मनुस्मृतिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

फलकम्:Underlinked

हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

स्मृतिग्रन्थेषु मनुस्मृतिः प्राचीनतमा भवति । महर्षिमनुद्वारा रचितमेष ग्रन्थः मानवधर्मं विवृणोति । एतस्मात् एतस्याः अन्यतमानि नामानि 'मनुसंहिता’ 'मानवधर्मशास्त्रम्’ 'मानवधर्मशास्त्रं’ आदयः अपि सन्ति । श्रुतिग्रन्थाः वेदाः । तान् अधिकृत्य रचिताः ग्रन्थाः स्मृतयः । तेषां विषयवस्तु वैयक्तिकी सामाजिका च व्यवस्था, कर्तव्याणि, व्यवहारनियमानि, निषेद्धव्यानि च अस्ति । एष एव धर्मोऽस्ति खलु । मनुः स्वयं वदति – "धर्मशास्त्रं तु वै स्मृतिः (२।१०)” । अन्यत्र सः वदति - "वेदोऽखिलो धर्ममूलम् (२।६)”, "धर्मज्ञिज्ञासमानां प्रमाणं परमं श्रुतिः (२।१३)” । अतो मनुस्मृतिः पूर्णतया वेदाधारितो विधिविधानात्मको ग्रन्थोऽस्ति । मानवसमाजस्य व्यवस्थिता परिकल्पना विश्वग्रन्थेषु अत्र प्रथमतया दृश्यते । तस्माद् मनुमहर्षिः मानवसभ्यतायाः प्रतिष्ठाता इति मान्यता अस्ति । मनुः स्वयं वदति यत् प्रथमतया संस्कृतिः भारतात् बहिः प्रसारिता –

एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ 2|20 ||

सभ्यतायाः मूलेऽस्ति सुदृढसमाजः । एतादृशः समाजः कथं भवेदित्येतस्य परिकल्पना मनुना प्रथमतया कृता । समाजव्यवस्थायां चत्वारः वर्णाः विहिताः – ज्ञानवर्धने ज्ञानरक्षणे रताः ब्राह्मणाः, राष्ट्ररक्षणे नियमस्थापने क्षत्रियाः, वाणिज्ये पशुपालने कृषिकार्ये वैश्याः, सेवाकार्ये शूद्राः । समाजस्य मूले व्यक्तिरस्ति । वैयक्तिकां व्यवस्थां स एवं निर्दिशति – आयोः चत्वारः भागाः भवेयुः – ब्रह्मचर्याश्रमः, गृहस्थाश्रमः, वानप्रस्थाश्रमः, संन्यासाश्रमश्च । प्रतिवर्णस्य प्रत्याश्रमस्य च स धर्मस्य विधानं कृतवान् । मानवस्य चत्वारः लक्ष्याः सन्ति – धर्मोऽर्थः, काम, मोक्षश्च । तेषां स्वरूपं किं, तान् प्रापणाय किं किं कर्तव्यं, किं किं वर्जनीयम्, आपदि कः धर्मः – एतत् सर्वं तेन ग्रन्थे उपदिष्टम् । धर्मेण सम्बद्धः केचन अन्याः विषयाः अपि वर्णिताः, यथा – मूलप्रकृतया सृष्टेः सृजनक्रमः, गुरोः लक्षणानि, धूर्तस्य लक्षणानि, विवाहप्रकाराः इत्यादयः ।

भारतवर्षे मनुस्मृतेर्माहात्म्यम्[सम्पादयतु]

स्मृतेः वेदानुकूलता, प्राचीनता च तस्याः प्रसिद्धेः कारणे । मनोः कालं वैदिककालं यतो हि ब्राह्मणग्रन्थेषु अपि तस्य उल्लेखः प्राप्तः – "मनुर्वै यत्किञ्चावदत् तद् भैषजम् (तैत्तिरीय-संहिता २।२।१०।२, ३।१।९।४; ताण्ड्य-ब्राह्मणम् २३।१६।७) ।” मनुस्मृतिकृते तत्समये कियान् आदरभावः वर्तते, एतद् वचनं तं प्रकटयति; स्मृतेः वचनं पूर्णतया प्रामाणिकमस्ति, वेदानुकूलमस्ति, एतद्दर्शयति । निरुक्तशास्त्रे दायभागविषये यास्कः मनुस्मृतेः उल्लेखं कृतवान् । वाल्मीकिरचिते रामायणे, रामेण वालिवधप्रसङ्गे, रामः स्वस्य कार्यस्य धार्मिकता मनोर्वचनेन सिद्धयति । वाल्मीकिः लिखितवान् –

