रामायणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कूजन्तं रामरामेति मधुरं मधुराक्षरम्। आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्॥

अन्वयः- अहं वन्दे कोकिलः इव वाल्मीकिं यः सदा ‘राम, राम’ इति मधुरं मधुराक्षरं अकूजत् तथा च कविताशाखां आरोहत्।

रामस्य अयनं (चरितं) रामायणम् । रामायणमादिकाव्यं सर्वेषां संस्कृतभाषाकाव्यानां जीवातुभूतं च भवति । रामायणं महाभारतवत् कश्चिदितिहासग्रन्थो भवति । संस्कृतसाहित्येषु रामायणवत् प्रसिध्दः लोकप्रियश्च अन्यो ग्रन्थो नास्तीति वक्तुं शक्यते । नीतिदृष्ट्या काव्यात्मकदृष्ट्या लोकोपकारकदृष्ट्या च रामायणस्य महत्त्वं वर्धते । पितृपुत्रधर्मस्य पतिपत्नीधर्मस्य भ्रातृधर्मस्य तथा अन्यकौटुम्बिकधर्मस्य च आदर्शभूतो अयं ग्रन्थः ॥ आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः ।

पारंपरिक इतिहासरेवम् कथयते यत् श्रीवाल्मीकिः पूर्वं कश्चित् तस्करः (निषादः) आसीत् रत्नाकरो इति नाम्ना । सप्तर्षीणां दर्शनानन्तरं राममन्त्रजपपूर्वकतपसा रत्नाकरः वाल्मीकिः संजातः । रामायणे न केवलं युद्धमात्रं प्रत्युत सकलालङ्काराणां प्रकृतिसौन्दर्यस्य धर्मस्य च यत्र तत्र वर्णनं दृश्यते । सरलसंस्कृतभाषापठनार्थम् अत्यन्तोपयोगि साधनं च भवत्येतत् ॥

रामायणमादिकाव्यम् इति प्रसिद्धम्। इतिहासग्रन्थः इत्यपि भाव्यते एतत्। एतस्य ग्रन्थस्य रचयिता वाल्मीकिः। किरातकुले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत्। तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः। ततः स बहिः आगतः इत्यतः तस्य नाम 'वाल्मीकिः' इति काचित् कथा श्रूयते।

तमसानदीं स्नानार्थं गच्छन् वाल्मीकिः व्याधेन मारितं क्रौञ्चं पश्यति। तदा शोकाकुलः सः - 'मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः' इति व्याधं शपति। ततः नारदमुखात् रामस्य कथां श्रुत्वा सः रामायणं रचयति। सीतारामयोः वियोगः रामायणस्य मुख्यं कथावस्तु।

महाभारते रामायणस्य कथा वर्णिता दृश्यते। पाणिनेः अष्टाध्याय्याम् अपि कैकेयीकौसल्यादयः शब्दाः उपलभ्यन्ते। अतः रामायणं महाभारतात् पाणिनेः च पूर्वम् आसीत् इति स्पष्टम्। रामायणं कदा आसीत् इति विषये मतभेदाः बहवः सन्ति। तथापि एतावत्तु वक्तुं शक्यते यत् वाल्मीकिः रामायणं क्रि·पू·पञ्चशतवर्षेभ्य: पूर्वम् रचितवान् स्यात् इति।

रामायणग्रंथे २४००० श्लोकाः सन्ति। रामायणस्य प्रतिसहस्रतमस्य श्लोकस्य आदौ गायत्रीमन्त्रस्य एकैकम् अक्षरं प्राप्यते। पाठभेदादयः न भवेयुः इति उद्देशेन एवं कृतं स्यात् कविना। रामायणं सर्वासु भारतीयभाषासु बह्वीषु विदेशीयभाषासु च अनूदितम् उपलभ्यते। एतस्मात् रामायणस्य जनप्रियता अतिस्पष्टा भवति।

वाल्मीकेः शैली ललिता सरला सुन्दरी च। श्रीरामस्य धर्मनिष्ठा, सीतायाः सौशील्यं, भरतस्य भ्रातृवात्सल्यं, लक्ष्मणस्य कर्तव्यनिष्ठा, आञ्जनेयस्य कार्यदक्षता, सुग्रीवस्य सौहार्दभावः इत्यादयः अंशाः अतिरमणीयतया चित्रिताः तेन। संस्कृतसाहित्यनिर्माणे वाल्मिकिः शकपुरुषः इत्यत्र न अतिशयोक्तिः।

रामायणस्य उद्भवः[सम्पादयतु]

एकस्मिन् दिने वाल्मीकिमहर्षिः सन्ध्यावन्दनार्थं स्वशिष्यैः साकं नदीतीरं गतवान् । तत्र कश्चन निषादः वृक्षस्य उपरि विद्यमानयोः क्रौञ्चयोः मध्ये एकं मारितवान् । एतत् हृदयभेदकं दृश्यं कवेः मुखतः छन्दोबद्धरूपेण दुःखप्रवाहम् अकारयत् । तद्यथा-

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ इति ॥

(हे निषाद, त्वं शाश्वतीः समाः प्रतिष्ठां मा अगमः यत् क्रौञ्चमिथुनात् काममोहितम् एकम् अवधीः) तदनन्तरं मम मुखतः शापवाक्यमागतम् इति चिन्तया महर्षिः ततोऽपि अधिकं दुःखम् अनुभूतवान् । किन्तु नारदमहर्षिणा प्रचोदितः सः दुःखम् अपनीय स्वमुखतः आगतस्य श्लोकस्य अपरम् अर्थं ज्ञातवान् । तद्यथा – हे मानिषाद, त्वं शाश्वतीः समाः प्रतिष्ठाम् अगमः, यत् क्रौञ्चमिथुनात् काममोहितम् एकम् अवधीः इति ॥ एषः विष्णुवन्दनपरः श्लोकः इत्यवगत्य तेन प्रेरितः वाल्मीकिः आदिकाव्यस्य रामायणस्य रचनाम् अकरोत् ॥

रामायणस्य रचनाकालः[सम्पादयतु]

अतिप्राचीनां अपि रामायणादिग्रन्थानाम् रचनाकालः एषः एव इति प्रायेण वक्तुं भाषाविज्ञानद्वारेण शक्यते । वस्तुतः एतस्मिन् वर्षे एतस्मिन् मासे एतस्मिन् दिने एतस्मिन समये एषः ग्रन्थः रचितः इति कथनं अशक्यं । तथापि एतादृशग्रन्थानां रचनाकालविषये पण्डिताः भिन्नं भिन्नं मतं प्रकटयन्ति । तदनुसृत्य रामायणस्यापि कालस्य सामान्यनिर्णयः कृतः अस्ति ।।

वाल्मीकिरामायणमिति अस्माभि: उपलब्धो ग्रन्थ: वास्तव्येन भाषाविज्ञानेन संशोधितं अत:परं विदुषां एष्: प्रत्ययो यद् तद्ग्रन्थ: प्रायेण वाल्मीकिना रचितोपि तस्य विभिन्ना: रचयितार: स्पष्टं अभिज्ञातुम् शक्यन्ते | बालकाण्डम् तथा उत्तरकाण्डम् वाल्मीकिना न रचिते स्त: यत: तयो: शब्दविन्यास: साहित्यविन्यासश्च मध्यवर्तिभ्य: पञ्चभ्य: काण्डेभ्यो विभिन्नौ स्त: तत्परं कतिपयानि वृत्तान्यपि वैपरीत्येन वर्णितान्यपि सन्ति ||

