524-77-9
- Bhagavad Gita and Its Message, Lotus Press, Twin Lakes, Wisconsin ISBN 0-941524-78-7
- Dictionary of Sri Aurobindo's Yoga, (compiled by M.P. Pandit), Lotus Press, Twin Lakes, Wisconsin ISBN 0-941524-74-4
- Essays on the Gita, Lotus Press, Twin Lakes, Wisconsin ISBN 0-914955-18-7
- The Future Evolution of Man, Lotus Press, Twin Lakes, Wisconsin ISBN 0-940985-55-1
- The Human Cycle: The Psychology of Social Development, Lotus Press, Twin Lakes, Wisconsin ISBN 0-914955-44-6
- Hymns to the Mystic Fire, Lotus Press, Twin Lakes, Wisconsin ISBN 0-914955-22-5
- The Ideal of Human Unity, Lotus Press, Twin Lakes, Wisconsin ISBN 0-914955-43-8
- The Integral Yoga: Sri Aurobindo's Teaching and Method of Practice, Lotus Press, Twin Lakes, Wisconsin ISBN 0-941524-76-0
- The Life Divine, Lotus Press, Twin Lakes, Wisconsin ISBN 0-941524-61-2
- The Mind of Light, Lotus Press, Twin Lakes, Wisconsin ISBN 0-940985-70-5
- The Mother, Lotus Press, Twin Lakes, Wisconsin ISBN 0-941524-79-5
- Rebirth and Karma, Lotus Press, Twin Lakes, Wisconsin ISBN 0-941524-63-9
- Savitri: A Legend and a Symbol, Lotus Press, Twin Lakes, Wisconsin ISBN 0-941524-80-9
- Secret of the Veda, Lotus Press, Twin Lakes, Wisconsin ISBN 0-914955-19-5
- Sri Aurobindo Primary Works Set 12 vol. US Edition, Lotus Press, Twin Lakes, Wisconsin ISBN 0-941524-93-0
- Sri Aurobindo Selected Writings Software CD Rom, Lotus Press, Twin Lakes, Wisconsin ISBN 0-914955-88-8
- The Synthesis of Yoga, Lotus Press, Twin Lakes, Wisconsin ISBN 0-941524-65-5
- The Upanishads, Lotus Press, Twin Lakes, Wisconsin ISBN 0-914955-23-3
- Vedic Symbolism, Lotus Press, Twin Lakes, Wisconsin ISBN 0-941524-30-2
- ↑ Savitri: A Legend and a Symbol, Book XI: The Book of Everlasting Day, Canto I: The Eternal Day: The Soul's Choice and The Supreme Consummation, p 709