पुराणं मानवो धर्मः सांगोपांगचिकित्सकः ।
आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ महाभारतम् ॥

अर्थात् मनोर्वचनं दुष्टहेतुभिरकाट्यमस्ति । आचार्यो बृहस्पतिः स्वस्य स्मृतौ स्मृतिग्रन्थेषु मनुस्मृत्यै सर्वोच्चं स्थानं प्रदत्तवान् –

वेदार्थोपनिबद्धत्वात् प्राधान्यं हि मनोः स्मृतम् ।
मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते ॥
तावच्छास्त्राणि शोभन्ते तर्कव्याकरणानि च ।
धर्मार्थमोक्षोपदेष्टा मनुर्यावन्न दृश्यते ॥ बृह०स्मृतिः, संस्कारखण्डः, १३-१४ ॥

बौद्धकविना अश्वघोषेण (प्रथमशताब्दौ) स्वस्य वज्रकोपनिषद् नाम्ना कृतौ स्वस्य पक्षप्रतिष्ठापनाय मनोः श्लोकाः उद्धृताः । विश्वरूपेण स्वस्य यजुर्वेदभाष्ये, याज्ञवल्क्य-स्मृति-भाष्ये च अनेका श्लोका उद्धृताः । विज्ञानेश्वरेण याज्ञवल्क्य-स्मृति-पोषणाय मनुस्मृतेर्बहवः श्लोका उद्धृताः । शङ्कराचार्येण वेदान्तसूत्रभाष्ये मनुस्मृतेः अनेकाः श्लोकाः उल्लिखिताः । शबरस्वामेः जैमिनीय-पूर्वमीमांसा-भाष्ये (५०० ई०) अपि एवमेव प्राप्तः । गौतमः, वसिष्ठः, आपस्तम्बः, आश्वलायनः, जैमिनिः, बौधायनः, आदयः कल्पादिसूत्रकाराः स्वस्य ग्रन्थेषु मनुं अतीवसम्मानेन स्मृतवन्तः, स्वस्य ग्रन्थस्य गौरववर्धनाय, प्रामाणिकताप्रदर्शनाय च तस्य उल्लेखं कृतवन्तः ।

५७१ ई०-संवत्सरस्य एकः शिलालेखः प्राप्तः । तत्र वलभेः राज्ञः धारसेनस्य गुणगानमस्ति । सः मनोः विधयः अक्षरशः पालयति, अत एव महान् राजा अस्ति इत्येवं स्तुतिरस्ति ।

अन्येषां स्मृतिग्रन्थानां नीतिग्रन्थानां च मूले मनुस्मृतिरेव दृश्यते, यथा - याज्ञवल्क्यस्मृतिश्चाणक्यस्य अर्थशास्त्रं नीतिशास्त्रं च ।

एवं भारतवर्षे बहुप्राचीनकालात् धर्मस्य निर्णयः मनुस्मृत्या अभवत् । परन्तु, मध्यकाले तस्मिन् बहवः प्रक्षेपाः अन्तर्गताः । शूद्रः-स्त्री-आदि-विषये अनेकाः निरादरभावगताः श्लोकाः, प्राचीनेभिः सम्मानभावपूर्णेभिः वेदानुकूलेभिः श्लोकेभिः सह, वर्तते । एतस्मात् सम्प्रति एतस्य ग्रन्थस्य महत्त्वं किञ्चित् न्यूनमस्ति ।

मनुस्मृतौ बहूनि प्रक्षेपाः सन्तीति कुल्लूकभट्टादिना भाष्यकारैः स्वीकृताः । बुह्लर, जौली, आदयः पाश्चात्य विद्वांसः च तस्मिन् दुष्टाः श्लोकाः सन्तीति निर्दिष्टवान् । एकोनविंशति-शताब्देः परार्द्धे आर्यसमाजस्य प्रवर्तकः स्वामिदयानन्दसरस्वतिः मनुस्मृतेः पुनरुद्धारं कृतवान् । सः प्रक्षेपणं निर्दिष्टवान्, परन्तु अन्येषां श्लोकानां धर्मविषये प्रामाणिकता उद्घोषितवान् । स्वस्य ग्रन्थेषु, वेदान् मनुस्मृतिं च अवलम्ब्य, सः धर्मं उपदिष्टवान् । विंशति-शताब्दौ यत्र अम्बेडकरस्तस्याः शूद्रविरोधित्वं निन्दितवान्, अन्यत्र ए०सी० भक्तिवेदान्तस्वामी, एस० राधाकृष्णन्, पाण्डुरङ्ग शास्त्री अठावले, ऐनी बिसैन्ट, फ्राइड्रिक् नीश आदि महानुभावाः तस्याः भूरि प्रशंसां कृतवान् ।

