रावणः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
लङ्केशः रावणः

रावणः रामायणस्य काचित् विशेषभूमिका । लङ्काधिपः एषः प्राचीनभारतेतिहासगतः विशिष्टपुरुषः । प्राचीनकालस्य एव वर्णसङ्करः । अस्य पिता ब्राह्मणः विश्वावसुः माता रक्षसकुलसम्भूता कैकसा । रावणः ब्रह्माणमधिकृत्य दशसहस्रवर्षाणि यावत् तपस्याम् आचरति। विशिष्टं वरमेकं प्राप्नोति च यत् देवताभ्यः अथवा अन्यशक्तिभ्यः मरणं न प्राप्नुयामिति । रावणस्य दशशिरांसि, विंशतिहस्ताः, ब्रह्मणः वरकारणात् चिरंजीवित्वं, एवं सर्वस्मात् कारणात् रावणः लोककण्टकः अभवत् । एषः स्वस्य दशशिरोभिः नाम सामान्यानाम् अपेक्षया दशगुणिताधिकसामर्थ्येन चिन्तयति स्म ।

रावणोदयः[सम्पादयतु]

पद्मपुराणं, भागवतपुराणं, कूर्मपुराणम्, रामायणं, महाभारतम्, आनन्दरामायणं, दशावतारचरितम् इत्यदिषु ग्रन्थेषु रावणस्य उल्लेखः कृतः । किन्तु अस्य जन्मनः कथाविषये वैविध्यम् अस्ति ।

  • पद्मपुराणश्रीमद्भागवतानुसारं हिरण्याक्षः हिरण्यकश्यपुः च अग्रिमजन्मनि रावणकुम्भकर्णौ अभवताम् ।
  • वाल्मीकिरामायणानुगुणं रावणः पुलस्त्यमुनेः पौत्रः। विश्वावसोः पुत्रः । विश्वावसोः वरवर्णिनी, कैकसा चेति द्वे भार्ये आस्ताम् । वरवर्णिन्याः कुबेरः कैकसायाः रावणः च पुत्रौ अभवताम् ।
  • तुलसीदासस्य रामचरितमानसानुगुणं रावणस्य जन्म शापस्य कारणेन अभवत् । नारदस्य प्रतापभानोः च कथायाः कारणेन रावणस्य जन्म अभवत् इति ।

रावणजननकथा[सम्पादयतु]

