व्यासपूर्णिमा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

भारतीयसंस्कृत्यां गुरोरधिष्ठानमदवितीयमिति मन्यते । भारतेऽस्मिन् प्राचीनतमकालात् सर्वैः शिष्यैः गुरुं प्रति सादरं भाति प्रदर्शिता । धौम्यशिष्य आरुणिः, द्रोणाचार्यशिष्य एकलव्यः, रामकृष्णपरमहंसशिष्यवरः विवेकानन्द इत्यादयः गुरुभक्तेः त्यागस्य च श्रेष्ठादर्शा आसन् । अतः प्रतिवर्षम् आषाढपूर्णिमायां सश्रद्धं गुरुपूजनं कर्तव्यमिति प्राचीना परम्परा ।


आषाढशुदधपूर्णिमा गुरुपूर्णिमा व्यासपूर्णिमा वेति कथ्यते । विशालबदधिः श्रीव्यासोऽतीव विद्वान् सर्वश्रेष्ठ आचार्य आसीत् । पुरा किल अध्ययनार्थम् अतिविशालः एक एव वेदराशिरासीत् । किन्तु मानवानामल्पायुः परिमितबदधिसामर्थ्थं चावलोक्य श्रीव्यासो वेदराशिं विभज्य एकैकं वेदराशिं शिष्यमेकैकम् अग्राहयद्, वेदसंरक्षणं चाकरोत् । भगवता श्रीव्यासेनानेन आदौ महाभारतं लिखितं, पश्चादष्टादश पुराणानि रचितानि । सामान्यजनानां मनः शान्त्यर्थं भागवतं चापि विरचितमनेन । श्रीव्यासस्य विपुलवाङ्म्यलेखनादेव ’व्यासोच्छिष्टं जगत् सर्वम्’ इति प्रख्याता लोकोक्तिर्लोकेषु । व्यासमहर्षिर्विशालं लेखनविस्तारं, अविरतं दीर्धेद्योगं, प्रगाढं प्राण्डित्यं च वीक्ष्य विस्मितपण्डितास्तं ‘जगदगुरुः’ इत्यमन्यन्त । पराशर्स्य पुत्रोऽयं यमुनाद्वीपे जनिमलभत, बदरिकावनं च गत्वा अतपत तपः । अतोऽयं पाराशरो बादरायणो वेद्व्यासः द्वैपायनश्चेत्यादिभिर्वैविधैः नामभिः विख्यातः । अत एव गुरुपूर्णिमावसरे श्रीव्यासप्रतिमापूजनं, गुरुप्रतीकं ग्रन्थपूजनं चापि कुर्वन्ति । केचित् संवत्सरस्य पञ्चकृत्वः वैशाखाषाढकार्तीकपौषमाघमासेष्वपि श्रीव्यासपूजनं विदधति । अध्ययनाध्यापनक्लर्मणि नित्यं निमग्नेषु ज्ञान्मन्दिरेष्वधुना बहवः छात्राः प्रत्यहं ज्ञानग्रहणं क्रुर्वन्ति । आषाढपूर्णिमवसरे तैर्विद्यार्थिभिर्भक्त्यादरेण च ‘तेजस्वि नावधीतम्स्तु’ इति संप्रार्थ्य् गुरुरूजनं कर्तव्यमिति उपदिश्यते ।

वेदव्यासः पाराशरिः कृष्णद्वैपायनः व्यासमहर्षिः बादरायणः इत्यादि नामभिः प्रसिध्दः अस्ति । ब्रह्मसूत्राणां, महाभारतस्य, विविधपुराणानां च रचयिता श्री व्यासमहर्षिः महाभारतकाले आसीत् इति ज्ञायते । महाभारते केनचित् प्रमुखपात्ररुपेण वेदव्यासस्य परिचयः भवति । वेदव्यासमहर्षेः गुरुपूर्णिमेति आषाढ मासस्य पूर्णिमादिने विशेषतः स्मरणं कुर्वन्ति ।