रामायणे महाभारतवर्णितस्य कस्यापि कथापात्रस्य नाम न श्रूयते । महाभारते तु रामस्य कथा वर्णिता अस्ति । महाभारतस्य सप्तमपर्वणि लङ्काकाण्डगतं पद्यद्वयं प्राप्तमस्ति । अतः रामायणं महाभारतात् प्राचीनं भवति । रामायणस्य बौद्धसाहित्यस्य च सम्बन्धः दृश्यते । रामायणीया कथा किञ्चित् परिवर्तनेन दशरथजातकनाम्ना पालिभाषया रचिता अस्ति । जातककथासु रामायणस्थलसाम्यम् अस्त्येव । बौद्धसाहित्यपण्डितः सिलवेनलेविमहाशयः स्पष्टयति यत् सद्धर्ममृत्युपस्थानस्य बौद्धग्रन्थस्य मूलम् अवश्यं वाल्मीकिरामायणम् इति तत्र विद्यमानं जम्बूद्वीपवर्णनं रामायणीयदिग्वर्णनस्य सदृशमस्ति इति । याकोबिमहाशयः भाषाविज्ञानदृष्ट्या बौद्धकालात् पूर्वमेव रामायणस्य कालः इति कथयति । एतैः सर्वैः अपि प्रमाणैः रामायणस्य बौद्धकालिकात् पूर्वत्वं सिद्धयति । रामायणे कोसलराजधानी अयोध्या इति प्रतिपादिता अस्ति । बौद्धैः यवनैः पतञ्जलिः कोसलराजधान्याः साकेतः इति नाम उच्यते । अतः साकेतनामकरणात् पूर्वमेव रामायणस्य रचनाकालः इति ज्ञायते ॥

पाटलीपुत्रस्य प्रतिष्ठापनं अजातशत्रुणा ई.पू. ५०० समये कृतम् । रामायणे पाटलीपुत्रस्य नाम नास्ति । पाणिनीयव्याकरणनियमाः सर्वे रामायणे न अनुसृताः दृश्यन्ते । एतादृशैः अनेकैः कारणैः रामायणस्य रचनाकालः ई.पू. ५०० इति सिद्धम् ॥

रामायणकाव्यरचनम्[सम्पादयतु]

रामायणरचयिता वाल्मीकिः

अन्यान्यकविभिः लिखितेषु अन्यान्यरामायणावृत्तिषु बहुजनप्रियं, बहुजनपठनयोग्यं वाल्मीकिरामायणमेव । अनेकासु संस्कृतीषु उपयुज्यमानेभ्यः रामायणावृत्तिभ्यः आधारभूतं वाल्मीकिरामायणमेव । एषा कृतिः पूर्णापूर्णेषु हस्तप्रतिषु उपलब्धा अस्ति । तासु कृतिषु अत्यन्तं प्राचीना एकादशशतके रचिता अस्ति । वाल्मीकिरामायणस्य प्रस्तुतहस्तप्रतिः उत्तरभारतस्य दक्षिणभारतस्य च कृतिद्वयं प्रादेशिकावृत्तिरुपेण उपलब्धमस्ति । वाल्मीकिरामायणे कथा रामस्य जन्मनः आरभ्य तस्य अवतारसमाप्तिपर्यन्तमपि भवति । वाल्मीकिरामयणं सप्तकाण्डेषु विभज्यते ।

बालकाण्डम् - रामस्य जननं, बाल्यं, वनवासात् पूर्वं विश्वामित्रर्षेः आज्ञया तेन सह राक्षससंहारार्थं वनगमनं,अहिल्याउद्धारम्,सीतास्वयंवरश्च -एताः घटनाः बालकाण्डे अन्तर्भवन्ति ।
अयोध्याकाण्डम् - अस्मिन् भागे कैकेय्या याचितयोः द्वयोः वरयोः मध्ये एकस्य वरस्य पूरणरूपेण रामस्य वनवासः भवति । दशरथः पुत्रशोकात् मरणं प्राप्नोति ।
अरण्यकाण्डम् - अस्मिन् भागे (काण्डे) वने रामस्य जीवनरीतिः, सीतापहरणं च चित्रितमस्ति ।
किष्किन्धाकाण्डम् - सीतामन्विष्यन् रामः किष्किन्धानामकं वानरसाम्राज्यं प्राप्नोति । तत्र सुग्रीवः हनुमान् इत्यादिभिः कपिभिः सह तस्य सख्यम् भवति । वानरसैन्यं सीतामन्वेष्टुं प्रवर्तते ।
सुन्दरकाण्डम्- अत्रहनुमद्विषये विवरणमस्ति । हनुमतः अपरं नाम सुन्दरः इति । तत्कारणात् अस्य काण्डस्य नाम सुन्दरकाण्डमित्यस्ति । एषः समुद्रोल्लङ्घनं कृत्वा (समुद्रमुल्लङ्घ्य) लङ्कां प्रविशति । सीता रावणराज्ये लङ्कायाम् अशोकवने अस्ति इति ज्ञात्वा रामाय विषयं निवेदयति ।
युद्धकाण्डम्- अस्मिन् काण्डे रामरावणयोः युद्धस्य विवरणमस्ति । रावणसंहारानन्तरं रामः स्वजनैः सह अयोध्यामागच्छति । श्रीरामस्य राज्याभिषेकस्य विवरणमस्ति ।
उत्तरकाण्डम् -सीतारामौ वनवासानन्तरम् अयोध्यायां कथं जीवनं यापितवन्तौ इति चित्रितमस्ति । रजकस्य अवाच्यवचनकारणात् रामः सीतां परित्यजति वनं प्रेषयति च । कालान्तरे रामावतारपरिसमाप्तिपर्यन्तं कथा अनुवर्तते ।

वाल्मीकिरामायणस्य प्रथमान्तिमकाण्डयोः रचयिता वाल्मीकिः एव वा इति सन्देहः वर्तते । यतः अनयोः द्वयो काण्डयोः अवशिष्टानाम् अन्येषां पञ्चानां काण्डानां च लेखनशैली भिन्ना वर्तते, कथायां च विरोधाभासः अस्ति । तथापि एतौ द्वावपि काण्डौ रामायणस्य अविभाज्याङ्गौ इति तु सत्यमेव इति ज्ञानिनामभिप्रायः । रामस्य दैवांशत्वं, तस्य जन्म, रावणविषये दन्तकथाः ईदृशाः पौराणिकांशानां बहुभागाः अनयोः अध्याययोः एव द्र्ष्टुं शक्यन्ते ।

रामायणे मुख्यपात्राणि[सम्पादयतु]

रामः -रामायणकथानायकः श्रीरामः । सः अवतारपुरुषः इति रामायणे चित्रितः। श्रीरामः अयोध्याधिपस्य दशरथस्य अत्यन्तं प्रीतिपात्रं ज्येष्ठपुत्रः । अयोध्याप्रजाभ्यः अपि अत्यन्तं प्रीतिपात्रं श्रीरामः । एषः सद्गुणानां साकाररूपः (मूर्तरूपः)आसीत्। दशरथस्य तिसृषु पत्नीषु अन्यतमा कैकेयी दशरथेन दत्तेन वरद्वारा रामं वनं प्रेषयति । रामोऽपि राज्याभिषेकं विहाय वनगमनाय सिद्धः भवति । यदा वनवासे भवति तदैव राक्षसं रावणं मारयति ।

सीता -श्रीरामस्य पत्नी सीता जनकमहाराजस्य पुत्री। सीता सच्चारित्र्यवती आसीत् । सा राममनुसृत्य वनं गच्छति । वने रावणेनापहृता भवति । रावणः सीतां लङ्कायां रहस्यस्थाने स्थापयति । कतिचनदिनानन्तरं रामः रावणं मारयित्वा सीतां बन्धमुक्तां कृत्वा अयोध्यामानयति ।