अद्यापि पठनपाठने, मनुस्मृतेः प्राधान्यं वर्तते । भारतस्य संविधानं, 'हिन्दू कोड बिल' च एतामाश्रिते स्तः । सामाजिक्यां, राजनैतिक्यां, नैयायिकायां च व्यवस्थायां मनोः प्रभावो महत्त्वं च वर्तते ।

विदेशेषु प्रभावः[सम्पादयतु]

केवलं भारते न, अपितु अन्यानां देशानां विधिप्रणयनप्रसङ्गे भगवतो मनुमहर्षेः स्थानमुपरिष्टाद् दृश्यते । कतिपयानां देशानां विधिशास्त्रेषु मनुसंहितायाः केचनांशा यथावत् समुद्धृता दृश्यन्ते । यथा - बालिदेशस्य राष्ट्रनियमाः मनुस्मृतिमधिकृत्य वर्तन्ते । फिलिपीन्सदेशे लोकसभायाः प्राङ्गणे मनोः प्रतिमा विराजते । चम्पाद्वीपे (वियट्नाम्देशे) 'प्रसात्-कोम्पने’ राज्ञः यशोवर्मनः एकस्मिन् शिलालेखे मनोः अधोलिखितः श्लोकः उत्कीर्णः वर्तते –

वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ २।१३६ ॥

एवमेव वर्मा, श्रीलङ्का, कम्पूचीया आदि दक्षिणपूर्वेषु राष्ट्रेषु अपि शिलालेखेषु ग्रन्थेषु वा मनोः नाम आदरेण स्मृतम् । मनोः प्रजा वयमिति कम्पूचीयादेशवासिनः मन्यन्ते । थाइलैण्ड्देशे मान्यता अस्ति यत् ते रामस्य वंशजाः सन्ति । रामः मनोः कुले बभूव । नेपालदेशस्य संविधानं मनुस्मृतिमनुकरोति ।

एतेन स्पष्टः भवति यत् मनोः वचनं भारतदेशे एव न, परन्तु दूरदेशेषु अपि बहुसम्मानितम् आसीत् ।

प्रणेता कालः च[सम्पादयतु]

एतस्य ग्रन्थस्य प्रणेता 'मनुर्’ अस्ति, एषः विषयः तु निर्विवादोऽस्ति, यतः स्मृतौ एव लिखितमस्ति – मनुम् ... अभिगम्य महर्षयः ... वचनमब्रुवन् ।।१।१॥ चतुर्दशेषु मनुष्षु एष मनुः कः - एतस्मिन् विषये किञ्चित् विवादोऽस्ति – सः स्वायम्भुवमनुः अस्ति, वैवस्वतमनुः वा । स्वायम्भुवमनुरस्ति इति स्मृतौ लिखितम् – स्वायम्भुवस्यास्य मनोः ... ॥१।६१॥ प्रायः सर्वे उल्लेखनानि अपि एतदेव वदन्ति । परन्तु केषुचन स्थानेषु वैवस्वतमनुर्भवितुमर्हतीति सम्भाव्यते । यथा – मनुस्मृतौ एव पठितम् – ... विवस्वत् सुत एव च ॥१।६२॥ कथं सप्तमस्य विवस्वत्मनोः उल्लेखः यदि स तत्समये न अभवत् ? कौटिल्यस्यार्थशास्त्रे राज्ञः वैवस्वत्मनोः उल्लेखो वर्तते । परन्तु, अग्रे उक्ता कर-व्यवस्था मनुस्मृति-प्रतिपादिता वर्तते । अत एव स्मृतिः वैवस्वत्मनुना प्रोक्ता इति निष्कर्षः प्रसज्यते । मनुस्मृति-विशेषज्ञः प्रो० सुरेन्द्रकुमारः स्वस्य 'विशुद्ध-मनुस्मृति-’पुस्तके[१] सर्वान् प्रमाणान् संतोल्य निर्णीतवान् यत् स्मृतेः प्रणेता स्वायम्भुवमनुरेवास्तीति । परन्तु स्मृतेः संकलनं तु तस्य शिष्यः भृगु कृतवान् इति प्रतीयते – ...तेनोक्तो महर्षिमनुना भृगुः तानब्रवीतृषीन् ...॥१।६०॥

