ब्रह्मचर्याश्रमः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

प्रथमे ब्रह्मचर्याश्रमे गुरुगृहं गत्वा ब्रह्मचर्यव्रतं स्वीकृत्य सकलशास्त्राणां विद्यानां च अध्ययनं क्रियते । योग्यतासम्पादनस्य अयं कालः । तत्तद्वर्णेभ्यः आश्रमेभ्यश्च विहितानां कर्तव्यानां सम्यक् ज्ञानं वर्णाश्रमव्यवस्थायाः यशसे आवश्यकमेव आसीत् । तद् अत्रैव सम्पाद्यते स्म । शास्त्रकारैः तथाविधा संस्कारक्षमा शिक्षापद्धतिः आविष्कृता यया संपूर्णसमाजस्य एकात्मतां हृदि धारयित्वा स्वकर्तव्यनिष्ठा जीवनाधारतत्त्वरूपेण सर्वैः स्वीकृता अभवत् । अध्यापनं तु ब्राह्मणाधीनम् । स्वस्य तपः पूतजीवनस्य आदर्शं छात्राणां पुरतः उपस्थाप्य वर्णानाम् अग्रेसरत्वं प्रस्थापितं खलु ब्राह्मणैः । एवं ब्रह्मचर्याश्रमे भाविनः जीवनस्य पूर्वसिद्धता इव क्रियते स्म । गरुडपुराणे (१-४९५) ब्रह्मचारिणः कर्तव्यानि एवम् उपदिष्टानि-

भिक्षाचर्याथ शुश्रूषा गुरोः स्वाध्याय एव च ।
संध्याकर्माग्निकार्यं च धर्मोऽयं ब्रह्मचारिणः ॥

ब्रह्मचर्याश्रमे संस्काराः[सम्पादयतु]

चतुर्विधेष्वाश्रमेषु-ब्रह्मचर्याश्रमः आद्यः । सोऽयमाश्रमो मानवजीवनस्याधारोऽस्ति । भारतीयसस्कृत्या वर्णव्यवस्थानुगुणमाश्रमधर्माः प्रतिपादिताः । तान् धर्मान् प्राप्तुमाश्रमप्रवेशोऽपेक्षते । धर्मसूत्रग्नन्थैः स्मृतिग्नन्थैश्च प्रतिपादितेषु षोडशसंस्कारेषु उपनयनं, वेदारम्भः, समावर्तनाख्यास्त्रयः संस्काराः आश्रमेऽस्मिन् अन्तर्भूताः सन्ति । तत्र बाल्यावस्थानन्तरभाविनि अभिनववयस्समारम्भे द्वितीयजन्मापादकत्वेन वेदाध्ययनाङ्गत्वेन सङ्कल्पितश्च, अयमुपनयनसंस्कार एव सर्वप्रधानम् । उपनयनस्य पार्यन्तिकं प्रयोजनं वेदाध्ययनाधिकारसिद्धिः ।

शब्दस्य व्युत्पत्तिः[सम्पादयतु]

वेदाध्ययनं ब्रह्मचर्यस्य पालनपूर्वकं करणीयमिति विधिः । य एवमाचरति स ब्रह्मचारी इति कीर्त्यते । अत्र ब्रह्म शब्दस्य वेदः इति अर्थः । तदध्ययनार्थं व्रतमप्युपचारद् ब्रह्म । ब्रह्मचरितुं शीलमस्य यद्वा ब्रह्म तपोज्ञानं वा चरति अर्जयत्यवश्यम् इति ब्रह्मचारि शब्दस्य व्याख्यालभ्योऽर्थः ।

क्षमाशीलो, जितेन्द्रियो, गुरुशुश्रूषातत्परः, ब्रह्मज्ञानेच्छुकश्च यो भवति स ब्रह्मचारी भवतीति महाभारतानुसारं ज्ञायते -

ब्रह्मचारी सदैवेष य इन्द्रियजये रत:
अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थित:
ब्रह्मभूतश्चरंल्लोके ब्रह्मचारी भवत्ययम् । इति । [महाभारतम्, अश्वमेध प. ७६-१५-१६ ]

