रक्षाबन्धनम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
रक्षाबन्धनम्
रक्षाबन्धनम्
रक्षायाः पर्व
व्यावहारिकनाम रक्षाबन्धनम्
इतर नामानि श्रावणीपूर्णिमा, उपाकर्म, बळेव, रामराखी, चूड़ाराखी, लूम्बा
वर्गः धार्मिकः
दिनाङ्कः श्रावणमासस्य पूर्णिमा
आचरणानि एकदिनम्
रीतयः भ्रातुः हस्ते रक्षाबन्धनं, यज्ञोपवीतोत्सर्गः, तर्पणविधिः, दानम्

रक्षाबन्धनं (हिन्दी: रक्षाबन्धन, आङ्ग्ल: Raksha Bandhan) श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते । भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः । मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं भूरिशः उपस्थापयन्ति । आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम्

रक्षाबन्धस्य भावः[सम्पादयतु]

आपणे रक्षासूत्राणां प्रदर्शनी

भगिनी ईश्वराय प्रार्थनां करोति यत्, “हे ईश्वर ! मम भ्रातुः रक्षणं करोतु” इति । एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति । भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, “अहं तव रक्षां करिष्ये” इति । ततः उभौ परस्परं मधुरं भोजयतः । भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः प्रार्थनायाः कृते भगिनीं प्रति कृतज्ञतां प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि यच्छति । भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते ।

मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।। ७।। श्रीमद्भगवद्गीतायाः सप्तमोऽध्याय: ज्ञानविज्ञानयोगः

हे धनञ्जय ! किमपि अन्यत् वस्तु मदपेक्षया उत्कृष्टतरं नास्ति । एतत् सर्वं तन्तौ मणिसमूहाः इव मयि युक्तम् अस्ति ।

उक्तश्लोकानुगुणं भगवतः श्रीकृष्णस्य स्वरूपत्वेन सूत्रं मन्यते । अतः रक्षाबन्धनकाले भगिनी श्री[[कृष्ण]स्य स्मारकं सूत्रं भ्रातुः हस्ते बध्नाति । “द्रौपद्याः प्रत्येकसमस्याकाले यथा श्रीकृष्णः तस्याः रक्षणम् अकरोत्, तथैव मम भ्राता मम रक्षां कुर्यात्” इत्यपि भावः ।

रक्षासूत्रम्[सम्पादयतु]

स्वभ्रातुः कृते रक्षासूत्रं क्रीयन्त्यः भगिन्यः

सूत्रबन्धनस्य पृष्ठे रक्षायाः भावत्वात् रक्षाबन्धनम् इति उच्यते । "आपत्तिभ्यः, रोगेभ्यः, दूषणेभ्यः च भ्रातुः रक्षणं भवतु" इति भगिनी प्रार्थनां करोति । ततः भ्राता अपि भगिन्यै रक्षणस्य वचनं यच्छति । अतः रक्षाबन्धनम् इति । आदिभारतीयसंस्कृतौ रक्षाबन्धनं न केवलं भ्रातृभगिन्योः सम्बन्धे सीमितम् आसीत्, अपि तु अन्यसम्बन्धेषु अपि रक्षाबन्धनस्य व्यवहारः आसीत् । यतो हि सूत्रं अविच्छिन्नतायाः प्रतीकत्वेनापि परिगण्यते । मौक्तिकमालायाः, पुष्पमालायाः च आधारः यथा सूत्रं भवति, तथैव रक्षासूत्रं प्रेमप्रतीकत्वेन जनानां सम्बन्धस्य आधाररूपं मन्यते ।

