आहारः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
शाकानि

आहारः जीविनां जीवनस्य प्रधानम् अङ्गम् । “आह्रियन्ते इति आहाराः” इति वयं जानीमः एव । बाह्यं किञ्चन वस्तु शरीरस्य अन्तः प्रविश्य तत्रैव अन्तर्भूत्वा अस्माकं स्वरूपस्य निर्माणस्य कारणं भवति । अन्नस्य सूक्ष्मभागात् एव मनसः निर्मितिः भवति । अद्य वयम् एवं स्मः इत्यस्य पृष्ठभूमिकायाम् अस्माभिः सेवितः आहारः एव अस्ति इति ज्ञायते चेत् आहारस्य महत्त्वम् अवगतम् इति अर्थः । गर्भादारभ्य मरणपर्यन्तं जीवनार्थम् अस्मात् पञ्चभौतिकप्रपञ्चात् यद्यत् स्वीकुर्मः तत्सर्वम् अपि आहारः एव । न केवलम् उदरम्भरणार्थम् अवश्यभूतानि घन-द्रवरूपाणि अन्नक्षीरादीनि आहारत्वेन उच्यन्ते अपि तु जलं, वायुः, प्रकाशः, आकाशः, औष्ण्यम् इत्यादीनि अपि आहारः एव । अन्नक्षीरादीनि न सन्ति चेदपि कतिपय दिनानि जीवामः किन्तु जलमेव नास्ति चेत् कति दिनानि जीवामः ? जलं नास्ति चेदपि कथञ्चित् कतिपय दिनानि जीवामः, वायुरेव नास्ति चेत् कति निमेषान् जीवामः ? यदि आकाशेण स्वस्मिन् किञ्चिन्मात्रेण अपि अवकाशः न कल्पितः स्यात् तर्हि कुत्र अस्माकं जीवनम् ? अतः अस्माकं देहस्य धारणपोषणांशाः पृथ्वी, अप्, तेजस्, वायुः, आकाशः इत्येतैः पञ्चभूतैः निर्मिताः सन्ति । देहस्य मूलघटकाः शुक्रशोणिताः अपि एतैः पञ्चभूतैः एव बाह्यरूपं प्राप्नुवन् । भगवतः सृष्टौ असंख्याः आहारपदार्थाः सन्ति एव । तत्सर्वम् अपि मनुष्यमात्रस्य उपयोगाय इत्येव न निर्मितं भगवता । कालानुगुणं मनुष्यस्य उपयोगाय न भवेयुः इत्यपि न । अत्र काचित् व्यवस्था आवश्यकी । “अहं कः ? मम शरीरस्य सहजाः गुणाः के ? वात-पित्त-श्लेष्मेषु प्रधानधातुः कः मम शरीरे ? मम मनः कीदृशम् ? सत्त्वं,रजस्, तमस् इत्येतेषु प्राधान्यं कस्य ? देहस्य मनसः च आरोग्यकरी स्थितिः का ? अनारोग्यकरी स्थितिः का ? देहे विद्यमाना बाल्याद्यवस्था का ? मम कार्यं कीदृशम् ? कः कालः ? देशः कः ? स्त्री वा पुरुषो वा ? मम वर्णव्यवस्था का ? इत्यादीनां बहुविधानां परिस्थितीनाम् अनुगुणम् अस्माकम् आहारस्य निर्णयः भवति । तथा चेदेव सः आहारः अस्माकं शरीरं मनः च सम्यग्रूपेण पालयति ।