ब्रह्मचारिणः ब्रह्मैव सर्वमस्ति । तदेव समिधः, अग्निः, जलं, गुरुः, ब्रह्मणि समाहितबुद्धिरिति पण्डिताः वर्णयन्ति । तदुक्तं महाभारते - ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्बह्मसम्भवः ।

आपो ब्रह्म गुरुर्बह्मस् स ब्रह्मणि समाहितः ॥
एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः ॥ [ महाभारतं अश्वमेधिका पर्व २६.१७-१८ ]

ब्रह्मचर्याश्रमस्य नियमाः[सम्पादयतु]

अस्मिन् विद्याध्ययनमेव प्रधानं कर्म । केवलेन स्वाध्यायेनापि पूर्णता न भवति । तद्वेषभूषापि भिन्ना स्यात् । स्नानादिना स्वास्थाम्, अनिन्द्याचरणेन च मनः शौचं प्रपद्येत । सायं प्रातः सन्ध्योपासनं, भिक्षाटनं, गुरुशुश्रूषणम् इत्यादींश्च कर्मनियमाननुपालयेत् । यथोक्तं महाभारते -

मेखला च भवे मौञ्जी नित्योदकस्तथा
यज्ञोपवीती स्वाध्यायी अलुब्धो नेत्यव्रतः । इति ।

अपि च मनुस्मृतेः वचनानुसारं-

सेवेतेमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् ।
सन्नियम्येन्द्रियग्रामं तपो वृध्द्यर्थमात्मन: ॥
वर्जयेन्मधुमांसञ्च गन्धमाल्यं रसान् स्त्रियः ।
शुक्तादि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥
अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्र धारणम् ।
कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥
द्यूतं च जनवादञ्च परीवादं तथाऽनृतम् ।
स्त्रीणां च प्रेक्षणा लम्भमुपघातं परस्य च ॥ इति ॥[ मनुस्मृति: २/१७५,१७७,१७८,१७९ ]

ब्रह्मचर्यस्य फलम्[सम्पादयतु]

इहलोके परमपुरुषार्थसाधनं ब्रह्मयर्चमेव । यज्ञस्यापि यत्फलं तद्ब्रह्मचर्यवांल्लभते । ब्रह्मचर्येणेव ईश्वरं पूजयित्वा आत्मानमनुविन्दते - इति छान्दोग्योपनिषदः कथनम् । यथा -

अथ यद्यज्ञ इत्याचक्षते ब्रह्मयर्चमेव तद्
ब्रह्मचर्येणह्येव यो ज्ञाता तं विन्दतेऽथ
यदिष्टमित्याचक्षते तद्ब्रह्मच्चर्येण ह्येवेष्ट्वात्मानमनुविन्दते’ इति ।[छा. उ.प्र.ख. १ ]

ये स्त्री विषयतृष्णात्यागेन शास्त्राचार्योपदेशम् आत्मसात्कुर्वन्ति तेषामेव ब्रह्मलोक: ।इति।

तद्य एवैतं ब्रह्मलोकं ब्रह्मयर्चेणानुविन्दिन्ति
तेषामेवैष ब्रह्मलोकस्तेषांसर्वेषु लोकेषु कामचारो भवति ॥ [छा.उ.चतुर्थ खण्ड: ]

‘यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्तेपदं संग्रहेण प्रवक्ष्ये’- इति गीतायां भगवत: वचनानुसारमपि ‘ब्रह्मचर्यं’ मोक्षसाधकमस्तीति स्पष्टम् ।