कालविषये यथा पूर्वमुक्तं यत् मनुस्मृतेः कालः वैदिककालः । निरुक्ते श्लोकोऽस्ति –

अविशेषेण पुत्राणां दायो भवति धर्मतः ।
मिथुनानां विसर्गादौ मनुः स्वायम्भुवोऽब्रवीत् ॥ निरुक्तम् ३।४ ॥

अतः मनुः आदिसृष्टौ बभूवेति निश्चीयते । अन्यैः प्रमाणैः अपि एष एव निष्कर्षः समागच्छति । सः राजर्षि बभूव इत्यपि प्रसिद्धोऽस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

मनुस्मृति इदानीमपि भारतीय-संस्कृतिं निर्धारयति । धर्मस्य परिभाषा अत्र सर्वप्रथमा दत्ता । एते धर्मा इदानीमपि सर्वे जनाः, ज्ञात्वाज्ञात्वा वा, स्वीकुर्वन्ति । भारतीयानां शीलं, न्यायदृष्टिं च तया प्रदत्ता । भारतवर्षे एव न, अपितु समग्रे सभ्ये विश्वे मनोः धर्मस्य न्यायपद्धतेः च – प्रकृष्टरूपेण अपभ्रंशरूपेण वा - पालनं भवति । सत्यमेव मनुः मानवजातेः प्रथमधर्मप्रवर्तकः । संक्षेपेण अधस्तात् स्मृतेः कानिचन विशिष्टानि अङ्गानि निर्दिष्टानि ।

  • सृष्ट्यादितः मनुः ब्रह्माण्डरचनां वर्णितवान् । आरम्भे, 'तम'-रूपी सत्त्व-रजस्-तमो-गुणी मूलप्रकृतिः आसीत् । तस्याः 'महत्’-नामकः प्रथमः अतिसूक्ष्मः विकारः उत्पद्यते; महतः अहङ्कारः, अहङ्कारात् त्रिगुणात्मकाः पञ्च तन्मात्राणि – शब्दः, स्पर्शः, रूपं, रसः, गन्धः च, दशेन्द्रियाणि, एकं मनश्च उत्पद्यन्ते ; तन्मात्रेभ्य आकाशो, वायुरग्निर्जलं, पृथिवी च निष्पद्यन्ते । एतेषां ब्रह्माण्डस्य सर्वाणि भूतानि निर्मितानि ।
  • भारतस्य प्राचीनं नाम 'आर्यावर्तोऽ'-त्र प्रथमतया दृश्यते –
आसमुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात् ।
तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥ १।१४१ ॥

एवं हिमालयस्य दक्षिणे सम्पूर्णं भूखण्डम् 'आर्यावर्त'-पदेन निर्दिष्टः आसीत् ।

  • मनुस्मृतौ वर्णितस्य धर्मस्य विशेषता अस्ति यत् एष न तु हिन्दुधर्मो राष्ट्रधर्मोऽन्यत् वा कोऽपि सीमितो धर्मोऽस्ति, परन्तु मानवमात्रकृते सार्वजनिकः, सार्वकालिकः, सार्वभौमश्चास्ति । संक्षेपेण मनुना दशलक्षणात्मको धर्म एवं प्रोक्तः –
धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।"
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ मनुस्मृतिः ६।९२ ॥

सर्वधर्माविरोधिनः एतानि लक्षणानि खलु !

  • धर्मस्य मूलं वेदाः सन्तीति स घोषितवान् –
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मस्तुष्टिरेव च ॥ १।१२५ ॥
चातुर्वर्ण्यं त्रयो लोकास्चत्वारश्चाश्रमाः पृथक् ।
भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिद्ध्यति ॥ १२।९७ ॥