दुग्धम्

सृष्टेः विकासस्य अन्तिमं पदम् एव “पृथ्वी” । एतस्याम् अन्यानि सर्वाणि भूतानि (अप्, तेजस्, वायुः, आकाशः च) प्रमाणतारतम्येन निहितानि सन्ति । अतः एव सा पृथ्वी “विश्वम्भरा” इति उच्यते । स्वस्य शरीरात् जीवकोटिनां निमित्तम् आवश्यकं द्रव-द्रव्यादिकं यच्छन्ती जीवनस्य आश्रयभूता सा “अवनिः” इत्यपि उच्यते । सा न केवलं शरीरस्य पालनं करोति अपि तु देहस्य धारणपोषणकार्ये जीवस्य सारथिरूपेण स्थित्वा देहरथं नयमानं मनः अपि निरूपयति । एवं पृथिव्याः पात्रं सुमहत् अस्ति । अतः एव सा मातृरूपिणी इति उक्तम् अस्माकं पूर्वजैः । “माता भूमिः पुत्रोहं पृथिव्याः” इत्यत्र भूमिः अथवा पृथ्वी माता, अहं तस्याः पुत्रः इति निर्दिष्टम् । भूमातुः उपकारः महान् । तम् उपकारं वर्णयितुं पदानि एव अपर्याप्तानि स्युः अस्माकं पदसङ्ग्रहे । अनन्तसंख्याकानां जीविनां निमित्तं तेषां देहस्य, इन्द्रियाणां, मनसः च स्वरूपस्य स्वभावस्य च अनुगुणम् असंख्यविधान् घन-द्रवरूपान् आहारपदार्थान् सृजति सा । तस्याः भूमातुः अनुग्रहादेव सर्वेपि जीविनः मनसः शरीरस्य पोषणाय वर्धनाय च निरन्तरम् आहारं प्राप्नुवन्ति । जीवः रसरूपस्य परमात्मनः किञ्चित् स्फुलिङ्गम् । प्रत्येकः अपि जीवः रसरूपस्य परमात्मनः अनुभवस्य प्राप्त्यर्थम् आवश्यकीं स्थितिं प्राप्नोति इत्यत्र भूमातुः योगदानं वर्णनातीतम् । सृष्टौ शिखरसदृशाय मानवाय तु रसरूपस्य परमात्मनः परंज्योतिरूपस्य अनुभवस्य प्राप्त्यर्थम् अनुकूलकराणां देहेन्द्रियाणां मनोवृत्तीनां च पालनपोषणाय अनेकान् रसमयान् पदार्थान् यच्छन्ती सा “रसा” इति एव निर्दिष्टा ।

गन्धद्रव्याणि

भूमौ प्राप्यमाणेषु आहारपदार्थेषु मधुरः, आम्लः, लवणः, कटुः, कषायः, तिक्तः इति षड् विधेषु रसेषु कश्चन रसः तु भवति एव । तण्डुलाः, गोधूमाः, मुद्गाः, माषाः, शाकानि, फलानि, मूलानि, पुष्पाणि, धान्यानि एवं सस्यजन्याः आहाराः ये सन्ति तेषु सर्वेषु एते षड्रसाः विभिन्नप्रमाणेन सन्ति । तेषां पदार्थानां विभिन्नप्रमाणेन योजनेन बहुविधाः आहाराः सिद्धाः भवन्ति । ते सर्वे अपि अस्माकं शरीरं मनः च पोषयन्ति । ते एव आहाराः देहस्य घटकाणां रसं, रक्तं, मांसं, मज्जा, मेदः, शुक्रम्, अस्थि इत्याख्यान् सप्तधातून् वर्धयन्तः मनसः आरोग्यं पोषयन्तः, हृदये अपि रसं पूरयन्तः सन्ति । विभिन्नेन प्रमाणेन रसानां योजनेन यथा आहारस्य नूतनानि रूपाणि सृष्टानि सन्ति तथैव पदार्थानां संयोगेन अपि आहारस्य नवरूपाणि सृष्टानि सन्ति । एवं रसानां सम्यग्रूपस्य संयोगेन सज्जीकृतः आहारः मनः देहेन्द्रियाणि च सन्तर्पयति ।

पाकशास्त्रस्य महत्त्वम्[सम्पादयतु]

भारते ६४ कलासु पाकशास्त्रम् अपि एकम् । “सा विद्या या विमुक्तये” इति उक्त्यनुसारम् आहारः अपि मुक्तिप्रदायकः । अतः एव पाकशास्त्रम् अपि विद्यासु अन्तर्गतम् । तस्मात् एव उच्यते –

“आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः ।
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः ॥“इति ।
शुष्कफलानि