हनुमान्- हनुमान् इति प्रसिद्धः कश्चन कपिः (वानरः) । अयं वानरः किष्किन्धासाम्राज्ये वसति। एषः श्रीरामस्य परमभक्त्तः आसीत् ।(श्रीरामे हनूमतः पराभक्तिः) महासमुद्रमुल्लङ्घ्य सीतामन्विष्य रामं निवेदयति । तदनन्तरं लङ्कायाः सीतामानेतुं हनूमान् रामस्य बहु साहाय्यं करोति ।

लक्ष्मणः-श्रीरामस्य अनुजः लक्ष्मणः । यदा रामः वनगमनाय सन्नद्धः तदा राममनुगच्छत्येषः । वनवाससन्दर्भे लक्ष्मणः सीतारामयोः अपरिमितां सेवां करोति । रावणेन प्रेरितः मारीचः नाम राक्षसः मायामृगरूपेण आश्रमसमीपे इतस्ततः भ्रमति । तेन मृगेण आकृष्टा सीता तमपेक्षते । प्रथमं रामः तमानेतुं गतः । अल्पसमयानन्तरं लक्ष्मणोऽपि राममन्विषन् उटजात् निरगच्छत् । तदा एव रावणः सीतामपहरति ।

रावणः - लङ्काधिपः रावणः सः ब्रह्माणमधिकृत्य दशसहस्रं वर्षाणि यावत् तपः आचरति। विशिष्टं वरमेकं प्राप्नोति च यत् देवताभ्यः अथवा अन्याभ्यः शक्तिभ्यः मरणं न प्राप्नुयादिति । रावणस्य दशशिरांसि, विंशतिहस्ताः, ब्रह्मणः वरकारणात् चिरंजीवित्वं, एवं सर्वस्मात् कारणात् रावणः लोककण्टकः अभवत् । दुष्टतया विजृम्भमाणस्य रावणस्य संहारं कर्तुं रामः भूलोके अवततार ।

दशरथः अयोध्याधिपः दशरथः । तस्य तिस्रः पत्न्यः आसन् । प्रथमा कौसल्या, द्वितीया सुमित्रा, तृतीया कैकेयी च । श्रीरामः कौसल्यायाः पुत्रः लक्ष्मणः शत्रुघ्नः च सुमित्रायाः यमलौ पुत्रौ, कैकेय्याश्च पुत्रः भरतः । दशरथस्य अत्यन्तं प्रीतिपात्रं कैकेयी आसीत् । सा कैकेयी दशरथात् वरद्वयं प्राप्नोत् तदनुसारं सा " रामः चतुर्दशवर्षाणि वनवासं कुर्यात्, भरतश्च अयोध्यायाः राजा भवेत् " इति अपेक्षितवती । पुत्रेण रामेण वियुक्तः दशरथः पुत्रशोकात मरणं प्राप्नोत् ।

भरतः - दशरथस्य द्वितीयः पुत्रः भरतः । सीतारामलक्ष्मणाः यदा वनं प्रस्थितवन्तः तदा भरतः अयोध्यायां नासीत् । परन्तु रामस्य वनगमनात् दुःखं सोढुमशक्तः दशरथः मृतः अभवत् । समस्तघटनानां मूलकारणं कैकेयी एव इति ज्ञात्वा भरतः कैकेय्यै क्रुध्यति । अनुक्षणं रामम् अन्वेष्टुं निर्गच्छति । पितृवाक्यपरिपालनार्थं वनं गतः रामः भरतेन निवेदितः चेदपि अयोध्यां प्रति आगमनं नाङ्गीकरोति । तदा भरतः रामस्य पादुकाद्वयं शिरसि संस्थाप्य अयोध्यामागच्छति । अयोध्यायाः सिंहासने श्रीरामस्य पादुके संस्थाप्य रामस्य परतया राज्यभारं निर्वहति भरतः ।

विश्वामित्रः -ब्रह्मर्षिः विश्वामित्रः अरण्ये हवनादिसत्कार्यकरणसन्दर्भे पीडयतः राक्षसान् संहर्तुं रामलक्ष्मणौ वनं प्रति नयति । कार्यं समाप्य ततः तौ मिथिलानगरं नयति । तत्र जनकमहाराजः सीतायाः स्वयंवरम् आयोजितवानासीत् । तत्र शिवधनुः भग्नं कृत्वा रामः सीतां वृणोति।

सारांशः[सम्पादयतु]

रामायणकथानायकः श्रीरामः हिन्दुभिः पूज्यमानेषु देवेषु अन्यतमः । रामः यत्र वसति स्म, यत्र यत्र प्रवासं कृतवान्, तादृशस्थानानि अद्य पवित्रक्षेत्राणि अभवन् । सनातनधर्मानुयायिनां तु रामायणकथायामतीव श्रद्धा वर्तते । पूर्णरामायणम् अथवा रामायणास्य केचन भागाः श्रद्धया पठ्यन्ते अथवा श्रूयन्ते चेत् यः पठति शृणोति वा सः महापापादपि प्रमुच्यते इति अनेके विश्वसन्ति । धार्मिकाणामभिप्राये रामः त्रिमूर्तिषु अन्यतमस्य विष्णोः एव अवतारः । धर्मसंस्थापनार्थाय एव भुवमवतीर्णः श्रीरामः ।

रामस्य कौमारावस्था[सम्पादयतु]

लङ्काधिपः राक्षसराजः रावणः सृष्टिकर्तारं ब्रह्मणमधिकृत्य घोरं तपः आचरितवान् । तेन प्रसन्नः सन् ब्रह्मा रावणाय वरमेकं दत्तवान् ’ यक्षकिन्नरैः वा देवताभिः वा राक्षसौर्वा भवतः मरणं न स्यादिति । एकवारं दत्तं वरं प्रतिस्वीकर्तुं न शक्यते । तादृशं वरं प्राप्तवान् रावणः राक्षससहचरैः सह शिष्टान् ब्राह्मणान् बहु पीडयति स्म । सर्वाः देवताः ब्रह्माणं प्रार्थयन्ति स्म यत् 'भूमिम् अस्मान् च रक्ष' इति ब्रह्मापि विष्णुं सम्प्राप्य देवतानां दुःखं निवेद्य " सः रावणः देवैः राक्षसैः वा मरणं न स्यात् इति वरं प्राप्तवान् अस्ति । अतः कृपया भूमिमवतीर्य मनुष्यरूपेण रावणं संहरतु" इति प्रार्थितवान् । अस्मिन् सन्दर्भे कोसलाधिपः दशरथः अनपत्यकारणात् स्वस्य उत्तराधिकारित्वविषये चिन्ताक्रान्तः आसीत् । मन्त्रिणां पुरोहितानां गुरूणां च अभिप्रायं सम्प्राप्य सः राजा पुत्रप्राप्त्यर्थं पुत्रकामेष्टियागं चकार । विष्णुः दशरथस्य ज्येष्ठपुत्ररूपेण जन्म प्राप्तुं निर्णीतवान् । यज्ञकुण्डे दैवीपुरुषः आविर्भूय दशरथाय पायसपूर्णं पात्रमेकं (स्वर्णकलशमेकं) दत्त्वा 'तव राज्ञीभ्यः पायसमेतत् देयम्’ इति उक्त्वा अदृश्यः अभवत् । दशरथः तिसृभ्यः राज्ञीभ्यः कौसल्या-सुमित्रा-कैकेयीभ्यः पायसस्य वितरणमकरोत् । कालक्रमेण ताः गर्भिण्यः अभवन् । नवमासं सम्पूर्य कौसल्या रामं, सुमित्रा लक्षणशत्रुघ्नौ, कैकेयी च भरतं प्रसूतवत्यः। इमे बालाः गुरुवसिष्ठात् सर्वाणि शास्त्राणि धनुर्विद्यां च जानन्तः अवर्धन्त । एकस्मिन् दिने विश्वामित्रः कोसलदेशमागत्य दशरथं प्रार्थयत् यत् यज्ञयागादिकार्ये पीडयतां राक्षसानां दमनार्थं रामः तेन सह प्रेषणीयः इति । विमनाः अपि दशरथः विश्वमित्रेण सह रामलक्ष्मणौ प्रेषितवान् । विश्वामित्रेण आज्ञप्तं कार्यं समापितवन्तौ रामलक्ष्मणौ । तेन सन्तुष्टः विश्वामित्रः अनेकैः दिव्यास्त्रैः अनुगृहीतवान् ।