प्राचीनकिंवदन्त्यानुसारं संसारे यदा यदा नैतिकतायाः न्यूनता भवति, तदा तदा सदाशिवः ब्रह्मद्वारा पवित्रसूत्राणि पृथ्वीलोकं प्रेषयति । तानि सूत्राणि एव रक्षासूत्रत्वेन भगिनी स्वभ्रातुः हस्ते बध्नाति । "शिवेन प्रेषितानि तानि सूत्राणि भ्रातुः मनसः नकारात्मकविचारान् दूरीकुर्वन्ति, अभद्राचरणात् स्वभ्रातरं रक्षन्ति च" इत्यपि मन्यते । अतः भगिनी स्वया क्रीतानि स्वनिर्मितानि वा रक्षासूत्राणि शिवलिङ्गस्य समीपं स्थापनानन्तरम् एव भ्रातुः हस्ते बध्नाति ।

पौराणिक्यः कथाः[सम्पादयतु]

भ्रातुः हस्ते सुशोभितं रक्षासूत्रम्

पुराणानुसारं श्रावणमासस्य पूर्णिमायां ब्राह्ममुहूर्ते देव-मनुष्य-पितृतर्पणानि दत्वा ब्राह्मणैः निर्मितं, मन्त्रितं च रक्षासूत्रं स्वहस्ते धर्तव्यम् । शिवस्य समीपं रक्षासूत्रं स्थापयित्वा स्वहस्ते रक्षासूत्रबन्धनं वरम् इत्यपि कथ्यते । पौराणिके काले रक्षाबन्धनं भ्रातृभगिन्योः सम्बन्धे सीमितं नासीत् । पत्नी पतिं, गुरुः शिष्यं, ब्राह्मणः राजानं, व्यापारी स्वसाधनं, क्षत्रियः स्वशस्त्रं, कृषकः स्वकृषिसाधनं च रक्षासूत्रं बध्नाति स्म । अधुना पतिपत्न्योः मध्ये रक्षाबन्धनस्य प्रथा न दृश्यते । परन्तु अन्येषु सम्बन्धेषु रक्षाबन्धनस्य प्रथा अधुनापि दृश्यते ।

इन्द्रस्य कथा[सम्पादयतु]

भविष्यपुराणे देवदानवयोः एका घटना उल्लिखिता वर्तते । तत्र उल्लिखतं यत्, प्राचीनकाले देवदानवयोः भीषणं युद्धं द्वादशवर्षेभ्यः चलत् आसीत् । तस्मिन् युद्धे देवानां पराजयः भविष्यति इति देवगणेषु चर्चा आसीत् । देवराजः इन्द्रः देवानां पराजयस्थितिं दृष्ट्वा दुःखितः, मनसा दुर्बलः अभवत् । तस्य सम्मुखं न कोऽपि मार्गः आसीत् । तस्य चिन्तनशक्तिः अपि शिथिला अभवत् । अतः सः देवगुरोः बृहस्पतेः शरणम् अगच्छत् । शक्रः यदा देवानां पराजयस्थितिविषये देवगुरुम् अकथयत्, तदा तत्र इन्द्राणी अपि उपस्थिता आसीत् । इन्द्रस्य कथनं श्रुत्वा इन्द्राणी अवदत्, “श्वः श्रावणपूर्णिमा अस्ति । अहं शास्त्रियविधानानुसारं रक्षासूत्रं सज्जं करिष्ये । तत् रक्षासूत्रं त्वं ब्राह्मणेभ्यः स्वस्तिवाचनं कारयित्वा स्वहस्ते बन्धय” इति । द्वितीये दिने इन्द्राणी यत् रक्षासूत्रं न्यर्मात्, तत् सूत्रं बृहस्पतेः स्वस्तिवाचनेन सह इन्द्रः स्वहस्ते अधरत ।

बृहस्पतिना निम्नश्लोकेन स्वस्तिवाचनं कृतम् –


येन बद्धो बलिराजा, दानवेन्द्रो महाबल: ।
तेन त्वामपि बध्नामि रक्षे मा चल मा चल ।।

ततः रणाङ्गणे दानवानां नाशं कृत्वा देवताः अजयन्त । ततः रक्षाबन्धनविधिः ब्राह्मणानां स्वस्तिवाचनेन कर्तव्या इति परिपाटिः आरब्धा ।