पूर्वं कदाचित् ब्रह्मा अनेकान् जलजन्तून् निर्मीय तान् समुद्रजलस्य रक्षणं कर्तुं नियुक्तवान् । तत्र केचन प्राणिनः अवदन् ’वयं रक्षणं कुर्मः’ इति । केचन अवदन् ’वयं पूजां कुर्मः’ इति । तदा ब्रह्मा अवदत् ये रक्षणं कुर्वन्ति ते राक्षसाः ये पूजां कुर्वन्ति ते यक्षाः इति कथ्यन्ते । राक्षसेषु हेति: प्रहेति: इति दौ सहौदरौ आस्ताम् । प्रहेतिः तपः कर्तुम् अगच्छत् । हेतिः भया इति कन्यां परिणीतवन् । दाम्पत्यफलेन विद्युत्कोशः इति पुत्रं प्राप्तवान् । विद्युत्कोशस्य सुकेशः इति पराक्रमी पुत्रः अभवत् । सुकेशः माल्यवान्, सुमाली, माली इति पुत्रत्रयम् अवाप्नोत् । त्रयः अपि ब्रह्माणम् उद्दिश्य तपः कृत्वा लोकस्य अनुपमं प्रेम लभेम अपि च अस्मान् न कोऽपि परास्तान् न कुर्यात् इति वरम् अवाप्नुवन् । वरबलान्विताः एते सुरान् असुरान् च पीडयितुम् समारभन्त । ते विश्वकर्माणम् एकं सुन्दरं नगरं निर्मातुम् अवदन् । तदा विश्वकर्मा लङ्कानगरस्य सङ्केतम् उक्त्वा तत्र प्रेषितवान् । तत्र ते आनन्देन न्यवसन् । कालक्रमेण माल्यवतः वज्रमुष्टिः, विरूपाक्षः, दुर्मुखः, सुप्तघ्नः, यज्ञकोपः, मत्तः, उन्मत्तः, इत्यादयः पुत्राः अभवन् । सुमालिः प्रहस्तः, अकम्पनः, विकटः, कालिकामुखः, धूम्राक्षः, दण्डः, सुपार्श्वः, संह्नादिः, प्रधसः, भरकर्णः इति पुत्रान् अलभत । मालिनः अनलः, अनिलः, हरः, सम्पातिः, इति पुत्रा अभवन् । एते सर्वेपि पुत्राः बलवन्तः दुराचारिणः एव अभवन् । प्रतिदिनम् ऋषिमुनीन् पीडयन्ति स्म । कष्टम् असहमानाः ऋषिमुनयः महाविष्णोः निकटम् अगच्छन् । साधूनां रक्षणं करिष्यामि इति सः आश्वासनं दत्तवान् । इमां वार्तां श्रुत्वा ते सर्वेऽपि राक्षसाः मिलित्वा मालिनं सेनापतिं कृत्वा इन्द्रलोकस्य उपरि आक्रमणम् अकुर्वन् । विषयं ज्ञात्वा विष्णुः स्वास्त्रशस्त्राणि अवलम्ब्य राक्षसानां संहारं कर्तुमारब्धवान् । सेनापतिना मालिना सह नैके राक्षसाः हताः । अवशिष्टाः लङ्कापरिमुखं प्रधाविताः । प्रधावतः राक्षसान् यदा नारायणः संहरन् आसीत् दता क्रुद्धः माल्यवान् युद्धभूमिमागतः । अन्ते भगवता नारायणेन हतः अपि । शेषाः राक्षसाः लङ्कां त्यक्त्वा सुमालिनः नेतृत्वे पातालम् अगच्छन् । लङ्कायां कुबेरस्य राज्यं स्थापितम् अभवत् । सुमाली बहुभागं राक्षसकुलं विनष्टं विचिन्त्य पुत्रीं कैकसीम् अवदत् । ’पुत्रि राक्षसानां कल्याणार्थं भवती विश्रवानामकस्य (पौलस्त्यः) पराक्रमिनः महर्षेः सेवां करोतु । प्रसन्ने तस्मिन् पुत्रभिक्षां याचतु, सः एव पुत्रः अस्मत्कुलं रक्षयिष्यति इति । पितुः आज्ञानुसारं कैकसी पुलस्त्यस्य निकटम् अगच्छत् । तस्मिन् समये झञ्झवातः चलति स्म । आकाशे मेघाः गर्जन्ति स्म । तदा कैकस्याः इच्छां ज्ञात्वा विश्रवाः (पुलस्त्यः) अवदत् ’ भद्रे, भवती अवेलायाम् आगतवती । अहं भवत्याः इच्छां पूरयिष्यामि किन्तु पश्चात् भवती दुष्टसन्तानं प्राप्स्यति ’ इति। तस्य वचनं श्रुत्वा कैकसी तस्य चरणयोः निपत्य अवदत् ’भगवन्, भवान् ब्रह्मवादी महात्मा अस्ति । भवतः सन्तानानि दुष्टानि भवितुं न शक्नुवन्ति । अतः भवान् मयि कृपां करोतु । कैकस्याः प्रार्थनाम् अङ्गीकृत्य विश्रवाः अवदत् भवत्याः कनिष्टः पुत्रः सदाचारी धर्मात्मा च भविष्यति इति । कालक्रमेण कैकसी दशमुखं पुत्रम् असूत । अस्य नाम रावणः इति । पश्चात् क्रमेण कुम्भकर्णः, शूर्पणखा, विभीषणः इत्यादीनां जन्म अभवत् । दशकण्ठः कुम्भकर्णः च अतीव दुष्टौ अभवताम् । किन्तु विभीषणः धर्मात्वा दयावान् च अभवत् । रावणः स्वसोदरात् वैश्रवणात् अपि पराक्रमशाली भवितुं ब्रह्माणम् उद्दिश्य तपः समाचरत् । प्रसन्नं ब्रह्माणं रावणः वरं प्रार्थितवान् यत् गरुडानागयक्षदैत्यदानवराक्षदेवैः मे मरणं नास्ति इति । मनुष्यः तु दुर्बलः भवति अतः मनुष्येण मरणं न भवतु इति वरं न पृष्टवान् । ब्रह्मा तथास्तु इति उक्त्वा तस्य इच्छाम् अपूरयत् । विभीषणः ’धर्मे अविचलितमतेः’ कुम्भकर्णः ’वर्षे अर्धकालं निद्रायाः’ च वरं प्राप्तवन्तौ ।

