सुन्दरकाण्डम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

सुन्दराकाण्डस्य कथा[सम्पादयतु]

सुन्दरकाण्डः वाल्मीकिरामायणस्य हृदयायते । अस्मिन् काण्डे हनुमतः साधनानां विस्तृतपरिचयः लभ्यते । सीता लङ्कायाम् अस्ति इति विषयं ज्ञातवान् हनुमान् आत्मनः महदाकारतां प्राप्य सागरम् उल्लङ्घ्य लङ्काम् अगच्छत् । अत्र हनुमान् राक्षसनगर्याः लङ्कायाः राज्ञः रावणस्य च वैभवं वर्णयति । अशोकवनिकायां स्थितां सीताम् अयं पश्यति । रावणः परिणेतव्यः इति राक्षसीभिः सा कथं पीड्यमाना अस्ति इत्यपि तेन अवगतम् । हनुमान् सीताम् उपसर्प्य रामेण दत्ताम् अङ्गुलीयकं दत्त्वा सीता निश्चयेन रामेण रक्षिष्यते इति विश्वासवर्धनम् अकरोत् । अहं भवतीं रामस्य समीपं नेष्यामि किम् इति सः सीताम् अपृच्छत् । किन्तु सीता तत् न अनुमतवती । सा उक्तवती - रामः स्वयम् आगत्य दोषिणः दण्डयित्वा मम रक्षणं कुर्यात् इति ।
ततः हनुमान् लङ्कायाः वृक्षान् भवनानि च नाशयन् महतीं हानिम् अकरोत् । रावणस्य बहून् सैनिकान् अमारयत् । सः स्वस्य बन्धनाय अङ्गीकुर्वन् रावणस्य पुरतः उपस्थापितः जातः । तत्र सीता परित्यक्तव्या इति रावणम् अबोधयत् सः । किन्तु रावणस्य सभायां तस्य अवमाननं क्रियते । तस्य पृच्छे अग्निस्पर्शः कार्यते । हनुमान् ततः पलायितः सन् इतस्ततः धावन् रावणसाम्राज्ये सर्वत्र अग्निस्पर्शम् अकारयत् । ततः महदाकारतां प्राप्य सागरम् उल्लङ्घ्य प्रति अगच्छत् । सर्वे वानराः आनन्देन किष्किन्धाम् आगच्छन् नूतनां वार्तां श्रावयितुम् ।

सुन्दराकाण्डस्य केचन नीतिश्लोकाः[सम्पादयतु]

१ मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने ।
   शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ (११-४१)

२ न च कर्मसु सीदन्ति महत्स्वमिततेजसः । (३९-३६)

३ न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ।
   योह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥ (४१-६)

४ यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।
   यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ (५५-७)

Pls. see details here - http://sa.wikisource.org/wiki/रामायणम्/सुन्दरकाण्डम्

"http://sa.wikipedia.org/w/index.php?title=सुन्दरकाण्डम्&oldid=258074" इत्यस्माद् पुनः प्राप्तिः