ज्वरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ज्वरपीडिता महिला

ज्वरः (Fever) रोगचिह्नेषु अन्यतमः । शरीरे सामान्यौष्णस्य अपेक्षया अधिकम् औष्ण्यं भवति चेत् ज्वरपीडितः भवति । मनष्यस्य शरीरे सामान्यतया ३७ डिग्रिपरिमाणम् औष्ण्यं भवति । अस्य परिमाणस्य अपेक्षया औष्ण्यम् अधिकं भवति शरीरे ज्वरचिन्हम् (इति) सूचयन्ति । ज्वरः वर्धते (अधिकदिनानि भवति) चेत् गभीरं रोगं सूचयति ।

कारणानि[सम्पादयतु]

अधो निर्दिष्टाः रोगाः ज्वरस्य कारणानि भवन्ति,

  • मलेरिया
  • टायफर्ड
  • टी.बी
  • न्युमेनिया
  • टान्सिल्
  • अन्यानि कारणान्यपि सन्ति ।

साधरणज्वरस्य लक्षणम्[सम्पादयतु]

सामान्यप्रमाणस्य उष्णस्य अपेक्षया अधिकं भवति चेत् शरीरे ज्वरचिह्नं दृश्यते । अस्य ज्वरस्य लक्षणानि शिरोवेदना, शैत्याधिक्यम्,(शरीरस्य) सन्धिषु वेदना, बुभुक्षा न भवति, शक्तिवैकल्यञ्च भवन्ति । उपशमनार्थं सरलाः उपायाः उच्यन्ते । ते भवन्ति,

  • द्रवपदार्थं स्वीकुर्यात् ज्वरपीडितः ।
  • स्वच्छानि वस्त्राणि धर्तव्यानि ।
  • वायुः प्रकाश्च अधिकतया यस्मिन् प्रकोष्ठे प्रवहति तत्र विश्रान्तिः स्वीकर्तव्या ।
  • उष्णजलं पातव्यम् ।
  • ३९.५ डिग्रिप्रमाणस्यापेक्षया अधिकः ज्वरः शरीरे भवति चेत् वैद्यस्य मार्गदर्शनं स्वीकर्तव्यम् ।
  • ज्वरपीडिताय शक्तिवर्धकपेयाः देयाः ।
  • घनाहारपदार्थान् न भोक्तव्यम् ।
  • दधि, तक्रादीनं भोजनादिषु निषेधः अस्ति ।

प्रभेदाः[सम्पादयतु]

  • निरन्तरज्वरः(Continuous fever) – मनष्यस्य शरीरे सामान्यतया ३७ डिग्रिपरिमाणम् औष्ण्यं भवति । उक्तस्य परिमाणस्यापेक्षया दिनेषु प्रमाणे आधिक्यम् एवं प्रमाणे स्वल्पम् अपि न्यूनाधिकं न भवति चेत् निरन्तरज्वरः इति सूचयन्ति । उदा-न्युमोनिया, टैफायिड्, ब्रुसेला अथवा टैफस् इत्यादयाः ।
  • प्रत्यावर्तकः ज्वरः (Intermittent fever) – ज्वरः किञ्चत् कालपर्यन्तं भवति समनन्तरं ज्वरः नास्ति इति भाति । किन्तु पुनः किञ्चित् समयानन्तरं ज्वरः आयाति । एनं ज्वरं प्रत्यावर्तकः ज्वरः इति सूचयन्ति । उदा –मलेरिया, सेप्टिसेमिया, पेमिया इत्यादयाः भवन्ति ।
  • दिनज्वरः (Quotidian fever) – सम्पूर्णे दिने ज्वरः भवति चेत्, एनं ज्वरं दिनज्वरः इति सूचयन्ति । एषः विशिष्य प्लास्मोडियम् फाल्सिप्यारं तः आगच्छति इति ।
  • दिनद्वयज्वरः – (Tertian fever) एषः ज्वरः दिनद्वयं यावत् शरीरे तिष्ठति । अस्य कारणं प्लास्मोडियम् विव्याक्ष् (Plasmodium vivax) भवति ।
  • त्रिदिवसीयः ज्वरः (Quartan fever) – एषः ज्वरः दिनत्रयं यावत् शरीरे तिष्ठति । अस्य कारणं प्लास्मोडियम् मलेरिया (Plasmodium malariae) भवति ।
  • यातायातज्वरः (Remittent fever) – एषः ज्वरः सामान्यौष्ण्यस्यापेक्षया अधिकमेव भवति । किन्तु प्रमाणे न्यूनाधिक्यं संभवति ।
  • पेल्-एब्स्टैन् ज्वरः (Pel-Ebstein fever) – एकः सप्ताहं यावत् ज्वरः अधिकः, परस्मिन् सप्ताहे न्यूनः ज्वरः भवति चेत् पेल्-एब्स्टैन् ज्वरः इति सूचयन्ति । होड्ज्किन्स् ल्याम्फोमा (Hodgkin's lymphoma,) सम्बन्धितः ज्वरः भवति इति ।

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ज्वरः&oldid=480373" इत्यस्माद् प्रतिप्राप्तम्