रावणस्य विवाहः[सम्पादयतु]

कालक्रमेण रावणः लङ्कायाः राजनं कुबेरं कूटेन लङ्कां त्यक्तुं विवशम् अकरोत् । पश्चात् रावणः राजा भूत्वा सहोदरैः सह लङ्कायां न्यवसत् । लङ्काधिकारप्राप्तेः पश्चात् शूर्पणखायाः विवाहं दानवराजेन विद्युजिह्वा इत्यनेन सह कृतवान् । रावणः स्वयं दितिपुत्रस्य मयस्य कन्यां मन्दोदरीं परिणीतवान् । विरोचनस्य पुत्रस्य बलेः कन्यां वज्रज्वालां कुम्भकर्णः परिणीतवान् । गन्धर्वराजस्य शैलूषस्य कन्यया सरमया सह विभीषणस्य विवाहः अभवत् । कालक्रमेण मन्दोदरी मेघनादः इति पुत्रम् असूत यः कालक्रमेण इन्द्रं विजित्य इन्द्रजित् इति नाम प्राप्तवान् ।

शङ्करेण दशाननगर्वभङ्गः[सम्पादयतु]

अधिकारमदेन रावणः देवताभ्यः ऋषिभ्यः यक्षेभ्यः गन्धर्वेभ्यः च विविधाः पीडाः दातुम् आरब्धवान् । कदाचित् कुबेरम् आक्रम्य युद्धे पराजितम् अकरोत् । स्वस्य विजयस्य प्रतीकरूपेण कुबेरस्य मनोवेगगमनं पुष्पकविमानं बलात्कारेण स्वीकृतवान् । पुष्पकविमानम् उपविष्टवताम् इच्छानुगुणं लघु अथवा बृहत् भवति स्म । एतादृशे विमाने उपविश्य कदाचित् रावणः शरवणनामकस्य प्रसिद्धवनस्य उपरि सञ्चरन् आसीत् । तदा भगवतः शिवस्य वाहनं नन्दीश्वरः रावणम् अवरुध्य अवदत् ’ हे दशग्रीव, अस्मिन् वने विद्यमाने पर्वते भगवान् शङ्करः क्रीडति । अत्र सुरासुरयक्षादीनाम् आगमनं निषिद्धम् । नन्दीश्वरस्य वचांसि श्रुत्वा क्रुद्धः रावणः विमानात् अवतीर्य शङ्करस्य निकटम् अगच्छत् । तं निवारयितुं नन्दीश्वरः हस्ते त्रिशूलं गृहीत्वा अपरः शिवः इव पुरतः अतिष्ठत् । तस्य मुखं वानरः इव अस्ति इति दृष्ट्वा रावणः अट्टहासम् अकरोत् । अनेन परिहासेन कुपितः नन्दी 'मम वानरमुखस्य अवहेलनं कृतवतः भवतः नाशम् अपि मादृशः पराक्रमी महाकपिः एव करिष्यति इति ' रावणम् अशपत् । नन्देः वचनम् अवगणयन् रावणः अवदत् । यः पर्वतः मम विमानप्रवासे विघ्नं करोति तं छेदयामि । इति वदन् रावणः पर्वतस्य मूले हस्तं स्थापयित्वा उन्नेतुं प्रयत्नम् अकरोत् । यदा पर्वतः कम्पयितुम् अरब्धः तदा उपरि उपविष्टवान् परमेश्वरः स्वपादाङ्गुष्टेन पर्वतं निपीडितवान् । अनेन रावणस्य करः अपलपितम् । रावणः उच्चैराक्रोशत् । कथञ्चिदपि सः हस्तं पर्वतछेदात् परित्रातुं न शक्तवान् । तदा क्रन्दन् एव रावणः शिवस्य स्तुतिं कुर्वन् क्षमाप्रार्थनां कृतवान् । शङ्करः तस्मै क्षमां दत्वा तस्य प्रार्थनानुगुणं चन्द्रहासः इति खड्गं वररूपेण अनुगृहीतवान् ।