वेदानामपौरुषेयत्वं च मनुरुद्घोषितवान् –

सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ १।२१ ॥

अत्र 'सः’-पदेन १।६-तमे सूत्रे वर्णितः स्वयम्भूः भगवान् उद्दिष्टः ।

  • आचारव्यवहारविधिनिषेधादीनां व्यवस्थानां तुलनात्मकधिया मनुस्मृतिरद्वितीयानुपमा चास्ति । प्राचीनकालतः भारतीयानाम् उद्दात्तविचारा अत्र प्रतिबिम्बिताः सन्ति । मनुष्येषु अन्यजन्तुषु भिन्नता वर्तते इतेतस्मात् मनुष्यकृते षोडशसंस्काराः विहिताः येन सः पूतः, हृष्टः, पुष्टः, धीमान् च भवति । ते सन्ति – गर्भाधानं, पुंसवनं, सीमन्तोन्नयनं, जातकर्म, नामकरणं, निष्क्रमणं, अन्नप्राशनं, मुण्डनं चूडाकर्म वा, उपनयनं, वेदारम्भः, केशान्तः, समावर्तनं, विवाहः, वानप्रस्थः, संन्यासः, अन्त्येष्टिः । तेषां विषये यः धर्मः वक्तव्यः सः मनुस्मृत्यौ उप्लभ्यते ।
  • प्रायः मध्यकाले बहुप्रक्षेपकारणात् व्यवस्थानां विकृतरूपं ग्रन्थे यत्रतत्र दृश्यते । यथा, वर्णानां जन्मतः निर्धारणम् । मनुः तु गुणेन कर्मणा वा वर्णव्यवस्थामुपदिष्टवान् –
शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् ।
क्षत्रियाज्जातमेवं तु विद्याद्वैश्यात्तथैव च ॥ १०।६५ ॥

अन्यत्र च स्पष्टतया प्रोक्तः –

योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ २।१६८ ॥
उत्तमानुत्तमान् गच्छन् हीनान् हीनांश्च वर्जयन् ।
ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥ ४।२४५ ॥

समाजस्य सुचारुव्यवस्थाकृते एषा वर्णव्यवस्था निरूपिता । एषा व्यवस्था यथा वेदेषु वर्णिता तथैव मनुना प्रोक्तः । वर्णानां यथाक्रमं कर्म एवं प्रतिपादितम् –

अध्यापननध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव ब्राह्मणानमकल्पयत् ॥ १।८८ ॥
प्रजानां रक्षणं दानमिज्याध्ययनमेव च ।
विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः ॥ १।८९ ॥
पशूनां रक्षणं दानमिज्याध्ययनमेव च ।
वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥ १।९० ॥
एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
एतेषामेव वर्णानां शुश्रूषामनसूयया ॥ १।९१ ॥

अतो, यदि शूद्रकुलोत्पन्नोऽपि अध्ययनं कृत्वा अध्यापनं करोति, सः ब्राह्मणाय कल्पते । इतिहासे एतस्योदाहरणं लभ्यते, यथा – ऐतरेयब्राह्मणे वर्णिता कवष-ऐलूषस्य कथा यत्र दासीपुत्रः कवषः वेदार्थद्रष्टा भूत्वा ब्राह्मणोऽभवत् । रामायणे विश्वामित्रो ब्राह्मणो जन्मना क्षत्रियोऽभूत् ।

  • स्त्रीविषये तेन प्रोक्तः -
स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् ।
विविधानि च शिल्पानि समादेयानि सर्वतः ॥ २।२४० ॥
पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा ।
पूज्या भूषयित्वाश्च बहुकल्याणमीप्सुभिः ॥ ३।५५ ॥
शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् ।
न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा ॥ ३।५७ ॥

स्त्रीणाम् एतावत् यो मानं करोति, स अवश्यमेव तासामवमानं न कर्तुं शक्यः इति तु स्पष्टमेव । अतः तद्विषयिनः श्लोकाः दुष्टाः सन्ति इति स्वीकर्तव्यम् । एतद्धर्मस्यानुकरणं कृत्वा गार्गी, मैत्रेय़्यादीः अनेकाः विदुषीः स्त्रियः प्राचीनकालतोऽद्यपर्यन्तं भारतवर्षे सन्ति ।

विषयविन्यासः[सम्पादयतु]

मनुस्मृतौ द्वादश अध्यायाः सन्ति । सम्प्रति २६८५ श्लोकाः च उपलभ्यन्ते । तत्र १२१४ श्लोकाः एव मौलिकाः सन्ति, अन्ये १४७१ प्रक्षिप्ताः इति कृतगहनान्वेषणः विद्वान् प्रो० सुरेन्द्रकुमारः वदति । तेन 'विशुद्धमनुस्मृतिः’[१] नाम्ना ग्रन्थः एतदाशयः स्पष्टीकृतः । अध्यायेषु विषयाः निम्नतालिकानुसारेण सन्ति –