दानवेन्द्रस्य बलेः कथा[सम्पादयतु]

दानवेन्द्रः बलिः यदा अश्वमेधयज्ञं/विश्वविजययज्ञं कुर्वन् आसीत्, तदा बलेः सर्वस्वं स्वाधीनं कृत्वा वामनावतारी भगवान् विष्णुः तं पाताललोकं प्रैषयत् । पाताललोकस्य शासनं सहर्षम् अङ्गीकृत्य बलिः भगवतः विष्णोः एकं वचनम् अयाचत । बलिः अयाचत, “हे त्रिलोकस्वामिन् ! त्वं पाताललोके निवसन् मम राज्यस्य रक्षणं कुरु” इति । बलेः वचनेन बद्धः भगवान् विष्णुः पाताललोके एव निवसनं प्रारभत । वैकुण्ठलोके लक्ष्मीः स्वपत्युः विरहेण दुःखिता आसीत् । श्रावणमासस्य पूर्णिमायां ब्राह्मण्याः रूपं धृत्वा देवी लक्ष्मीः बलेः हस्ते रक्षासूत्रं बन्धयितुं (to tie, बान्धने के लिए) पाताललोकम् अगच्छत् । रक्षायाः पवित्रं सूत्रं बलेः हस्ते बद्ध्वा तस्य रक्षणस्य प्रार्थनाम् अकरोत् । ब्राह्मणीं प्रति स्वकृतज्ञतां प्रकटयितुं बलिः वचनं दातुं प्रस्तुतः अभवत् । बलिः यदा वरं याचितुं ब्राह्मणीम् अवदत्, तदा लक्ष्मीः बलिं स्वस्याः वास्तविकरूपस्य दर्शनम् अकारयत् । लक्ष्मीः स्वपतिं वचनमुक्तं कर्तुं बलिम् अवदत् । भगिन्याः वचनेन बद्धः बलिः [[विष्णु|विष्णुं] वचनमुक्तम् अकरोत् । ततः बलिः लक्ष्मीभ्रातृत्वेन प्रसिद्धः अभवत् । तत एव भगिन्यः स्वभ्रातॄणां दीर्घायोः कामनया स्वभ्रातुः हस्ते रक्षाबन्धनम् आरभन्त ।

श्रीकृष्णद्रौपद्यौ[सम्पादयतु]

महाभारते बहुत्र उल्लेखः प्राप्यते यत्, “श्रीकृष्णस्य हस्ते द्रौपदी रक्षाबन्धनम् अकरोत्” इति । रक्षाबन्धनसम्बद्धा कथा अपि महाभारते प्राप्यते । श्रीकृष्णः सुदर्शनचक्रेण यदा शिशुपालस्य वधम् अकरोत्, तदा श्रीकृष्णस्य दक्षिणहस्तस्य तर्जन्याः रक्तम् अवहत् । द्रौपदी स्वशाटिकायाः एकं भागं विच्छिद्य श्रीकृष्णस्य आहततर्जन्याः उपरि अबध्नात् । तस्मिन् दिने श्रावणमासस्य पूर्णिमा आसीत् । अतः श्रीकृष्णः तत् सूत्रं रक्षासूत्रत्वेन अङ्ग्यकरोत् । ततः द्रौपदीवस्त्रहरणकाले श्रीकृष्णः द्रौपद्याः रक्षणम् अकरोत् ।

ऐतिहासिक्यः कथाः[सम्पादयतु]

भारतस्य इतिहासः अतिप्राचीनः वर्तते । अतः रक्षाबन्धनेन सह सम्बद्धाः अनेकाः घटनाः घटिताः स्युः । परन्तु याः घटनाः अधुना अपि प्रचलिताः सन्ति, तासाम् अत्रोल्लखः कृतः ।

भारतस्वतन्त्रतायां रक्षाबन्धनम्[सम्पादयतु]