रावणस्य दुराचारः[सम्पादयतु]

कदाचित् रावणः हिमालयस्य प्रदेशे भ्रमन् अमिततेजस्विनः ब्रह्मर्षिणः कुशध्वजस्य पुत्रीं तपः कुवतीं वेदवतीम् अपश्यत् । तां दृष्ट्वा मुग्धः भूत्वा तस्याः समीपं गत्वा तस्याः परिचयं प्राप्य तस्याः अविवाहितजीवनस्य कारणम् अपृच्छत् । तदा वेदवती अवदत् " मम पिता भगवता विष्णुना सह मम विवाहं कर्तुम् ऐच्छत् । माम् इच्छता दैत्यराजेन शम्भुना निद्रितः मे पिता मारितः । पितुः मरणम् असहमाना माता चिताम् आरूढवती । तदारभ्य अहं पितुरिच्छां सम्पूरयितुम् भगवतः महाविष्णोः तपस्यां कुर्वती अस्मि इति । तमेव अहं मम पतिं मन्ये" इति उक्तवती । किन्तु दुराशः रावणः आदौ सरसवचनैः तां वशिकर्तुं बहुप्रयत्नं कृतवान् । यदा सा नाङ्गीकृतवती तदा बलेन नेतुं तां केशेषु गृहीतवान् । वेदवती झटिति गृहीतकेशान् कर्तितवती " रे दुष्ट, त्वं माम् अवमानितवती, अधुना अहं मम देहत्यागं करोमि । किन्तु तव विनाशार्थं पुनर्जन्म प्राप्स्यामि । अग्रिमे जन्मनि अयोनिजाकन्यारूपेण कस्यचित् धर्मात्मनः पुत्री भविष्यामि । इति वदन्ती वेदवती अग्निप्रवेशं कृतवती । कतिपयदिनेषु गच्छस्तु सा सुन्दरकान्तिमत्कमलपुष्परूपेण सरसि अजायत् । तेन पुष्पेण आकृष्टः रावणः तत् स्वराजभवनम् आनीतवान् । तदा ज्योतिष्कः "एतत् कमलपुष्पं भवतः कुलविनाशस्य कारणं भवति" इति उक्तवान् । अतः रावणं तत् कमलपुष्पं समुद्रे प्रक्षिप्य आगतवान् । सा कमलकन्या भूमिङ्गता । कालक्रमेण मिथिलायाः जनकमहाराजस्य यज्ञमण्डपस्य मध्यवर्तिभूभागे आगतवती । राज्ञः हलचलनशास्त्रविधिना पुनः कन्यारूपेण प्राप्ता अभवत् । एवं सा एव वेदवती सीतारूपेण जनकस्य पुत्री अभवत् ।

अनरण्यस्य शापः[सम्पादयतु]

रावणः अनेकान् राज्ञः पराजितान् कृत्वा इक्ष्वाकुवंशस्य नृपस्य अनरण्यस्य निकटम् आगतवान् यः अयोध्यायां शास्ति स्म । द्वन्द्वयुद्धार्थम् आगच्छतु अथवा पराजयं स्वीकरोतु इति पन्थाह्वानं करोति । उभयोर्मध्ये घोरं युद्धं प्रावर्तत । किन्तु ब्रह्मणः वरप्रभावात् रावणः पाराजितः नाभवत् । यदा अनरण्यस्य शरीरं तीव्रतया क्षतविक्षतम् अभवत् तदा रावणः इक्ष्वाकुवंशस्य अपहास्यं कर्तुम् उद्यतः । अनेन कुपितः अनरण्यः ' भवान् अमाकं वंशस्य उपहासं कृतवान् । अतः महात्मनः इक्ष्वाकोः अस्मिन् वंशे एव दशरथनन्दनः रामः सञ्जाय भवतः हननं करिष्यति इति ' रावणाय शापं दत्तवान् । पश्चात् साक्षात् स्वर्गगम् अगच्छत् ।