सीतास्वयंवरः

विश्वामित्रेण सह रामलक्ष्मणौ मिथिलानगरमागतौ । तत्र जनकमहाराजः स्वकन्यां सीतां स्वयंवरे नियोज्य विवाहं कर्तुं निर्णीतवान् । स्वयंवरे स्थापितं बलिष्ठं शिवधनुः यः उन्नयति सः सीतां वरयितुं योग्यः इति निर्णितमासीत् । अनेके विवाहेच्छवः प्रयत्नं कृत्वा असफलाः भूत्वा प्रतिनिवृत्ताः । परन्तु रामः कार्यमेतत् साधयितुं निश्चितवान् । सः यदा आस्थानं प्रविष्टवान् तदा जनकः तं दृष्ट्वा मुदितः । पञ्चशः जनाः तत् शिवधनुः आकृष्य आनीतवन्तः । परन्तु रामः तत् बहुसुलभतया उन्नीय भञ्जनं कृतवान् । सन्तुष्टः जनकः लावण्यवतीं सीतां रामाय दत्तवान् । विवाहमहोत्सवानन्तरं नवदम्पती अयोध्यां प्रस्थितौ ।

रामस्य वनवासः[सम्पादयतु]

भरताय श्रीरामस्य पादुकाप्रदानम्

राजा दशरथः स्वस्य उत्तराधिकारिणं रामं युवराजं कर्तुं निश्चितवान् । अयोध्यायाः जनाः एतस्याः घोषणायाः महता सन्तोषेण स्वागतं कृतवन्तः । दशरथः एतस्य उत्सवस्य विषये चर्चां कर्तुं पत्न्याः कैकेय्याः समीपं गतवान् । परन्तु दुष्टदास्याः मन्थरायाः दुर्बोधनात् सा रुदती स्थिता आसीत् । किमर्थमिति चिन्तापरस्य दशरथस्य प्रश्नस्योत्तरं वदन्ती सा-बहुवर्षेभ्यः पूर्वं दशरथेन दत्तं वरद्वयं स्मारयित्वा यदि वरद्वयमिदानी ददाति तदा एव अहं सन्तुष्टा स्याम् ’ इति अवदत् ।

कैकेयीविलापः

तत्र प्रथमं वरं यत् 'रामः १४ वर्षाणि वनवासं कुर्यात्’ , द्वितीयं भरतः युवराजः स्यात् इति । दुःखितः दशरथः बहुविधप्रार्थनां कृतवान्। तथापि सा कठिनहृदया नाङ्ग्यकरोत् । आदर्शपुत्रः रामः सिंहासनं परित्यज्य वनं गन्तुं सिद्धोऽभवत् । सीतालक्ष्मणौ अपि रामेण सह गन्तुं सिद्धौ अभवताम् । दशरथः बहु दुखितः अभवत् । दुःखतप्ताः प्रजाः राममनुगम्य वनं प्रापय्य पुनरागताः । कालान्तरे पुत्रशोकात् दशरथः दिवङ्गतः ।

सीतापहरणम्[सम्पादयतु]

सीतापहारः जाठायुवधः च

जनान् नदीतीरे एव त्यक्त्वा सीतारामलक्ष्मणौ गङ्गापारं गत्वा वनं प्राप्तवन्तः । चित्रकूटमिति सुन्दरमेकं वनप्रदेशं प्राप्य तत्र उटजमेकं निर्माय वासं कुर्वन्तः आसन् । अतीव सुन्दरे तस्मिन् स्थले नानाविधानि पुष्पाणि फलानि चासन् । चित्रकूटः नाम भुवमवतीर्णः स्वर्गः आसीत् । रामः वने जटायुना सह मित्रत्वं सम्पादितवान् ।

अस्मिन्नेव सन्दर्भे अयोध्यामागतः भरतः रामस्य वनगमनवार्तां श्रुत्वा स्वस्य मात्रे कैकेय्यै क्रुद्धः अभवत् । यतः कैकेयी एव रामं वनं प्रेषितवती आसीत । पुनः रामम् अयोध्यामानेतुं भरतः वनं गतः । परन्तु रामः पितृवाक्यपरिपालनकारणात् प्रतिनिवर्तयितुं नाङ्ग्यकरोत् (निराकृतवान्)। तदा भरतः रामस्य पाटुकाद्वयं सम्पाद्य अयोध्यामागत्य सिंहासने संस्थाप्य रामस्य नाम्नि एव राज्यभारमकरोत् । चतुर्दशवर्षाणि वनवासं समाप्य अनुक्षणम् अयोध्यामागच्छेत् नोचेत् अग्निप्रवेशं कृत्वा प्राणत्यागं करोमि इति उक्त्वा अगच्छत् ।

रावणस्य दुराग्रहः

एकस्मिन दिने रावणस्य अनुजा शूर्पणखा नाम राक्षसी राममपश्यत् । रामे अनुरक्ता सा वेषपरिवर्तनं(छद्मवेशं) धृत्वा रामम् आक्रष्टुं प्रायतत। एकपत्नी-व्रतस्थः रामः कामपि प्रतिक्रियामेव नाददात् । सः लक्ष्मणस्य समीपे तां प्रेषितवान् । सः पुनः रामस्य समीपे एवं तां प्रेषितवान् । एवम् इतस्ततः प्रेषयताम् | रामस्य रहस्यानुज्ञया लक्ष्मणः तस्याः नासिकां कर्णौ च कर्तितवान् | क्रुद्धा सा रावणमासाद्य सर्वम् अप्यकथयत् । सीताम् अत्यन्तं रूपवतीं विज्ञाय रावणः रामं मारयित्वा सीतामानेतुं निर्णीतवान् । रावणस्य साहाय्यार्थं मारीचः आगतः । रामलक्ष्मणौ उटजात् बहुदूरं यथा आगच्छेताम् तथा उपायं कृतवान् मारिचः । गमनात् पूर्वं लक्ष्मणः सीमारेखां विलिख्य तस्याः उल्लङ्घनं न करणीयम् इति सीतां सूचितवान् । तदन्तः यावत्पर्यन्तं सीता भवति तावत्पर्यन्तं सा सुरक्षिता भवति इति विज्ञाप्य गतवान् । मुनिवेषेण आगतः रावणः भिक्षां याचितवान् । रेखामुल्लङ्घ्य आगन्तुं भीतः रावणः तामेव अग्रे आगन्तुं वदन् सीमोल्लङ्घनं कृतवतीं तां सीतां पुष्पकविमाने संस्थाप्य गतवान् । तद् दृष्ट्वा पक्षिराजः जटायुः सीतायाः रक्षणार्थमागतः । परन्तु रावणः तस्य पक्षौ कर्तयित्वा अग्रे गतवान् । प्रत्यागतौ रामलक्ष्मणौ उटजे सीतामदृष्ट्वा तामन्विष्यन्तौ जटायुना सीतापहरणं विज्ञाय दुःखितौ अभवताम् ।

वानरसाम्राज्यम्[सम्पादयतु]