क्रिस्तपूर्वे पञ्चमशतके महाभारतस्य रचनां श्रीवेदव्यासाः कृतवन्तः । महाभारतस्य लेखनं कर्तुं श्री ग्णपतिं प्रार्थितवन्तः । महाभारतं पञ्चमो वेद इति च ख्यातः शतसाहस्री इत्यपि महाभारतं कथयन्ति ।अस्मिन् महाकाव्ये लक्षश्लोकाः सन्ति । महाभारतस्य आदिपर्वणि श्री वेदव्यासस्य चरित्रमस्ति ।

श्रीपराशरमहर्षिः एकदा नदीं तरन् आसीत् । सत्यवती इति दाशकन्या तारणं कारितवती । सा दुर्गन्धिनी आसीत् । तां सिगन्धिनीं पराशरमहर्षिः कृतवान् । तयोः सम्बन्धेन एकः शिशुः अभवत् । सा तु अविवाहिता इति शिशुं स्वीकृतवती । पराशरः एव शिशुं पालितवान् । सत्यवतीं च कन्यां कृत्वा प्रेषितवान् । पराशरस्य सुतः एव वेदव्यासः । सत्यवतीसुत इत्यपि व्यासं कथयन्ति ’। जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः । यस्या स्यकमलगलितं वाङ्मयममृतं जगत् पिबति ’॥

व्यासमहर्षिः वेदान् विभागीकृतवान् । अतः ‘व्यास’ इति नाम प्राप्तवान् । वेदव्यासमहर्षिः सप्तचिरञ्जीविषु एकः अस्ति । महाभारते आदितः अन्तपर्यन्तं प्रमुखपात्ररुपेण दर्शनं यच्छति । व्यासमहर्षिः आरम्भे कुरुकुलस्य अभिवृध्दयर्थं धृतराष्ट्रपाण्डुराजविदुराणां जन्मनः कारणम् अभवत् । अन्ते च अश्व त्थामार्जुनयोः ब्रह्मास्त्रं शान्तं कृत्वा युध्दस्यान्तं कृतवान् ।

महाभारते भारतीयेतिहासस्य दर्शनं भवति । न्यायविचारः, सदाचारः, राजनीतिः इत्यादीनां सुन्दरं वर्णनं तत्र अस्ति । यदिदात्र नतन क्वचित’ इति महाभारते सर्वेमास्तीति उक्तवन्तः । अनेकत्रं उत्तमोपदेशाः कृताः सन्ति, विदुरनीतिः, भगवद्गीता, अन्ते भीष्मोपदेशः इत्यादयः बहु प्रसिध्दाः मानवकल्याणाय हितकराः सन्ति । हिन्दुधर्मे रत्नत्रयं ग्रन्थाः सन्ति । भगवद्गीता, ब्रह्मसूत्राणि च व्यासवर्णिते एव । एतेषु ज्ञानराशिः लोककल्याणाय उपदिष्टः अस्ति । व्यासमहर्षिः अष्टादशपुराणानि, उपपुराणनि च रचितवान् इति ज्ञानेन अस्य प्रतिभामहत्वं स्पष्टं भवति ।

महाभारते मुख्यतः कौरवपाण्डवयोः कथा अस्ति । अन्याः शतशः उपकथाः अपि सन्ति ।‘ यतो धर्मः ततो जयः’ इति महाभारतस्य सारः । राजा कालस्य कारणं, कुर्यादाहारं प्राणसन्धारणार्थं ‘वृत्तं यत्ने न सम्रक्षेत् वित्तं आयाति याति च ‘श्रीणाः नराः निष्करुणाः भवन्ति’ बुभुक्षितः किं नकरोति पापम् इत्यादि वाक्यानि अतीव सुन्दराणि दिन वचनभुक्तानि सन्ति ।

धर्मे चार्थे च कामे च मोक्षे च पुरुषर्षभ् ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥

व्यासपूर्णिमा दिनाचरणे व्यासमहर्षेः गौरवेण पूजदिकं प्रचलति । वेदपुराण महाभारतादीनां चर्चाः भवन्ति । सर्वे व्यासमहर्षिं विष्णुरुपेण पूजयन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=व्यासपूर्णिमा&oldid=267160" इत्यस्माद् पुनः प्राप्तिः