एवम् आहारस्य व्याप्तिः उदरतृप्तितः मोक्षप्राप्तिपर्यन्तम् अपि विस्तृता अस्ति । मोक्षस्य विषयः परित्यक्तः चेत् अपि इदानीम् अस्माभिः सेव्यमानः आहारः अस्माकम् आरोग्यस्य रक्षणे अपि असमर्थः अस्ति इति वयम् अपि जानीमः एव । पाकशास्त्रम् अपि तदा एव विद्या भवति यदा पदार्थाः धर्ममार्गेण प्राप्यन्ते । अथवा न्यायमार्गेण अर्जितेन धनेन स्वीकृताः स्युः । ते अपि पदार्थाः सहजस्वभावयुक्ताः भवेयुः । तादृशानां पदार्थानां सम्यक् योजनस्य ज्ञानम् अपि पाचकस्य स्यात् । “ऋषिरेव विजानाति द्रव्यसंयोगजं फलम्” इति उक्तिः एव अस्ति । द्वयोः पदार्थयोः योजनेन अमृतसदृशः आहारः सिद्धः भवेत्, कदाचित् विरुद्धं परिणामं जनयत् विषम् अपि सिद्धं भवेत् । विषम् इति उक्तौ तदा एव मूर्छां वा मरणं प्राप्यते इति न । धातुवैषम्येन अहितं परिणामं जनयति चेत् तदपि विषम् इत्येव उच्यते । उदाहरणार्थम् – मधु-घृतयोः समप्रमाणेन योजनं विषरूपं प्राप्नोति । पायसं नाम पयसा निर्मितः मधुररसप्रधानः द्रवपदार्थः । किन्तु तदेव पायसं मुद्गक्षीरयोः मिश्रणेन निर्मितं चेत् विषतुल्यम् एव । एवं पदार्थानां घटकस्वभावादपि भिन्नः हितकरः वा अहितकरः वा परिणामः सम्भवति तेषां योजनेन । तदर्थम् एव अस्माकं पूर्वजाः ऋषयः योगदृष्ट्या परिशील्य योगस्य भोगस्य च अनुगुणम् एव आहारनिर्माणस्य क्रमं सृष्टवन्तः । तं क्रमम् अपूर्वविद्यायाः रूपेण वर्धितवन्तः च । पुराणेषु इतिहासेषु च अपूर्वां पाकविद्यां जानन्तः बहवः दृश्यन्ते । तेषु नलः, भीमः च प्रख्यातौ । दौर्भाग्यं नाम अद्य तादृशी प्राचीना पाकविद्या विस्म्रियमाणा अस्ति । सर्वे अपि इच्छानुसारं पदार्थान् योजयित्वा नूतनान् आहारान् सृजन्तः सन्ति तस्य परिणामम् अजानन्तः एव ।

पाकस्य सज्जीकरणम्

आहारस्य विधाः[सम्पादयतु]

आहारः प्रधानतया द्विधा विभज्यते । शाकाहारः मांसाहारः च इति । सामान्यतया सस्यजन्यः आहारः शाकाहारः, प्राणिजन्यः आहारः मांसाहारः इति उच्यते ।

एतं भेदं विहाय अपि आहारः त्रिविधः भवति इति उक्तम् अस्ति । सात्विकः आहारः, राजसिकः आहारः, तामसिकः आहारः च इति । भगवद्गीतायां तेषां त्रयाणाम् अपि आहाराणां विवरणं कृतम् अस्ति भगवता श्रीकृष्णेन

“कट्वाम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥“
दक्षिणभारतीयशैल्या सज्जीकृतं ताम्बूलम्

कटुप्रधानः, आम्लप्रधानः, लवणप्रधानः, अत्युष्णः, तीक्ष्णः, रूक्षः वा आहारः राजसिकः । सः शोकं मोहं च जनयति इति ।

“यातायामं गतरसं पूतिपर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ।“

निर्माणानन्तरं यामः अतीतः, रसहीनः, दुर्गन्धयुक्तः, पर्युषितः, उच्छिष्टः, अमेध्यः वा आहारः तामसिकः इति ।


“आयुस्सत्व-बलारोग्य-सुख-प्रीति-विवर्धनाः ।
सात्विकैः आहारपदार्थैः निर्मितं भारतीयं भोजनम्
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्विकप्रियाः ॥“

आयुः, सत्त्वं, मनोबलं, देहबलम्, आरोग्यं, सुखं, प्रीतिं वा जनयन् घृतमिश्रितः, हृदयस्य हितकरः वा आहारः सात्त्विकः इति ।


तथैव आहारे औषधगुणः अस्ति इति यं कमपि आहारं सेवन्ते इदानीन्तनाः जनाः । तथा न करणीयम् । यत् सेवनीयं तदेव सेवनीयं, नान्यत् । किञ्चन सुभाषितम् औषधगुणयुक्तम् इति शुनकस्य मांसं कोपि विचक्षणः न सेवते इति वदति ।

“रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके ।
कथिता इति तत् किं स्यात् भक्षणीयं विचक्षणैः ॥“
फलानि

अतः औषधीयगुणयुक्ताः अपि राजसिकः वा तामसिकः वा आहाराः न सेवनीयाः एव । सात्त्विकस्य आहारस्य सेवनेन गुणस्वभावाः अपि सात्त्विकाः भवन्ति । राजसिकस्य तामसिकस्य वा आहारस्य वा सेवनेन गुणस्वभावाः अपि तद्वत् एव भवन्ति । तेन गृहं सङ्घर्षस्य क्षेत्रं भवति । तदपेक्षया राजसिकस्य वा तामसिकस्य वा आहारस्य स्थाने तदौषधीयगुणयुक्तः सात्त्विकः अन्यः कोपि आहारः सेवनीयः बुद्धिमता ।

आहारपदार्थाः[सम्पादयतु]

