हनुमान्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
सञ्जीवनीपर्वतोद्धरणं कुर्वाणः हनूमान्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

हनूमान् श्रीरामदासत्वेन ख्यातः कपिवीरः सन् रामायणे अतीव प्रधानं पात्रं भजते । अस्य माता अञ्जनादेवी । पिता केसरिः ।

जन्म[सम्पादयतु]

शिवः पार्वत्याः गर्भं नाभिप्रदेशात् निष्कास्य वायुना पुत्रप्राप्त्यर्थं तपः आचरन्त्याःगौतमपुत्र्याः अञ्जनायाः हस्ते स्थपितवान् ।अञ्जना तद्गर्भं गीर्णवती । तेन कारणेन पराक्रमशालिनः हनूमतः जन्म अभवत् । शिवांशसम्भूतस्य हनूमतः आञ्जनेयः इति अपरं नाम ।

नामौचित्यम्[सम्पादयतु]

वायुपुत्रः बाल्यकाले फलभ्रान्त्यासूर्यं खादितुम् उत्पतनमकरोत् । तदा अनर्थः भविष्यतीति हेतोः इन्द्रः वज्रायुधेन अञ्जनेयं प्रहरति । तदा हनूप्रदेशः विकृतः सन् बालः आञ्जनेयः मरणमवाप । तदा एव सः हनूमान् इति नाम प्राप्तवान् ।

चिरञ्जीवी[सम्पादयतु]

पुत्रवियोगेन सन्तप्तः वायुदेवः स्वकार्यात् विमुखोऽभूत् । तदाब्रह्मदेवः आञ्जनेयस्य जीवदानं कृत्वा इतः परं येन केनापि वा आयुधेन आञ्जनेयस्य मरणं मा भवतु इति वरं दत्तवान् । तदारभ्य हनूमान् चिरञ्जीवी अभवत् ।

अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः
कृपः परशुरामश्च सप्तैते चिरजीविनः ॥

इत्येते सप्त चिरजीविनः । तेषु हनूमान् अपि अन्यतमः ।|

मुनिशापः[सम्पादयतु]

बाल्यकाले आञ्जनेयः ऋष्याश्रमं प्रविश्य तान् बहु पीडयति स्म । तदा कुपिता ऋषयः 'श्रीरामसन्दर्शनपर्यन्तम् आञ्जनेयस्य कृते स्वस्य शक्तेः ज्ञानं मा भवतु इति शापं दत्तवन्तः ।

सीतान्वेषणम्[सम्पादयतु]

हनूमान्सुग्रीवस्य सचिवः आसीत् |रामभक्तः हनूमान् लङ्कां प्रविश्य सीतायाः शोधं कृतवान् । लङ्काप्रवेशसमये सिंहिका, लङ्किणी इत्याद्यसुरशक्तीः जित्वा सीतां दृष्ट्वा आभरणविशेषंचूडामणिं सम्प्राप्य लङ्कादहनं कृत्वा श्रीरामस्य सकाशमागत्य शुभवार्तामब्रवीत् ।

"http://sa.wikipedia.org/w/index.php?title=हनुमान्&oldid=276047" इत्यस्माद् पुनः प्राप्तिः