भारतस्वतन्त्रतान्दोलने जनसामान्यानां मनसि देशभक्तिभावम् उत्पादयितुं क्रान्तिकारिणः रक्षाबन्धनपर्व आचरन्ति स्म । १९०५ तमे वर्षे क्रूराः आङ्ग्लाः वङ्गभङ्गस्य माध्यमेन अखण्डभारतं भङ्गयितुं प्रयासम् अकुर्वन् । तेषां भारतविरोधिनीतीनां विरोधं कर्तुं भारतीयक्रान्तिकारिणः आन्दोलनानि अकुर्वन् । “वन्दे मातरं” जयघोषेण आभारतं, वङ्गप्रदेशश्च ध्वणति स्म (गुंज रहा था) । लॉर्ड् कर्ज़न् इत्यस्य भारतविरोधिनिर्णयस्य विरोधार्थं १९०५ तमे वर्षे क्रान्तिकारिभिः रक्षाबन्धनस्य सामूहिकोत्सवः आचरितः । तत्कालीना एका कविता अद्यापि श्रूयते –


"सप्त कोटि लोकेर करुण क्रन्दन, सुनेना सुनिल कर्ज़न दुर्जन;
ताइ निते प्रतिशोध मनेर मतन करिल, आमि स्वजने राखी बन्धन।"

वङ्गनागरिकाणां मनसि पारस्परिकं भ्रातृभावनाम् उद्भावयितुं रक्षाबन्धनस्य सामूहिकायोजनं सफलम् अभवत् । सामान्यजनाः अपि वङ्गभङ्गस्य विरोधं कर्तुं मार्गेषु विरोधप्रदर्शनम् अकुर्वन् । “वन्दे मातरं” जयघोषः आङ्ग्लानां हृदयानि व्यदारयत् । अन्ततो गत्वा वङ्गबङ्गस्य निर्णयः अपाभवत् ।

हुमायू, कर्मावती च[सम्पादयतु]

राजस्थानराज्यस्य मेवाडप्रदेशस्य महाराज्ञी कर्मावती स्वगुप्तचरेभ्यः अजानत् यत्, बहादुर शाह-नामकः राजा मेवाडप्रदेशस्योपरि आक्रमणं कर्तुं सज्जः अस्ति इति । प्रदेशस्य स्थितिः युद्धस्य कृते अनुकूला नासीत् । अतः कर्मावती मुगल-राजानं हुमायू इत्येनं रक्षासूत्रं प्रैषयत् । तेन रक्षासूत्रेण सह सा रक्षां कर्तुम् आह्वयत् । मुस्लिम-धर्मस्य अनुयायिनि सत्यपि हुमायू रक्षासूत्रस्य सम्मानम् अकरोत् । हुमायू कर्मावत्याः कथनानुसारं मेवाडप्रदेशस्य रक्षार्थं बहादुर शाह इत्यनेन सह युद्धं कृत्वा तं पराजयत ।

पुरु, सिकन्दर च[सम्पादयतु]

सिकन्दर इत्यस्य पत्नी पौरप्रदेशस्य पुरु-नामकाय राज्ञे रक्षासूत्रं प्रेषयित्वा युद्धकाले स्वपत्युः प्राणरक्षणस्य वचनम् ऐच्छित् । सा विदेशिस्त्री रक्षासूत्रस्य माहात्म्यं जानाति स्म । अत एव सा परु इत्यस्मात् एतादृशस्य वचनस्य याचनाम् अकरोत् । पुरु सिकन्दर इत्यनेन सह भीषणं युद्धं तु अकरोत् । परन्तु सिकन्दर यदा पराजितः, तदा स्वभगिन्याः रक्षासूत्रस्य सम्मानं कुर्वन् पुरु सिकन्दर इत्यस्मै जीवनदानम् अयच्छत् ।

भारतस्य राज्येषु रक्षाबन्धनम्[सम्पादयतु]

