महाशिवरात्रिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

माघमास्स्य कृष्णपक्षस्य चतुर्दश्यां तिथौ आचर्यते महाशिवरात्रिपर्व । प्रयागपुष्करः यथा तिर्थराज: इति उच्यते तथैव महाशिवरात्रि: व्रतराज: इति उच्यते । एतत् पर्व यद्यपि शैवाणां परमपवित्रं तथापि अन्यै: अपि आचरणीयम् अन्यथा तेषां पूजाफलं नश्यति इति वदन्ति शास्त्राणि ।

भगवान् शिवः
शैवो वा वैष्णवो वाऽपि यो वास्यादन्यपूजक: ।
सर्वं पूजाफलं हन्ति शिवरात्रिबहिर्मुखा: ॥ इति
शिवलिङ्गम्

एकादश्यां यथा उपवासस्य प्रामुख्यं तथैव शिवरात्र्यामपि उपवास: प्रामुख्यं भजते ।

अस्यामुपवास: प्रधानं न स्नानेन न वस्त्रेण न धूपेन न चार्चया ।
तुष्यामि न तथा पुष्पै: यथा तत्रोपवासत: ।
यो मां जागरयते रात्रिं मनुज: स्वर्गमारुहेत् ॥ इति ।

शिवरात्र्यां य: उपवासं जागरणं च ज्ञात्वा अज्ञात्वा आचरति स: स्वर्गं गच्छति इति वदन्ति शास्त्राणि । सामन्यतया देवतापूजार्थं दिवासमय: एव प्रशस्त: । किन्तु शिवरात्रिपर्वणि तस्य नामानुगुणं रात्रिरेव प्रशस्तकाल: पूजार्थम् । सम्पूर्णम् उपवासं कृत्वा रात्रौ जगरणम् आचरणीयम् । रात्रौ एव पूजा करणीया इति । कलियुगे चतुर्दश्यां रात्रौ केवलं भूमौ सञ्चरन् समस्तस्थावरजङ्गमेषु सङ्क्रमिष्यामि । समग्रे वर्षे कृतं पापं परिहरामि । दिवासमये तद्दिने एवं महिमा न भवति इति महेश्वर: एव अवदत् इति शास्त्रवाक्यम् अस्ति ।

माघमासस्य कृष्णायां चतुर्दश्यां सुरेश्वर ।
अहं वत्स्यामि भूपृष्ठे रात्रौ नैव दिवा कलौ ॥
लिङ्गेषु च समस्तेषु चलेषु स्थावरेषु च ।
सङ्कि्रमष्याम्यासन्दिग्धं वर्षपापविशुद्धये ॥ (नागरखण्डे)

शिवरात्र्याचरणं स्यात् शिवस्य प्रियं यथा । शिवस्य ध्यानानन्द: आत्मगुणसम्पत्ति: अत्यन्तं प्रियौ स्त: । सर्वभूतेषु दया, निरसूया, शुचित्वम्, अनायास:, क्षमागुण:, अकार्पण्यभाव:, मङ्गलं, दुराशां विना जीवनम् इत्येतानि एव अष्ट आत्मगुणा: । अहिंसा, सत्यम्, अक्रोध:, ब्रह्मचर्यं च अस्मिन् व्रते अपि आचरणीयम् । पूर्वदिने रात्रौ उपवासं कृत्वा प्रात: नित्यकर्माणि समाप्य शुचिर्भूत्वा निर्विघ्नतया व्रतमिदं परिसमाप्तिं गच्छतु इति प्रार्थनां समर्प्य सङ्कल्पं कुर्वन्ति । शतरुद्रीयं, श्रुतिसूक्ती:, शिवपञ्चाक्षरमहामन्त्रं, पुरुषसूक्तं च वदन्त: पञ्चगव्येन पञ्चामृतेन च शिवलिङ्गस्य अभिषेकं कुर्वन्ति । ध्यानसमाधिरूपम् आन्तरिकपूजया सह आवाहन-आसन-अर्घ्य-पाद्य-आचमनीय-अभिषेक-वस्त्र-उपवीत-गन्ध-पुष्प-धूप-दीप-अर्चन-नैवेद्य-प्रदक्षिणनमस्कार-स्तोत्र-नृत्य-गीत-वाद्यरूपा बाह्यपूजा अपि तद्दिने आचर्यते । तत्रापि विशेषतया षोडशोपचारेषु अभिषेक: शिवस्य अत्यन्तं प्रिय: इति उक्तम् अस्ति शास्त्रेषु । अलङ्कारप्रियः विष्णु: अभिषेकप्रिय: शिव: इति । गोश्रृङ्गेण अभिषेक: तु परमप्रिय: इति तस्य । अग्नौ शिवम् आवाह्य सर्षपनैवेद्यं चरुनैवेद्यं च समर्पयन्ति । अग्निपूजान्ते पूर्णाहुतिं समर्प्य शिवस्य कथानां श्रवणं, कीर्तनादिकं कुर्वन्ति । यथाशक्ति दानम् आचरन्ति । सदाशिव: ध्यानप्रिय: । तद्दिने रात्रौ जागरणम् आचरन्त: सर्वेपि ध्यानम् आचरन्ति । रात्रौ प्रथमयामे क्षीरेण, द्वीतीययामे दध्ना, तृतीययामे घृतेन, चतुर्थे च यामे मधुना शिवलिङ्गस्य विग्रहस्य वा अभिषेकं कुर्वन्ति । पञ्चामृत-गन्ध-कुङ्कुम-कर्पूर-तीर्थ-सुवर्णतीर्थै: अभिषेकं कृत्वा भव-शर्व-ईशान-पशुपति-उग्र-रुद्र-भीम-महादेव इत्येतेभ्य: शिवस्य अष्टरूपेभ्य: तत्त्पनीभ्य: च तर्पणं समर्पयन्ति । अष्टोत्तरशतनामभि: सह बिल्वपत्रार्पणं कृत्वा उपचारान् समर्पयन्ति । शिवपूजार्थं विहितानि पत्राणि अर्क-करवीर-बिल्व-वकुल-धत्तूर-बृहतीपत्राणि । पत्रेषु बिल्वपत्रं, पुष्पेषु द्रोणपुष्पं शिवस्य प्रियम् इति अस्ति ।