गुरुं शिष्यो नित्यमभिवादयीत
स्वाध्यायमिच्छेच्छुचिर प्रमत्तः ।
मानं न कुत्यान्नादधीत रोषन्मेष
प्रथमो ब्रह्मचर्यस्य पाद: ॥
शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति य: शुचि:
ब्रह्मचर्यव्रतस्यास्यप्रथम: पाद उच्यते ।
आचार्यस्य प्रियं कुर्यात् प्राणैरपि धनैरपि
कर्मणा मनसा वाचा द्वितीय: पाद उच्यते ॥
समा गुरौ यथा वृत्तिर्गुरुपल्यां तथाऽऽचरेत् ।
तत्पुत्रे च तथा कुर्वन् द्वितीय: पाद उच्यते ॥
आचार्येणाआत्मकृतं विजानन्
ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन ।
यन्मन्यते तं प्रति दृष्टबुद्धिः
स वै तृतीयो ब्रह्मचत्यस्य पादः ॥
नाचार्यस्यानपाकृत्य प्रवासं
प्राज्ञ: कुर्वीत नैतदहं करोमि ।
इतीव मन्यते न भाषयेत
स वै चतुर्थो ब्रह्मचर्यस्य पाद: ॥ [महाभारत,उद्योगपर्व,४४.१०-१५ ]

इत्यादिभिरुपर्युक्तै: महाभारतस्योद्योगपर्वपद्यै: ब्रह्मचर्याश्रमे ‘ब्रह्मचर्यस्य ’स्वरूपं किमिति प्रकाशितम् ।

ब्रह्मचारिणः कर्तव्यानि[सम्पादयतु]

नित्यं गुरोरभिवादनं,स्वाध्यायसम्पादनं, निरभिमाननम्, अक्रोध:, शिष्यवृत्त्या विद्यार्जनं , पवित्रमाचरणं चेति, इमानि ब्रह्मचर्यस्य प्रथमकर्त्तव्यम् ।
मनसा-वाचा-कर्मणा च प्राणै: धनैरपि आचार्यस्यप्रीणनम्, गुरो: समानं तद् दारदारकेषु आदरश्चेत्यिमानि ब्रह्मचर्यस्य द्वितीयकर्त्तव्यम् ।
गुरुणा यत् कृतं ताद्विज्ञाय, तेनैव कार्यमात्मन: सिद्धमिति मन्मन एव प्रसीदनं ब्रह्मचर्यस्य तृतीयं लक्षणम् ।
विनादक्षिणादिना आश्रम त्याग: गुरो: बहूपकृतमिति मनसि चिन्तनं वा नोचितमिति ब्रह्मचर्यस्य तुरीयं लक्षणम् ।
एवमाश्रमेऽस्मिन् वेदाध्ययनाय गुरुकुलं प्रविष्ट: शिष्य: स्वायुष: चतुर्भागं ब्रह्मचारी भूत्वा धर्मार्थवबुध्यमान: गुरुशुश्रूषणं कुर्यादिति महाभारते व्यासोपदेश: -

आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयक: ।
गुरौ वागुरुपुत्रे वा वसेद् धर्मार्थ कोविद: ॥ इति ॥ [महाभारतं , शान्तिपर्व, २४२-१६ ]

ब्रह्मचारिभेदः[सम्पादयतु]

द्विविधम्[सम्पादयतु]

नैष्ठिकमुपकुर्वाणं चेति । तत्र नैष्ठिकब्रह्मचारी ‘गृहस्थाश्रमं’ प्रवेष्टुं नार्हति । नैष्ठिकब्रह्मचर्यं नाम ‘आ जन्म ब्रह्मचर्यपालनम्’ इत्यर्थ: । यो ‘आजन्म ब्रह्मचर्यं विधानमनुपालयितुमीहते तं नैष्ठिको भवितुमाचार्योपदिशति ।अन्यथा ‘गृहस्थाश्रमं ततो ‘वानप्रस्थाश्रमं ’ ततश्च ‘संन्यासाश्रमम्’ इति जाबालोपनिषदि वर्णितम् । “ब्रह्मचर्यं परिसमाप्य गृहीभवेद् गृहीभूत्वा वनी भवेद्वनीभूत्वा प्रव्रजेत् । यदिवेतरथा ब्रह्मचत्यादेव प्रव्रजेत् गृहाद्वा बनाद्वा । यदहरेव विरजेत्तदहरेव प्रव्रजेत् "-इति ॥
एवं भारतीयभूमौ ब्रह्मचार्याश्रमस्य महत्त्वमवलोक्यते । आश्रमेऽस्मिन् नैष्ठिक:,उपकुर्व्वाणश्चेति ब्रह्मचारी द्विविध: । य आजन्मब्रह्मचर्यव्रतानुपालन-असमर्थोऽस्ति सः गुरुकुले कानिचन वर्षाणि ब्रह्मचर्येण विद्याध्ययनं सम्पाद्य, यथाशक्ति गुरुदक्षिणां प्रदाय, गुरोरनुज्ञया समावर्तन संस्कारमासाद्य गुहस्थाश्रमं प्रविशेत्- तथा हि-

