घृतम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
घृतम्

घृतम् अपि सस्यजन्यः आहारः न, अपि तु प्राणिजन्यः आहारः । घृतम् आङ्ग्लभाषायां Ghee इति उच्यते । प्राचीनात् कालात् अपि घृतम् आहारत्वेन तथैव औषधत्वेन अपि अत्यन्तं महत्त्वयुक्तम् । भारतीये भोजने घृतस्य अभिगारं विना भोजनस्य आरम्भः एव न भवति स्म । इदानीम् अपि विशेषदिनेषु सः क्रमः अस्ति एव । सर्वविधानां भक्ष्याणां रुचिवर्धकम् अस्ति घृतम् । “ऋणं कृत्वा घृतं पिबेत्” इति उक्तिः एव घृतस्य महत्त्वं ज्ञापयति । आरोग्यशास्त्रे अपि घृतस्य विशिष्टं स्थानम् अस्ति ।

भोजनारम्भे घृतान्नस्वीकरणाभ्यास: भारतीयानाम् । घृतनिर्मित-मधुरपदार्थ: कस्य वा जिह्वालौल्यं न जनयति । ओषधीयगुणेन घृतं वातपित्तशामकं, वीर्यकरं, स्वरदायकं च भवति । घृतेषु गोघृतस्य श्रेष्ठता वर्णिता -‘गव्य: सर्पि: सर्पिषाम्’ (हिततमम्) (च.सू.26) इति । घृतस्य ओषधीयगुणविषये चरक: एवं ब्रवीति - घृतं पित्तानिलहरं रसशुक्रौजसां हितम् ।

निर्वापणं मृदुकरं स्वरवर्णप्रसादनम् । (च. सू. 23)
स्मृतिबुद्ध्यग्निशुक्रौज: कफमेदोविवर्धनम् ।
सर्वस्नेहोत्तमं सर्पिर्मधुरं रसपाकयो: ॥ (च. सू. 27) इति ।

स्नेहनद्रव्येषु (तैलघृतादिषु) घृतम् उत्कृष्टं भवति । यत: क्षीरं घृतरूपेण यावत् परिणमते तन्मध्ये तस्य बहुसंस्कारा: भवन्ति । तैलानां न तथा । अत उक्तम् -

नान्य: स्नेहस्तथा कञ्चित् संस्कारमनुवर्तते ।
यथा सर्पिरत: सर्पि: सर्वस्नेहोत्तमं मतम् ॥ (च.नि.1) इति ।

आयुर्वेदस्य अनुसारम् अस्य घृतस्य स्वभावः[सम्पादयतु]

दोसया सह घृतम्

स्नेहद्रव्येषु एव घृतम् अत्युत्तमम् । घृतस्य रुचिः मधुरा । शीतगुणयुक्तं, जठराग्निम् उद्दीपयति च । घृतं शरीरस्य सप्तसु धातुषु अन्नधातोः वर्धकम् । विधेः अनुसारं (क्रमानुगुणम्) घृतम् उपयुज्यते चेत् महान् लाभः भवति ।

“स्नेहानाम् उत्तमं शीतं वयसः स्थापनं परम् ।
सहस्रवीर्यं विधिभिः घृतं कर्म सहस्रकृत् ॥“ (वाग्भट.सू.५)
१. घृतं स्निग्धगुणयुक्तम् इति कारणात् वातं शमयति ।
२. घृतं जठराग्निम् उद्दीपयति । तेन शरीरस्य रोगांशाः सर्वे दग्धाः भवन्ति ।
३. घृतं मज्जाधातोः पोषकम् । तस्मात् कारणात् मस्तिष्कसम्बद्धेषु रोगेषु घृतेन निर्मितानाम् औषधानाम् उपयोगः अत्यन्तं हितकरः ।
४. घृतं मदम्, अपस्मारं, मूर्छारोगं च शमयित्वा मेधाशक्तिं, प्रज्ञाशक्तिं च वर्धयति ।
५. घृतं वार्धक्यम् अवरुणद्धि । (Antioxidant)
६. शरीरे लेपनार्थं नूतनं घृतम् उत्तमम् । पुरातनं घृतम् (न्यूनातिन्यूनम् एकवर्षं यावत् पुरातनं स्यात्) औषधत्वेन केवलम् उपयुज्यते ।
७. बालानां महान् ज्वरः अस्ति चेत् शिरसः मध्यभागे घृतं लेपितं चेत् ज्वरबाधा न्यूना भवति ।
८. बहुभ्यः दिनेभ्यः शिरोवेदना बाधते चेत् नासिकायां ४-६ बिन्दुः यावत् घृतस्य स्थापनेन शिरोवेदना न्यूना भवति ।
९. शतधौतं घृतं दहनेन जातानां व्रणानां परमम् औषधम् । (शतवारं जलेन प्रक्षालितं घृतं – शतधौतं घृतम्)
१०. उदरस्य वातसमस्यायाः रामबाणं घृतम् ।
द्रवीकृतं घृतम्
११. आहारेषु प्रथमम् एव घृतस्य उपयोगः करणीयः । अतः एव भोजनस्य आरम्भे एव अभिघारकरणस्य पद्धतिः अस्ति ।
१२. घृतनिर्मितं भक्ष्यं, पायसं वा भोजनस्य आरम्भे एव सेवनीयम् ।
१३. भोजनस्य मध्यभागे वा अन्ते वा सेवितं घृतं जाड्यम्, अजीर्णम्, आमांशं च जनयति । (आमांश नाम आधुनिकायां परिभाषायां कोलेस्ट्राल् इति उच्यते ।
१४. कांस्यस्य पात्रे दशाधिकेभ्यः दिनेभ्यः विद्यमानं घृतं न उपयोक्तव्यम् ।
१५. राजक्षये रोगे (क्षयरोगः), आमांशरोगे, ज्वरस्य प्राथमिकायाम् अवस्थायाम्, अजीर्णस्य अवस्थायां च घृतस्य उपयोगः न करणीयः ।
१६. बालाः, वृद्धाः, कफप्रधानप्रकृतियुक्ताः, मद्यपानिनः च घृतस्य उपयोगं न कुर्युः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=घृतम्&oldid=283150" इत्यस्माद् पुनः प्राप्तिः