भारतस्य विभिन्नेषु राज्येषु रक्षाबन्धनस्य विभिन्नानि नामानि श्रूयन्ते ।

राज्यम् रक्षाबन्धनस्य नामान्तरम्
उत्तराखण्डराज्यम् श्रावणी
महाराष्ट्रराज्यम् नारिकेलपूर्णिमा
राजस्थानराज्यम् रामराखी, चूड़ाराखी, लूम्बा
गुजरातराज्यम् बळेव
दक्षिणभारतीयराज्येषु उपाकर्म

भारतस्य सर्वेषु राज्येषु ब्राह्मणाः यज्ञोपवीतोत्सर्जनस्य पौराणिकविधिम् आचरन्ति । ते स्नान-ऋषितर्पण-पितृतर्पण-मनुष्यतर्पणादिविधीः कृत्वा दानं कुर्वन्ति । ततः ते स्वयजमानानां रक्षायै प्रार्थनां कृत्वा स्वयजमानानां हस्ते रक्षाबन्धनं कुर्वन्ति ।

भारते समुद्रतटवर्तीनि यानि राज्यानि सन्ति, तेषां राज्यानां जनाः समुद्रदेवस्य पूजनं कृत्वा तस्मै नारिकेलफलं समर्पयन्ति । ते समुद्रदेवाय प्रार्थनां कुर्वन्ति यत्, “हे समुद्रदेव ! त्वम् अस्माकं पोषकः, रक्षकः च । त्वम् एवमेव अस्मान् पोषय, तोषय च” इति । तस्मिन् दिने ते प्रकृतिरक्षणस्य प्रतिज्ञामपि कुर्वन्ति ।

भारतवर्षस्य पवित्रतमेषु मन्दिरेषु अन्यतमे अमरनाथमन्दिरे श्रावणपूर्णिमा हिमशिवलिङ्गस्य अन्तिमदिवसत्वेन परिगण्यते । गुरुपूर्णिमायाः आरब्धा अमरनाथयात्रा रक्षाबन्धनस्य दिने (श्रावणपूर्णिमायां) पूर्णा भवति । एतेषु दिनेषु हिमशिवलिङ्गस्य पूर्णाकारः भवति । अतः भक्ताः अरमनाथं गच्छन्ति । यात्रायाः पूर्णाहुत्याः दिने रक्षाबन्धनपर्वणि अमरनाथतीर्थक्षेत्रे उत्सवस्य (मेला) आयोजनम् अपि भवति ।

राष्ट्रियपर्वत्वेन रक्षाबन्धनम्[सम्पादयतु]

भारतस्य परम्परा "सर्वजनहिताय सर्वजनसुखाय" अस्ति । अतः सहोदराणां रक्षया सह भगिन्यः देशरक्षायाः अपि चिन्तनं कुर्वन्ति । ये वीराः मातृभूमेः रक्षणार्थं स्वजीवनं समर्पयन्ति, तेषां रक्षायै, दीर्घायुने अपि भारतीयभगिन्यः ईश्वरं प्रार्थयन्ति । रक्षाबन्धनस्य दिने सैनिकानां भगिन्यस्तु स्वभ्रात्रे रक्षासूत्रं प्रेषयन्ति एव । परन्तु देशस्य अन्यभगिन्यः अपि सैनिकानां हस्ते रक्षासूत्रं बध्नन्ति ।

भारतगणराज्यस्य संविधानं धर्मनिरपेक्षतायाः यत् अमृतं धरते, तत् भारतीयानां हृदि अपि वर्तते । अतः हिन्दुजनैः सह अन्यधर्मानुगामिनः अपि रक्षाबन्धनस्य दिने रक्षाबन्धनस्य उत्सवम् आचरन्ते । मुस्लिम-सिक्ख-कैस्त-धर्मानुगामिनः सामूहिकरक्षाबन्धनस्य आयोजनम् अपि कुर्वन्ति ।