चतुर्णां पुष्पजातीनां गन्ध्माघ्राति शङ्कर: ।
अर्कस्य करवीरस्य बिल्वस्य वकुलस्य च ।
धत्तूरैबृहतीपुष्पैः पूजने गोलक्षफलम् ॥ इति ।

अस्मिन् पर्वणि पूज्यमान: शिव: महादेव:, महेश्वर:, क्षेत्रज्ञ:, स्वामी, ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेजोनिधि:, भगवान्, अघोररूप:, संहारकर्ता, करुणापूर्ण:, आशुतोष:, सुप्रसन्न:, रुद्र:, जगद्गुरु:, नाम-रूप-कृति-मतिषु मङ्गलकर: च । तादृशस्य शिवस्य पूजा येन अस्मिन् शिवरात्रिदिने क्रियते स: शिवतुल्य: एव भवति इति ।

कृतोपवासा ये तस्यां शिवमर्चन्ति जाग्रता: ।
बिल्वपत्रैातुर्यामं ते यान्ति शिवतुल्यताम् ॥"' इति ।

एषा शिवरात्रि: सर्वयज्ञेषु उत्तमोत्तमा । दान-यज्ञ-तप:-तीर्थ-व्रत-कर्मादीनि शिवरात्रिव्रतस्य कोटिषु एकभागोपि न भवन्ति । कृष्णाष्टमी इव शिवरात्रि: अपि नित्यव्रतमपि काम्यव्रतमपि । माघफाल्गुनयोर्मध्ये चतुर्दश्याम् उपवासं कृत्वा जागरणम् आचरन्ति ये तेभ्य: रुद्र: प्रसन्न: सन् भुक्तिं मुक्तिं च ददाति इति वदति गरुडपुरणम् । शिवस्य शरीरं ज्योतिर्मयम् । चन्द्र सूर्या ग्नय: एव तस्य त्रीणि नेत्राणिशिरसि विद्यमान: चन्द्र: मनस:, संयमस्य च प्रतीक: । जटासु विद्यमाना गङ्गा अमृतत्वसूचिका । कण्ठे विद्यमान: सर्प: जीविनां देवाश्रयस्य प्रतीक: । गजचर्म अहङ्कारनिग्रहं, व्याघ्राम्बरं विषयदमनं च द्योतयत: । विभूति: परिशुद्धतां भालनेत्रं ज्ञानं च प्रतिपादयत: । अस्मिन् माघमासस्य शुक्लपक्षस्य चतुर्दश्यां तिथौ एव शिव: आनन्देन ताण्डवनृत्यम् अकरोत् इति । क्षीरसागरमथनावसरे उद्भूतं विषं पीत्वा नीलकण्ठ: सञ्जात: अस्मिन् एव दिने इति । शिवस्य जन्म अपि एतद्दिने एव अभवत् इति वदन्ति पुराणानि ।

"http://sa.wikipedia.org/w/index.php?title=महाशिवरात्रिः&oldid=262298" इत्यस्माद् पुनः प्राप्तिः