पाकशालायां कार्यं कुर्वद्भिः सर्वैः अपि तत्र विद्यमानानां नित्योपयोगीनां पदार्थानां सर्वेषाम् अपि गुणस्य, धर्मस्य च ज्ञानं भवेत् । भारते तु पूर्वं गृहिण्यः सर्वाः तादृशं ज्ञानं श्रवणद्वारा एव प्राप्नुवन्ति स्म । स्मृतिद्वारा एव अग्रिमान् पाठयन्ति स्म च । अयं पदार्थः उष्णप्रधानः, अयं च वायुकारकः, अयम् अजीर्णकारी, अयं हितकारकः इति पदार्थानां गुणं धर्मं च जानन्त्यः स्मरन्त्यः एव योग्यप्रमाणेन आवश्यकतानुसारं तेषाम् उपयोगं कुर्वन्ति स्म ताः । कस्मिंश्चित् अपि विश्वविद्यालये दीर्घकालीनं शिक्षणं न प्राप्तवत्यः आसन् ताः पाकशास्त्रविषये । तथापि गृहे विद्यमानानां सर्वेषाम् आरोग्यरक्षणं कुर्वन्ति स्म ताः । यतः ताः विवेकमतयः आसन्, सम्यक् पाकविद्यां च जानन्ति स्म । सामान्यतया जायमानस्य ज्वरस्य, पीनसस्य, अजीर्णस्य, वमनस्य, शरीरवेदनायाः, शिरोवेदनायाः वा औषधं गृहे विद्यमानं शुण्ठीं, मरीचं, हरिद्रां, मधु, घृतं वा आहारपदार्थम् एव उपयुज्य निर्मान्ति स्म पूर्वम् । इदानीं तत्सर्वम् अपि विपरीतं जातम् अस्ति । लघु लघु विषयार्थम् अपि वैद्यान् एव पश्यन्ति, गुलिकाः द्रवरूपम् औषधं वा सेवन्ते । एतत् किमपि शुभलक्षणं न । “भारतस्य आहारसम्पत्तिः विशिष्टा” इति ज्ञानं सर्वेषां भवेत् अस्माकम् । तदर्थम् एव नित्योपयोगीनां प्रमुखाणां सात्त्विकानाम् आहारपदार्थानां काञ्चित् आवलीं वयम् एवं सज्जीकर्तुं शाक्नुमः ।

राष्ट्रनायकस्य गृहं परितः सुभद्रा रक्षणव्यवस्था भवति, अन्ये अन्तः न प्रविशेयुः इति । तथैव अस्माकं शरीरनामकस्य राष्ट्रस्य नायकः आत्मा । आत्मनः हानिकारकाणि वस्तूनि आहाररूपेण अपि अन्तः न प्रविशेयुः । तदर्थम् आत्मरक्षणस्य व्यवस्था अपि अस्माभिः कल्पनीया । जिह्वायाः चापल्यस्य वशीभूत्वा आत्मनः हानिकारकाः अपि आहाराः रुचिकराः इति यदा चिन्त्यते तदा एव अनर्थपरम्परा आरप्स्यते । भारतीयपरम्परायाम् आदर्शभूतः आहारक्रमः आत्मना इन्द्रियैः च सम्मतः आहारक्रमः एव । अस्माकं जीवने मुख्यं पात्रं वहतः आहारस्य विषये अस्माभिः दीयमानं महत्त्वम् अपर्याप्तम् एव । जिह्वायाः चापल्यस्य वशीभूताः वयं सर्वोत्कृष्टं भारतीयम् आहारज्ञानं परित्यज्य राजसं तामसं वा आहारं सेवमानाः दैवत्वात् दानवतायाः दिशि गच्छन्तः स्मः । भारते जन्म प्राप्य अपि वयं भारताः न जाताः एव । अस्माकं पितृपितामहैः अनुसृतः प्रशस्तः आहारमार्गः अस्माभिः अपि अनुसरणीयः । तदा एव वयमपि ते इव महान्तः भवामः । विभिन्नेषु प्रदेशेषु विभिन्नाः आहारपदार्थाः वर्धन्ते । वातावरणम् अपि विभिन्नेषु प्रदेशेषु विभिन्नम् एव भवति । अतः तत्तत् वातावरणानुगुणं तत्र तत्र ये अहारपदार्थाः वर्धन्ते तेषाम् उपयोगः क्रियते । अतः एतानि विहाय इतोऽपि आहारपदार्थाः सन्ति एव । एषा आवली न परिपूर्णा ।‎

"http://sa.wikipedia.org/w/index.php?title=आहारः&oldid=268603" इत्यस्माद् पुनः प्राप्तिः