रक्षासूत्रं भ्रातृभगिन्योः पवित्रसम्बन्धस्य प्रतीकः अस्ति । अतः अन्यपवित्रसम्बन्धस्य कृते अपि रक्षासूत्रस्य उपयोगः भवति । स्वशासकस्य दीर्घायोः कृते ईश्वराय प्रार्थनां कृत्वा प्रजायाः प्रतिनिधित्वेन बालिकाः रक्षाबन्धनं कुर्वन्ति । अतः भारतगणराज्यस्य राष्ट्रपतिः राष्ट्रपतिभवने, प्रधानमन्त्री च स्वनिवासे रक्षाबन्धनस्य उत्सवम् आचरतः । लघ्व्यः बालिकाः राष्ट्रपतेः, प्रधानमन्त्रिणः हस्ते रक्षासूत्रं बद्ध्वा तयोः दीर्घायोः कामनां कुर्वन्ति ।

रक्षाबन्धनदिने सर्वकारस्य प्रबन्धाः[सम्पादयतु]

भ्रातृभगिन्योः पवित्रपर्वणि शासनपक्षः काश्चन व्यवस्थाः करोति । भारतीयपत्रालयविभागः रक्षाबन्धनस्य कृते विभिन्नानां योजनानां घोषणां करोति । भगिनी स्वभ्रात्रे यत् रक्षासूत्रं प्रेषयति, तस्मै न्यूनव्ययः भवेत् इत्यस्य चिन्तां पत्रालयविभागः करोति । पत्रालयविभागः योग्यमूल्येन आकर्षकछादनानां (cover) मुद्रणं करोति, येन न्यूनव्ययेन भगिनी स्वभ्रात्रे रक्षासूत्रं प्रेषयितुं शक्नुयात् । रक्षाबन्धनस्य पर्व वर्षाकाले एव भवति । अतः वर्षायां रक्षासूत्राणि आद्राणि न भवेयुः इति पत्रालयविभागः जलरोधकछादनस्य (water proof) अपि मुद्रणं करोति । रक्षाबन्धनस्य पर्वणः मासे पत्रालयविभागस्य कार्ये २०% वृद्धिः भवति । भारतस्य जलयुक्ते वातावरणे प्रतिग्रामं, प्रतिनगरं, विदेशं च निर्धारितसमये पत्रालयविभागः रक्षासूत्रं प्रापयति । पत्रालयविभागस्य अध्यक्षः एतस्य विषये वदति यत्, “रक्षाबन्धनपर्वणः प्राक् वयं योग्यरीत्या कार्यस्य विभाजनं कुर्मः । विभागस्य उपरि आपतितम् एतत् कार्यं कुर्वन्तः अस्माकम् अधिकारिणः, पत्रवाहकाः, प्रबन्धकाः च किञ्चिदपि श्रमं नानुभवन्ति । यतो हि कस्यचित् पवित्रसम्बन्धस्य सूत्रं ते अन्यस्मै दातुं प्रयत्नशीलाः सन्ति” इति । जनसामान्यानां हितं विचिन्त्य पत्रालयविभागस्य कस्मिंश्चित् केन्द्रे तु रक्षासूत्रस्य विक्रयणम् अपि भवति, येन न्यूनव्ययेन रक्षासूत्रस्य प्रेषणं शक्यं भवेत् ।

आधुनिकं रक्षाबन्धनम्[सम्पादयतु]

पवित्रसम्बन्धः काल-क्षेत्र-व्यवस्थायाः उपरि आधीनः न भवति । एतस्मिन् आधुनिके युगे विदेशे, देशस्य अन्यभागे वा निवसताय भ्रात्रे अपि भगिन्यः रक्षासूत्रं प्रेषयन्ति । काश्चन पत्रालयविभागस्य साहाय्यं स्वीकुर्वन्ति, काश्चन ई-पत्रमाध्यमेन स्वभ्रात्रे रक्षासूत्रं प्रेषयन्ति । ई-रक्षासूत्रस्य चित्राणि अन्तर्जाले प्राप्यन्ते । “भगिनी स्वभ्रातरं रक्षासूत्रं बध्नाति” इत्यस्य गतिमच्चित्राणि (gif) अपि अन्तर्जाले प्राप्यन्ते । विडियो कॉन्फरस्-द्वारा अपि जनाः रक्षाबन्धनस्य उत्सवम् आचरन्ति ।