सीतामन्विष्यन्तौ रामलक्षमणौ किष्किन्धां प्राप्य वानरराजेन सुग्रीवेण हनुमता च आमिलताम् । सुग्रीवस्य सेनाधिपः आसीत् हनुमान् । सीतापहरणसन्दर्भे पुष्पकविमानतः यानि आभरणानि सीतया क्षिप्तानि तानि वानरैः प्राप्तानि आसन् । अग्रजेन वालिना वञ्चितः सुग्रीवः रामस्य साहाय्यमपेक्षते स्म । वालिसुग्रीवयुद्धे रामस्य साहाय्येन सुग्रीवः वालिनं हन्ति ।

श्रीरामस्य सुग्रीवसख्यम्

रामसुग्रीवौ सीतामन्वेष्टुं वानरसैन्यं सर्वासु दिक्षु प्रेषयतः । यावत्पर्यन्तं जटायोः अग्रजस्य सम्पातिनामकस्य पक्षिराजस्य मेलनमभवत् तावत्पर्यन्तमपि तेषां प्रयत्नस्य फलमेव न लब्धमासीत् । सम्पातिः विकलाङ्गत्वात् उड्डयितुमसमर्थः आसीत् । सूर्यस्य अतिसमीपे उड्डयनकारणात् तस्य पक्षौ दग्धौ आस्ताम् । परन्तु बलवता जटायुना सः रक्षितः । जटायुः बलवानासीत् परन्तु सम्पातिः शतयोजनदूरं द्रष्टुं समर्थः आसीत् । सम्पातिः वानरेभ्यः साहाय्यं कर्तुमङ्गीकृतवान् यतः तस्य सोदरः रावणेनैव हतः आसीत् । तावति काले तेन ज्ञातम् आसीत् यत् सीता दक्षिणदिशि लङ्काद्वीपे अशोकवने अस्तीति ।

लङ्कायां हनूमान्[सम्पादयतु]

सुग्रीवः अङ्गदस्य नेतृत्वे दक्षिणदिशि वानरसैन्यं प्रेषितवान् । हनुमानपि अङ्गदस्य सेनापतिः भूत्वा तेन सह गतवान्। ते बहुदूरमतीत्य दक्षिणभागे महासमुद्रमेकमपश्यन् । सागरस्य पारं गन्तुमसमर्थाः सर्वे चिन्ताक्रान्ताः । परन्तु हनुमान् सैनिकान् तत्रैव स्थातुम् उक्त्वा स्वदेहं विशालं कृत्वा महाररूपं धृत्वा अपारं जलराशिम् उल्लङ्घ्य त्रिकूटपर्वते अवतीर्य लङ्कानगरमपश्यत् । महद्भिः रक्षकैः आवृतम् एतत् नगरं मार्जालवत् प्रविश्य अपश्यत् । परन्तु सीता तत्र नासीत् । तदनन्तरम् अशोकवने वृक्षस्याधः राक्षसीभिः परिवृता दुःखतप्ता सुन्दरी सीता तेन दृष्टा ।

हनूमता चूडामणिस्वीकारः

लघुकपिवेषेण वृक्षस्याधः अवतीर्य सीतायै अङ्गुलीयकमेकं दत्तवान् मारुतिः । स्वेन सहैव नेतुमिच्छन्तं मारुतिं "रामेणैव अहं रक्षितव्या" इत्युक्त्वा सीता स्वचूडामणिं साक्षीरूपेण रामाय दातुं हनुमते दत्तवती । ततः तत्र आगतः रावणः यदि सा मनसः परिवर्तनं कृत्वा तस्य वशे न भवति तर्हि मासद्वयाभ्यन्तरे तस्याः अङ्गानि कर्तयित्वा प्रातराशाय कल्पते इत्युक्तवान् । कुपितः मारुतिः आम्रवाटिकां नाशितवान् , अनुक्षणं तं बद्धवा ते राक्षसाः रावणसमीपं नीतवन्तः। " अहं रामस्य दूतः। सीतां रामाय समर्पय नोचेत् रामस्य क्रोधाय त्वं बलिः स्याः’ इति अवदत् । तस्मिन् क्रुद्धः रावणः तं हन्तुम् आज्ञापितवान् । तदा रावणस्य न्यायपरः सोदरः विभीषणः मध्ये प्रविश्य शास्त्रानुगुणं दूतः न हन्तव्यः अपि कृतस्य अपराधस्य शिक्षा तु भवितुमर्हति इति अवदत् । तदङ्गीकुर्वन् रावणः हनुमतः पुच्छे अग्निस्पर्शं कर्तुं सेवकानाज्ञापितवान् । यदा पुच्छे अग्निः दहति स्म तदा सः स्वशरीरं लघु कृत्वा गृहात् गृहं छदितः छदिम् उल्लङ्घ्य आलङ्काम् अग्निना दग्धवान् । तदनन्तरं रामसुग्रीवौ आसाद्य सीता रावणस्य बन्धने अस्तीति निवेद्य युद्धाय सज्जतां कृतवान् ।

लङ्कायां युद्धम्[सम्पादयतु]

समुद्रे सेतुं विना यः कोऽपि लङ्कां प्राप्तुं न शक्नोति। हनुमानेकः समुद्रमुल्लङ्घयितुं समर्थः अस्ति इति विचिन्त्य रामः समुद्रराजं प्रार्थितवान् । दिनत्रयमपि तत्रैव स्थित्वा प्रार्थितः चेदपि सः प्रसन्नः नाभवत् इतिकारणतः कुपितः रामः समुद्रस्योपरि शरप्रयोगं कतुमुद्युक्तः । तदा वरुणः प्रत्यक्षः भूत्वा तरङ्गान् दृढान् कृत्वा सेतुबन्धनं कर्तुम् आनुकूल्यं कल्पितवान् । सैन्यन सह रामः लङ्कां प्रविशति इति वार्तां श्रुत्वा भयस्य वातावरणं सृष्टम् (उत्पन्नम्) अभवत् । रावणस्यानुजः विभीषणः रामेण सह सन्धिं करोतु इति रावणम् उपदिष्टवान् परन्तु एतेन रावणः क्रुद्धः अभवत् । तत्कारणात् विभीषणः रामस्य पक्षे एव स्थितः । तदनन्तरं रामरावणयोर्युद्धे देवाः अपि भागं गृहीतवन्तः । इन्द्रः रामपक्षे असुराः रावणपक्षे स्थित्वा युद्धं कृतवन्तः । स्वल्पकालपर्यन्तं मिश्रफलेन युद्धं संवृत्तम् । तदनन्तरं रामरावणयोर्मध्ये एव बहुघोरं युद्धं संवृत्तम् । तदा देवताः अपि भीताः अभवन् । रामस्य एकैकः शरोऽपि रावणस्य शिरः एकैकशः अकर्तयत् तथापि तस्य शिरः पुनः प्रावर्धत । किङ्कर्तव्यमूढस्य रामस्य कृते विभीषणः रावणस्य नाभ्यां शरप्रयोगं करोतु इति उक्तवान् । तेन उपायेन रावणः हतः। आकाशात् पुष्पवृष्टिः अभवत् । कर्णायोः सङ्गीतम् अनुरणितं, रावणस्य पत्न्याः मण्डोदर्याः विलापं श्रुत्वा खिन्नः रामः शास्त्रोक्तरीत्या रावणस्य अन्त्यसंस्कारन् अकरोत्