अध्यायसं० विषयाः प्रचलिता/मौलिका श्लोकसं०
सृष्टिरचना, प्राणिनाम् जातयः, कालगणना, वेदेभ्यो धर्मनिष्पत्तिः, आर्यावर्तः १४४/७८
जातकर्मादिसंस्कारविधिः, ब्रह्मचारिधर्मः, गुरुलक्षणम् २२४/१६४
समावर्त्तनं, विवाहः, पञ्चमहायज्ञाः २८६/८४
वेदोक्ताजीविकाः, अतिथि-लक्षणम्, गृहस्थधर्मः २६०/९०
गृहस्थान्तर्गताः भक्ष्याभक्ष्यम्, देहशुद्धिः, द्रव्यशुद्धिः, पत्नीधर्मः १६९/४१
वानप्रस्थ-सन्यासा-श्रमीयाः धर्माः, दशलक्षणयुक्त-धर्मः ९७/६४
राज्याधिकारिणः लक्षणम्, राजधर्मः, व्यसनानि, शत्रु-मित्र-विवेचनम् २२६/१८४
न्यायसभायाः गठनं, व्यवहाराणां वर्णनं निर्णयं च ४२०/२३३
व्यवहारविषयः अनुवर्तितः – गृहस्थानां विवादाः, तेषां निर्णयः च, राज्ञः विविधरूपाणि ३२५/१५७
१० वैश्य-शूद्र-धर्माः, अनार्य-लक्षणं, कर्मानुसार-वर्णपरिवर्तनम् १४२/१५
११ विभिन्न-पापानां प्रायश्चित्तानि २६६/३२
१२ कर्मफलविधानं, सात्त्विक-राजसिक-तामसिकानि कर्माणि गतयः च, वेदानां माहत्म्यं, धर्मपरिषद्-वर्णनम् १२६/७२
- योगः २६८५/१२१४

टीकाः[सम्पादयतु]

अन्येषां स्मृतिग्रन्थानामपक्षेया मनुस्मृतेः अधिकतमा टीकाः सन्ति । भरूचेः भाष्यं प्राचीनतमम् इदानीम् उपलभ्यते । काणे तस्य कालः दशमीशताब्देः उत्तरार्द्धं एकादशम्याः पूर्वार्द्धं वा ऊहति । कुल्लूकभट्टस्य मन्वर्थमुक्तावली प्रसिद्धा लोकप्रिया च वर्तते । आङ्ग्लदेशीयैः मनुस्मृतिः प्रथमसंस्कृतग्रन्थः पठितः । 'इन्डोलौजी’-विषयस्य प्रतिष्ठापकः, सर् विलियम जोन्स आदरेण तस्याः प्रथमं आङ्ग्लभाष्यं लिखितवान् यत् १७९४-तमे वर्षे प्रकाशितः अभवत् । १८८६-तमे वर्षे जी० बुह्लर>[२] अपि, अष्टानां टीकानां सहायेन, भाष्यं कृतवान् यत् सम्प्रत्यपि लोकप्रियः अस्ति ।

आधुनिक काले, प्रो० सुरेन्द्रकुमारः, बह्वन्वेषणं कृत्वा, अनेकाः टीकाः पठित्वा, मनुस्मृतिभाष्यं १९८२-तमे वर्षे प्रकाशितवान् । तत्र सः प्रक्षिप्तान् श्लोकान् निर्दिष्टवान् । अनन्तरं, १९९०-तमे वर्षे, तस्य 'विशुद्ध-मनुस्मृतिः’ नाम्ना पुस्तकमपि प्रकाशितं यत्र सः केवलं प्रामाणिकान् श्लोकान् निबद्धवान्, प्रक्षिप्तान् श्लोकान् त्यागकारणमपि, बहुप्रमाणानवलम्ब्य विस्तरेण दत्तवान् ।

सन्दर्भाः[सम्पादयतु]

  1. १.० १.१ कुमारः, प्रो०सुरेन्द्रः (मई, १९९०). शास्त्री, श्री राजवीर. ed. विशुद्ध-मनुस्मृतिः. आर्ष साहित्य प्रचार ट्रस्ट, दिल्ली. 
  2. जी० बुह्लरस्यानुवादः (1886). "Sacred Books of the East: The Laws of Manus" (in आङ्ग्लभाषा). Internet Sacred Text Archive. Retrieved अगस्त २७, २०१३. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=मनुस्मृतिः&oldid=268185" इत्यस्माद् पुनः प्राप्तिः