विदेशे रक्षाबन्धनोत्सवः[सम्पादयतु]

भारतीयाः यत्र यत्र निवसन्ति, तत्र तत्र भारतम् अपि निवसति । विदेशे ये भारतीयाः निवसन्ति, ते तस्मिन् देशे अपि रक्षाबन्धनस्य पर्व उत्साहेन आचरन्ति । धर्मैकतायाः, मानवैकतायाः, ईश्वरैकतायाः बोधपाठात्कम् उत्सवं ते विदेशेऽपि आचरन्ति । यस्मिन् देशे ते निवसन्तः सन्ति, तस्य देशस्य आरक्षकान् ते रक्षासूत्रं बध्नन्ति । वैदेशिकाः अपि भारतीयपरम्परायाः सम्मानं कृत्वा उत्सवे भागं वहन्ति । एवं रक्षाबन्धनं न केवलं भारतीयानाम् अथवा हिन्दुजनानाम् उत्सवः, अपि तु सर्वेषाम् उत्सवः इति वचने नातिशयोक्तिः ।

भारते संस्कृतोत्सवत्वेन रक्षाबन्धनम्[सम्पादयतु]

मुख्यलेखः: संस्कृतोत्सवः

संस्कृतोत्सवः विश्वस्मिन् प्रतिवर्षं श्रावणमासे सप्तदिनानि यावत् आचर्यते । श्रावणमासस्य शुक्लद्वादशीतः, श्रावणमासस्य कृष्णतृतीयापर्यन्तं भारतसर्वकारेण संस्कृतसप्ताहः आचर्यते । भारतस्य विभिन्नेषु स्थानेषु संस्कृतप्रेमिणः संस्कृतोत्सवम् अत्युत्साहेन आचरन्ति । पाठशालासु, विद्यालयेषु, संस्कृतप्रचारकर्तृसंस्थासुसंस्कृतसप्ताहस्य विशिष्टम् आयोजनं भवति । नाटकानि, नृत्यानि, प्रदर्शन्यः, पदयात्राः, संस्कृतगीतानां गायनम् इत्यादयः पवृत्तयः आभारते भवन्ति । २०१४ तमे वर्षे प्रधानमन्त्री नरेन्द्र मोदी 'अगस्त'-मासस्य सप्तदिनाङ्कात् त्रयोदशदिनाङ्कपर्यन्तं सप्तदिनानि संस्कृतसप्ताहत्वेन अघोषयत् । तस्मात् पुरा अपि संस्कृतोत्सवस्य आयोजनं भवति स्म । परन्तु भारतगणराज्यस्य प्रप्रथमः प्रधानमन्त्री एषः, यः आभारतं संस्कृतोत्सवस्य विशिष्टम् आयोजनं कृत्वा संस्कृतप्रेमिणां हर्षस्य कारणम् अभवत् ।

रक्षाबन्धनस्य केषाञ्चन चित्राणां वीथिका

रक्षाबन्धनम्1.jpg

रक्षाबन्धनम्2.jpg

रक्षाबन्धनम्3.jpg

रक्षाबन्धनम्4.jpg

रक्षाबन्धनम्5.jpg

रक्षाबन्धनम्7.jpg

रक्षाबन्धनम्6.jpg

रक्षाबन्धनम्8.jpg

रक्षाबन्धनम्9.jpg

बाह्यानुबन्धः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=रक्षाबन्धनम्&oldid=280285" इत्यस्माद् पुनः प्राप्तिः