श्रीरामसाम्राज्याभिषेकः

सन्तुष्टा सीता रामेण सह गन्तुमुद्युक्ता । परन्तु तस्याः आनन्दः तात्कालिकः आसीत् । बहुदिनेभ्यः रावणस्यैव गृहे स्थिता सीता परिशुद्धा नस्यादिति रामः शङ्कते स्म । प्रतिव्रता एवास्मि इति बहुवारं निवेदितः चेदपि शङ्का अनुवर्तिता । तेन खिन्ना सीता प्राणत्यागं कर्तुं निर्धार्य चितां निर्मातुम् उक्तवती । सर्वेषु पश्यत्सु सा अग्निं प्राविशत् ।अल्पसमये एव अग्निः तां बाहौ गृहीत्वा 'सीता परिशुद्धा’ इति बहिः स्थापितवान् । रामः आनन्देन सीतां स्वीकृतवान् ।

युद्धे रावणं पराजितवान् रामः सीतया सह पुनः आनन्देन अयोध्यां प्राप्तवान् । अयोध्यायाः प्रजाः भरतश्च अतीव सन्तुष्टाः अभवन् । रामः अयोध्यायाः राज्यभारं निरवहत् च ।

सीतापरित्यागः[सम्पादयतु]

श्रीरामे राज्यभारं कुर्वति सति अयोध्यायाः सर्वे प्रजाजनाः सुखिनः आसन् । अयोध्या सुखेन समृद्धा आसीत् । परन्तु स अपि आनन्दः बहुदिनानि नातिष्ठत् । रावणस्य बन्धने बहुदिनानि स्थितायाः सीतायाः पावित्र्यविषये केचन सन्देहेन भाषन्ते स्म । गूढपुरुषात् विषयं ज्ञात्वा रामः प्रजाः तोषयितुकामः सीतां परित्यक्तुं निश्चितवान् । अतः बहुवर्षाणि रामेण सह आनन्देन यापितम् अरण्यप्रदेशं प्रति पुनः एकाकिन्या गन्तव्यमापतितम् सीतया । दुःखतप्तां सीतां वाल्मीकिः स्वाश्रमं नीत्वा तत्राश्रयं दत्तवान् । तत्र सीता लवकुशनामकयोः यमलयोः कृते जन्म दत्तवती । लवकुशौ आश्रमे एव अवर्धताम् । वाल्मीकिमुनिना तयोः कृते सर्वाः विद्याः उपदिश्टाः । विंशतिवर्षीयौ सञ्जातौ लवकुशौ । तत्सन्दर्भे एव महत्येका चिन्ता रामं बाधते स्म । ब्राह्मणपुत्रं रावणं हतवतः रामस्य ब्रह्महत्यादोषस्तु स्यादेव तन्निवारणार्यं पापपरिहारार्थं सः अश्वमेधयागं कर्तुं निर्णितवान् । अस्य यागस्य कृते सर्वेभ्यः ऋषिमुनिभ्यः, सर्वाभ्यः प्रजाश्यश्च आह्वानं दत्तम् । वाल्मीकिमुनिरपि लवकुशाभ्यां साकं अयोध्यामागतः । तत्र समस्तजनानां रामस्य च पुरतः वाल्मीकिरचितं रामायणं लवकुशाभ्यां गीतम् । स्वस्यैव कथां शृण्वन् रामः विस्मितः अभवत् । लवकुशौ रामस्यैव पुत्रौ इति वाल्मीकिमहर्षिणा उक्तम् । सीता वाल्मीकिआश्रमे एवास्ति इति विज्ञाय तामानेतुं रामः जनान् प्रेषितवान् । सीता आश्रमादागच्छति । पुनः सा पतिव्रता कलङ्करहिता इति ज्ञापयितुं पुनः परीक्षा स्यादिति वदति । रामस्य ईद्दशवचनं श्रुत्वा सीता दुःखिता अभवत् । सा मातरं भूमिं प्रति -यद्यहं क्लङ्करहिता स्याम् तर्हि मां तव समीपे नय इति प्रार्थितवती । सर्वे पश्यन्तः स्थितवन्तः । भूमिः महत्शब्दं कुर्वती द्विधा भिन्ना, तत्र सीतायाः कृते सिंहासनमेकनुपरि आगतम्। सीतायाः माता भूमाता तामालिङ्ग्य अन्तः अनयत् । भिन्ना भूमिः एकीभूता । दृश्यमेतत् दृष्ट्वा रामः 'सीतायाः विषये शङ्कितवान्’ इति दुःखितः अभवत् । तदा मुनयः अवदन् " रावणस्य संहारार्थमेव सीतावतारः अभवत् । स्वकार्यं समाप्य सा प्रतिनिवृत्ता । त्वं खिन्नः मा भूः " इति रामं समाश्वसन्ति ।

रामायणे नीतिपाठः[सम्पादयतु]

वाल्मीकिः रामायणे रामेण द्वारा मानवस्य जीवनस्य रीतिनीतीः च उपदिष्टवान् अस्ति । जीवनं क्षणभङ्गुरमस्ति, जीवने भोगाः लालसाः इत्यादयः अर्थहीनाः भवन्ति । मानवः शास्त्रसम्मतकार्याणि कुर्यात् , तेन विमखः न स्यात्, वेदेषु यदुक्तं स एव धर्मः। धर्मं धर्मार्थमेव पालयेत् न तु लाभस्य कृते इति वाल्मीकेः अभिप्रायः। धर्मरक्षणमेव इहपरे च लोके मानवस्य कल्याणाकरं भवति । वचनदानात् पूर्वमेव तस्य परिणामः चिन्तनीयः वचनदानस्यानन्तरं कष्टेन वा वचनपालनं करणीयमेव स्यादिति रामायणमुपदिशति । वाल्मीकिमुनेः मूलनीतिः सत्यमार्गमनुसर्तुं अतिमानवत्वस्य आवश्यकता नास्ति इति तु सिद्धम् ।

रामायणेतिहासः[सम्पादयतु]

साम्प्रदायिकविश्वासानुसारं रामायणं हिन्दुकालगणनायां चतुर्युगेषु अन्यतमे त्रेतायुगे रचितम् । काव्यस्य कर्ता वाल्मीकिः । तस्यापि रामायणे सक्रियं पात्रं वर्तते । पाणिनेः कालादपि पूर्वं विरचितमेतत् काव्यं संस्कृतभाषायामस्ति । रामायणं महाभारतं च महाकाव्ये संस्कृतेन एव रचिते स्तः । मूलरामायणं प्रायः क्रि.पू. पञ्चमे शतके रचितं स्यात् । अनेकशतकानि यावत् कर्णात् कर्णमागत्य मध्ये अनेके भेदाः सञ्जाताः । केवलं भाषाविश्लेषणेन रामायणरचनकालं निर्धारयितुं (संशोधयितुं) न श्क्यते । दीर्घप्रक्रिया इत्युक्ते प्रायः क्रि.पू . पञ्चमशतकात् क्रि.श चतुर्थशतकपर्यन्तमपि रामायणे बहवः भेदाः अभवन् । चतुर्थे शतके प्रक्रिया सम्पूर्णा इति तु ज्ञायते ।