वालिना सह रावणमैत्री[सम्पादयतु]

कथञ्चिदपि रावणस्य औद्धत्यं क्षीणं नाभवत् । किष्किन्दायाः राजा बलिः बलवान् इति वार्तां श्रुत्वा रावणः युद्धार्थं तत्र गतवान् । तस्मिन् समये वाली सन्ध्योपसानार्थं सागरतीरं गतवान् सः एव भवता सह योद्धुं शक्नोति । भवान् कञ्चित्कालं प्रतीक्षां करोतु इति वालिनः पत्नी तारा, तारायाः पिता सुषेणः, युवराट् अङ्गदः वालेः सोदरः सुग्रीवः च रावणम् अवदन् । पुनः सुग्रीवः अवदत् "अग्रे शङ्खस्य राशिः इव शैलः दृश्यते सः मानवास्थिनां राशिः ये वालिना योद्धुम् आगत्य वीरमरणम् अवाप्नुवन् । यद्यपि भवान् अमृतं पीत्वा आगतवान् तथापि वाली क्षणे एव भवतः जीवनं समापयति । यदि मरणं प्रात्पुं भवतः त्वरा अस्ति तर्हि दक्षिणसागरस्य तीरं गच्छतु । भवते वालिनः दर्शनं तत्रैव भवति" इति । सुग्रीवस्य वचनं श्रुत्वा रावणः सहसा विमानारूढः दक्षिणसागरतीरम् आगच्छत् । तत्र वाली सन्ध्योपासनं करोति स्म । तूष्णीं वालेः उपरि आक्रमणं करोमि इति विचिन्त्य रावणः निकटं गतः । किन्तु वाली समीपमागच्छन्तं रावणम् अपश्यत् । किन्तु वाली किञ्चिदपि विचलितः वैदिकमन्त्रान् उच्चारयन् एव अतिष्ठत् । तं ग्रहीतुं रावणः पृष्ठतः हस्तौ प्रासारयत् । वाली सतर्कं तं गृहीत्वा कक्षे निरुद्ध्य अकाशे उड्डीय गतः । रावणः पुनः पुनः वालिनं नखैः दारयति स्म । तदा रावणस्य मन्त्री अनुचराः च रावणं मोचयितुं क्रोशयन्तः प्रधावन्तः आगताः किन्तु वालिनः समीपं प्राप्तुम् अशक्ताः । एवं वाली रावणं गृहीत्वा पश्चिमसागरस्य तीरं गतः । तत्र तस्य सन्ध्योपासनं पूर्णम् अकरोत् । पश्चात् दशाननं स्वीकृत्य किष्किन्धापुरीम् आगच्छत् । स्वस्य राजोद्याने उपविश्य रावणं स्वकक्षात् अवतार्य, "भवान् कः किमर्थम् आगतः?" इति तम् अपृच्छत् । तदा रावणः "अहं रावणः लङ्कायाः राजा भवता समं युद्धं कर्तुमागतः । किन्तु अहं भवतः बलं दृष्टवान् । इदानीमहम् अग्निं साक्षिणं कृत्वा भवतः मित्रताम् इच्छामि " इति अवदत् । पश्चात् अग्निसाक्ष्या परस्परं मित्रता अभवत् ।

रावणस्य गुणाः[सम्पादयतु]

रावणः दुष्टस्वभायुतः राक्षसः किन्तु तस्मिन् केचन गुणाः अपि आसन् । एषः बुद्धिमान् पूजानुष्टाननिरतः ब्राह्मणः शङ्करस्य परमभक्तः । तेजस्वी प्रतापी पराक्रमी, रूपवान् विद्वान् च इति वाल्मीकिः निष्पक्षपातेन अस्य गुणान् अपि वर्णितवान् अस्ति। वेदचतुष्टयस्य विख्यातः ज्ञानी, महाविद्वान् इति रामायणे रावणस्य सभायां हनूमतः प्रवेशावसरे उक्तवान् । यथा...