षट् त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।
तदर्धिकं पादिकमं वाग्रहणान्तिकमेव वा ॥ [मनुस्मृति 3.1,2]
वेदानधीत्य वेदौ वावेदं वाऽपि यथाक्रमम् ।
अविप्लुत ब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥इति॥

नेष्ठिक ब्रह्माचारी त्रीण्यपि ऋणानि ज्ञानार्जनेनैवापाकरोति । त्रिभ्य ऋणेभ्यस्तस्य मुक्तिर्नापेक्ष्ते । तदृणं ज्ञानयज्ञ एव लयं याति ।

चतुर्विधम्[सम्पादयतु]

  • गायत्रब्रह्मचारी

गायत्रीमात्रमध्ययनमस्येति गायत्रः । गायत्रब्रह्मचारी तावत् उपनयनानन्तरं त्रिरात्रम् अक्षारलवणाशीसन् गायत्रीमधीत्य सावित्रव्रतसमाप्तिपत्यन्तं व्रतचारी भवति ।

  • ब्राह्मब्रह्मचारी

ब्राह्मवेदमधीयतेऽनेनेति ब्राह्मः । ब्राह्मब्रह्मचारी तावत् सावित्रव्रतानन्तरं भैक्षाचरणं व्रताचरणं च कुर्वन् द्वादशवर्षपर्यन्तं वा गुरुकुले स्थित्वा सूत्रसहितवेदाध्ययनं करोति ।

  • प्रजापत्यब्रह्मचारी

प्रजापतिर्नारायणो देवता अस्य ध्येयत्वेनेति प्रजापत्यः । प्राजापत्यब्रह्मचारी तावत् ब्रह्मचर्यशीलस्सन् नारायणपारायणो भूत्वा वेदवेदाङ्गार्थान् विचारयति ।

  • नैष्ठिकब्रह्मचारी

निष्ठाब्रह्मचर्यमेवनियमो अस्येति नैष्ठिकः । नैष्ठिकब्रह्मचारी तावत् काषाय अजिन वल्कलधारीसन् जठी, मेखली, दण्डी, अक्षारलवणाशीसन् यावदात्मनो विप्रयोगः भवति, तावत्पर्यन्तं गुरुकुलेस्थित्वा भैक्षान्नं प्राश्नाति ।
इति ब्रह्मचारिभेदाः वैखानसधर्मसूत्रे विशेषतया विलक्षणतया च परिदृश्यन्ते ।

ब्रह्मचर्यस्य महत्त्वम्[सम्पादयतु]

एतेन ब्रह्मचर्येण देवा देवा देवत्वमाप्नुवन् ।
ऋषयश्च माहभागा ब्रह्मलोकं मनीषिणः ॥ [ महाभारत, उद्योगपर्व 44.10 ]

इति महाभारतश्लोकमिदमेव स्पष्टयति यत् ‘ब्रह्मचर्यं इहाभ्युदयस्य मोक्षप्राप्तेश्चापि साधनमिति ॥
ब्रह्मणः स्वरूपे विचरणमर्थात् ब्रह्मणः स्वरूपस्य मननम् एव ब्रह्मचर्य शब्दस्यार्थः । यस्य मनो नित्यं सच्चिदानन्द रूपे ब्रह्मणि विचरति स एव ‘ब्रह्मचारी’ अस्ति ।
तदत्रावश्यकमस्ति सरीरेन्द्रियाणां मनोबुध्द्योर्बलम् इदं च बलं वीर्य रक्षणादेव भवति । अतः सर्वतो वीर्यं परिरक्षणीयमिति ब्रह्मचर्यव्रतमस्मानुब्दोधयति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=ब्रह्मचर्याश्रमः&oldid=284184" इत्यस्माद् पुनः प्राप्तिः