रामायणकथाकालः इतोऽपि पूर्वतनकालः स्यात् । रामायणे कथापात्राणि एवं भवन्ति -रामः सीता दशरथः जनकः वसिष्ठः विश्वामित्रः इत्यादयः । एतानि सर्वाणि नामानि वेदबाह्मणेषु रामायणकालादपि पूर्वं दृश्यन्ते । परन्तु रामायणम् इव कथा वेदब्राह्मणेषु कुत्रापि न लभ्यते । रामायणे मुख्यपात्राणि वहन्तः ब्रह्मा विष्णुः इत्यादयः वेदोक्तदेवताः न सन्ति । रामायणमहाभारतपुराणरचनानन्तरमेव एते प्रसिद्धाः अभवन् । सामान्यतः रामायणस्य द्वितीयकाण्डात् षष्ठकाण्डपर्यन्तम् अतिप्राचीनभागः इति परिगण्यते । बालकाण्डः उत्तरकाण्डश्च अनन्तरं रचितः भागः इति परिगण्येते । एतयोः द्वयोः काण्डयोः रचयिता गङ्गजलानयनप्रदेशे प्राचीनभारतस्य षोडशजनपदकाले मगधकोसलदेशानां निकटपरिचितः स्यादिति ज्ञायते । यतः रामायणे वर्णितं राजकीयं भौगोलिकवर्णनं 'षोडशजनपद' कालीनां सामाजिक- स्थितिगतिं ज्ञापयति । परन्तु रामायणे अरण्यकाण्डे राक्षसानां विचित्रप्राणिनां च वर्णनमस्ति । मध्यभारत-दक्षिणभारतयोः भौगोलिकवर्णनानि वास्तवांशात् बहुदूरे वर्तन्ते । श्रीलङ्काद्वीपस्य, तथैव अनेकेषां स्थलानां विषये विवरणम् अस्पष्टमेवास्ति । एषामंशानामाधारेण इतिहासज्ञः हेच्. डि. सङ्कालियामहोदयः रामायणकालः प्रायः क्रि.पू ४ शतकं स्यादिति अभिप्रैति । परन्तु अन्यः चरित्रकारः ऐ.एल्. बाषम्महोदयः रामः क्रि.पू.सप्तमे अथवा अष्टमशतके जीवन् अप्रसिद्धः राजा स्यादिति प्रतिपादयति । पुनः अन्ये केचन रामायणकथाकालः क्रि.पू. ६००० वर्षाणि प्राचीनः स्यात् इति प्रतिपादयन्ति ।

रामायणस्य प्रतिपाद्यम्[सम्पादयतु]

चतुर्विंशतिसाहस्त्रीसंहिता इति रामायणस्य प्रसिध्दं नाम । अतः ज्ञायते अत्र २४००० श्लोकाः सन्ति इति । बालकाण्ड-अयोध्याकाण्ड आरण्यकाण्ड –किष्किन्धाकाण्ड-सुन्दरकाण्ड –युध्दकाण्ड-उत्तरकाण्डानि इति सप्तकाण्डानि सन्ति रामायणे । अनुष्टुप् श्लोकैः रामस्य चरितमेव मुख्यतया अत्र प्रतिपादितम् ॥ बालकाण्डे रामस्य यौवनकथा, विश्वामित्रस्य यागरक्षा, सीतापरिणयः इत्यादि वर्णितम् । अयोध्याकाण्डे रामस्य पट्टाभिषेकः, कैकेयीकृतविध्नः, दशरथमरणम् इत्यादि । आरण्यकाण्डे रामस्य दण्डकारण्यप्रवेशः, शूर्पणखायाः अङ्गच्छेदः, सीतापहरणं. रामस्य दुःखं च । किष्किन्धाकाण्डे रामसुग्रीवसंवादः, बालिवधं, सीटान्वेषणं च । सुन्दरकाण्डे लङ्कावर्णनं, हनुमतः सीतायाः दर्शनम् । युध्दकाण्डे रामरावणयुध्दं, राक्षसानां हननं लङ्काजयः । उत्तरकाण्डे सीतापवादश्रुतिः, सीतापरित्यागः, वाल्मीकेः आश्रमे लवाकुशयोः जननं परिसमाप्तिः च् रामायण- प्रतिपाद्यविषयाः ॥

रामायणस्य वैशिष्ट्यम्[सम्पादयतु]

रामायणम् आदिकाव्यमस्ति इत्येतदेव तस्य प्रथमं वैशिष्ट्यम् । अपि च सकलानां प्रमुख साहित्यग्रन्थानामपि आश्रयः च रामायणमेव । एतदुपजीव्यैव सकलभाषास्वपि अनन्तरसाहित्यानि आविर्भूतानि इति सारः । अलङ्कारादिप्रयोगेण तत्त्वशास्त्रादीनां प्रतिपादनेन भाषासारल्येन ऐतिहासिकविषयत्वेन च रामायणस्य स्थानम् अद्वितीयं वर्तते । सर्वभाषास्वपि रामायणस्य प्रभावः अद्भुतावहः अस्ति । एतावत्संख्यात्मकप्रादेशिकभाषाविवर्तनानि अन्यस्य कस्यापि ग्रन्थस्य भवितुं नार्हन्ति । वाल्मीकिरामायणम् अध्यात्मरामायणं, महारामायणं, संवृतरामायणम् अगस्त्यरामायणं, लोमहरामायणं, मञ्जुळरामायण्ं सौपद्यरामायणं, सौर्यरामायणं, चान्द्ररामायणम् इत्यादि शतशः भेदाः रामायणस्य इति अस्य महत्त्वं प्रकटयति । वनवासगमनावसरे सुमित्रया लक्ष्मणं प्रति कथ्यमानः

रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ।’
अयोध्यामटवीं विद्धि गच्छ तात् यथा सुखम् ॥ इति श्लोकः रामायणस्य महत्वपूर्णतां प्रदर्शयति । इदं सत्यमेव उक्तम् यत् –
वाल्मीकिगिरिसम्भूता रामाम्भोनिधिसंङ्गता ।
श्रीमद्रामायणी गङ्गा पुनाति भुवनत्रयम् ॥ इति शम् ॥

रामायणं गायत्रीमन्त्रश्च[सम्पादयतु]

रामायणे २४,००० श्लोकाः विद्यन्ते । प्रसिद्धे गायत्रीमन्त्रे अपि विद्यमानानाम् अक्षराणां सङ्ख्या २४ । ब्रह्मगायन्त्रीमन्त्रम् इति प्रसिद्धः अयं गायत्रीमन्त्रः 'तत्सवितुर्वरेण्यम् । भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्' इति विद्यते । रामायणे प्रथमसहस्रश्लोकस्य आदिमः श्लोकः वर्णतः आरभ्यते । एवम् अग्रिमसहस्रश्लोकस्य प्रथमश्लोकः द्वितीयेन वर्णॆन आरभ्यते । इदं वैशिष्ट्यम् अध्ययनयोग्यं वर्तते ।

विभिन्नरूपान्तराणि[सम्पादयतु]

जानपदकथा इव रामायणकथायामपि विविधरुपान्तराणि सन्ति । प्रमुखतया उत्तरभारते प्रचलिता रामायणकथा दक्षिणभारत-दक्षिणपूर्वएषियाप्रदेशेषु प्रचलितकथायाः अपेक्षया अंशतः भिन्ना अस्ति । रामायणकथासम्प्रदायः थैलेण्ड्, कम्बोजदेशः(Cambodia), मलेशिया, लाओस, चम्पादेशः(Vietnam), इण्डोनेशिया देशेषु प्रचलितः अस्ति । मलेषियादेशे रामायणस्य रूपान्तरे रामस्य अपेक्षया लक्ष्मणस्य एव प्रमुखस्थानं विद्यते । अत्र रामः दुर्बलः राजा इति परिगण्यते ।

भारतीयरूपान्तराणि[सम्पादयतु]