अहो रूपमहो धैर्यमहोत्सवमहो द्युति:।
अहो राक्षसराजस्य सर्वलक्षणयुक्तता॥ प्रथमवारं रामः रावणं दृष्ट्वा मन्त्रमुग्धः भूत्वा अवदत् रूपेन सौन्दर्येण, कान्त्या, धैर्येण, सर्वलक्षणेनयुक्ते रावणे यदि अधर्मः बलवान् न स्यात् एषः स्वर्गाधिपतिः भवति स्म इति । यत्र रावणः दुष्टः पापी चासीत् तत्र एव तस्य शिष्टाचारः आदर्शाः गौरवं चासीत् । रामस्य वियोगेन दुःखितां सीतां रावणः एवम् अवदत् " हे सीते, यदि भवत्यै मयि कामभावः नास्ति तर्हि अहं भवत्याः स्पर्शम् अपि न करोमि । शास्त्रानुसारं वन्ध्या, रजस्वला. अकामा, इत्यादयः स्त्रियः अस्पृश्याः। एवं सीताम् अस्पृश्य रावणः गौरवस्य मर्यादां नातिक्रान्तवान् । वाल्मीकिरामायणे रामचरितमानसे च द्वयोः ग्रन्थयोः रावणस्य महत्वं रक्षितम् । राक्षसी माता, ब्राह्मणः पिता इति कारणेन परस्परविरोधगुणाः तस्मिन् सहजतया आसन् ।

रावणस्य अवगुणाः[सम्पादयतु]

Killing of Rawana Painting by Balasaheb Pant Pratinidhi

वाल्मीकि रावण के अधर्मी होने को उसका मुख्य अवगुण मानते हैं। उनके रामायण में रावण के वध होने पर मन्दोदरी विलाप करते हुये कहती है, "अनेक यज्ञों का विलोप करने वाले, धर्म व्यवस्थाओं को तोड़ने वाले, देव-असुर और मनुष्यों की कन्याओं का जहाँ तहाँ से हरण करने वाले! आज तू अपने इन पाप कर्मों के कारण ही वध को प्राप्त हुआ है।" तुलसीदास जी केवल उसके अहंकार को ही उसका मुख्य अवगुण बताते हैं। उन्होंने रावण को बाहरी तौर से राम से शत्रु भाव रखते हुये हृदय से उनका भक्त बताया है। तुलसीदास के अनुसार रावण सोचता है कि यदि स्वयं भगवान ने अवतार लिया है तो मैं जाकर उनसे हठपूर्वक वैर करूंगा और प्रभु के बाण के आघात से प्राण छोड़कर भव-बन्धन से मुक्त हो जाऊंगा।

रावणस्य दशशिरः[सम्पादयतु]

रामायणे रावणस्य दशशिरविषये चर्चा अस्ति । सः कृष्णपक्षस्य आमावास्यायाम् युद्धार्थं गतवान् । प्रतिदिनं तस्य शिरः एकैकशः क्रमशः शिरच्छेदः अभवत् । अन्ततः शुक्लपक्षदशम्याम् अस्य वधः अभवत् । रामचरितमानसे एवं वर्णनमस्ति यत् रामः बाणेन कर्तिते मुण्डे पुनः नूतनं मुण्डम् अङ्कुरति स्म । वास्तवे अस्य दशशिरांसि कृत्रिमानि आसन् । राक्षसीयमायया एषः सिरां सि सृजति स्म । अपिच तस्य दशशिरांशि आसन् नाम एकस्मिन् शिरसि एव दशानां बुद्धिः, कार्ययोजनायाः क्षमता, कौशलं , निर्णयसामर्थ्यं च आसन् इति भावः ।

बाह्यानुबन्धः[सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=रावणः&oldid=253727" इत्यस्माद् पुनः प्राप्तिः