विविधकालघट्टेषु अनेके कवयः, काव्यज्ञाः च रामायणमलिखन् । तत्रापि अनेकैः रामायणरुपान्तराणि विभिन्नरीत्या रचितानि सन्ति । १४-१५ शतकेषु कुमारवाल्मीकिः कन्नडभाषया तोरवे रामायणमलिखत् । राष्ट्रकविना कुवेम्पुमहोदयेन लिखितस्य 'श्रीरामायण दर्शनं", नामकृतेः कृते ज्ञानपीठप्रशस्तिः उपलब्धास्ति । विद्वान् रङ्गनाथशर्मामहोदयेन 'कन्नडवाल्मीकि रामायणम् रचितमस्ति । १२ शतके तमिळुभाषया कम्बः नाम कविः ‘कम्बरामायणम्’ अथवा 'रामावतारम्’ अरचयत् । हिन्दीभाषया १५७६ तमे वर्षे तुलसीदासेन श्रीरामचरितमानसम्’ रचितम् । गुजरातीभाषया प्रेमानन्दः नामकेन कविना १७ शतके, बङ्गालीकविना कृत्तिवाससा १४ शतके, ओरियाकविना बलरामदासेन १६ शतके, मराठीकविना श्रीधरेण १८ शतके, तेलुगुकविना रङ्गनाथेन १५ शतके, च रामायणावृत्तयः रचिताः । रामायणस्य उपरुपान्तरेषु एतदेकम् अन्तर्भवति यत् रावणस्य दुष्टसोदरौ अहिरावणः महिरावणः च रामलक्ष्मणौ कालीमातुः कृते बलीहरणार्थं नयतः । अस्यां कथायां हनुमतः पात्रं महत्वपूर्णं वर्तते । सः एव रामलक्ष्मणौ रक्षति । केरलेषु स्थितानां 'मापिळ्ळे’ जनानां मध्ये प्रचलितं रामायणस्य रुपान्तरं वर्तते । "मापिळ्ळे रामायणम्’ इत्येव प्रसिद्धमेतत् रुपान्तरं जानपदशैल्यां वर्तते । मुसल्मानजनानां सम्प्रदायानुसारं लिखिते अस्मिन रुपान्तरे रामायणकथानायकः मुस्लिं सुल्तानः । रामस्यापि अत्र नामान्तरं 'लामस्’ इति । परन्तु अन्यानि सर्वाण्यपि कथापात्राणि यथावत् सन्ति । मुस्लिमजनानां सामाजिकनियमानुसारं कानिचन परिवर्तनानि कृतानि सन्ति ।

दक्षिणएषियामध्ये रामायणरुपान्तरम्[सम्पादयतु]

एषियाखण्डस्य अनेकदेशानां संस्कृतिः रामायणादेव स्वीकृता अस्ति । केषाञ्चन देशानां महाकाव्यानि रामायणकथासम्बद्धानि एव सन्ति । चीनादेशस्य 'पश्चिमप्रवास’नामकस्य महाकाव्यस्य केचन भागाः रामायणाधृताः सन्ति। प्रमुखतया अस्मिन् काव्ये 'सुनवुकाङ्ग' नामकं पात्रं हनुमतः पात्राद् एव उद्धृतमिति विश्वसन्ति । इण्डोनेषियादेशस्य जावाप्रदेशे प्रायः नवमे शतके रामायणरुपान्तरम् एकं ‘काकातिन् रामायणम्’ इति अभवत् । एतत् संस्कृतरामायणाद्धृतमेव, अत्र अधिकतया परिवर्तनं न कृतमस्ति । लावोस् देशस्य "फालक् फा लाम्" नामकं काव्यं रामायणस्यैव रुपान्तरमास्ति । अत्र लक् नाम लक्ष्मणः, लाम् नाम रामः इति भवति । लाओ भाषायाः रुपान्तरमस्त्येतत् । अस्मिन् काव्ये रामस्य जीवनं बुद्धस्य अवतारेषु अन्यतममिति चित्रितमस्ति । मलेषिया देशस्य ‘हिकायत् सेरि रामकाव्ये दशरथः प्रवादिमहम्मदस्य पौत्रः इति चित्रितमस्ति तथा ब्रह्मणः वरं न प्राप्नोति अपि तु अल्लाहतः वरं प्राप्नोति । थैल्याण्डदेशस्य ‘रामकियन्’ महाकाव्यं रामायणाद्धृतमेवास्ति । तत्र सीता मन्दोदरीरावणयोः पुत्री इति चित्रिता । ज्योतिषिकः विभीषणः सीतायाः जन्मकुण्डलीं दृष्ट्वा 'अपशकुनं स्याद्ग्रे’ इति वदति । तत्कारणात् रावणः तां जले क्षिपति । अनन्तरं सीता जनकाय लभ्यते । मुख्यकथा रामायणाद्धृता चेदपि सामाजिकनियमाः समाजाद्धृताः सन्ति । अत्र हनुमतः प्रमुखं स्थानं विद्यते । अस्य काव्यस्य वर्णचित्राणि ब्याङ्काक्(Bankok) , नगरस्थे वात् फा कवेय् ’ देवालये लभ्यते । इतरेषु दक्षिणएषिया रुपान्तरेषु ‘बालि देशस्य रामकवच फिलिपैन्स्(Philipenes) देशस्य ‘मरडिय लळण्’ काम्बोडियादेशस्य ‘रीमकर’ मायन्मारदेशस्ययामजातदव’ एतानि प्रमुखानि भवन्ति ।

वर्तमानकाले रामायणकाव्यम्[सम्पादयतु]

कन्नडभाषायां राष्ट्रकविणा कुवेम्पुमहाभागेन 'रामायणदर्शनं’ नाम काव्यं रचितम् । तेलुगुकविना विश्वनाथसत्यनारायणमहाभागेन 'रामायण कल्पवृक्षमु’ नाम काव्यं रचितम् । द्वयोः अपि ज्ञानपीठप्रशस्तिः लब्धास्ति । आंग्लभाषया अशोकब्याङ्करनामकेन रामायणम् आधारीकृत्य षट्सरणीषु कादम्बरीः रचिताः सन्ति । काञ्चिपुरस्य गेटि रेल्वेथियेटर कम्पनि द्रविडजनानां स्वाभिमानं पुनः प्रतिष्ठापयितुम् (जागरणार्थं) अस्य काव्यस्य परिष्कृतदृष्टिकोणं प्रस्तुतीकरोति । अत्र रावणः विद्वान्, राजनीतिज्ञः च भवति । सीता रावणे अनुरक्ता भवति । रामः नीतिनियमैः विहीनः नयविनयविहीनः सन् लम्पटः राजकुमारः इति चित्रितः वर्तते । सः मद्यपानतः मारणहोमार्थमादिशति इति विचित्रवैरुद्ध्यविवरणानि सन्ति । ईदृशविरुद्धावृत्तयः साम्प्रदायिकप्रस्तुतिभ्यः बहुदूरे वर्तन्ते । ईदृशानि पात्रचित्रणानि द्रविडसंस्कृतेः स्वातन्त्र्यस्य च पुनः स्थापनाय द्रविडसत्याग्रहेषु अधिकतया क्रियमाणाः गुप्तप्रयत्नाः इति ज्ञायन्ते ।

रामायणस्य चिह्नानि[सम्पादयतु]

हम्पी(पम्पाक्षेत्रस्य) समीपास्थितविजयनगरसमाज्यस्य अवशेषे सुग्रीवगुहा वर्तते । अस्यां गुहायां वर्णरञ्जितानि चिह्नानि भवन्ति । एषा गुहा सुन्दरकाण्डे वर्णिता किष्किन्धा इव अस्ति । रामः अत्रैव हनुमता अमिलत् इति वदन्ति । अत्रैव सुप्रसिद्धः हजाररामदेवालयः (सहस्ररामदेवालयः) वर्तते ।

आधाराः[सम्पादयतु]

अग्रिमाध्ययनाय[सम्पादयतु]

मूलग्रन्थाः
अनुवादाः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

अनुवादाः[सम्पादयतु]

[१] Archived २०१२-१०-०१ at the Wayback Machine Hindi and English translation with grammatical information.

शोधप्रबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रामायणम्&oldid=483024" इत्यस्माद् प्रतिप्राप्तम्