रसः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

विवक्षितस्यार्थस्य प्रतिपादनाय यद्वाक्यं प्रयुज्यते तत् आज्ञाप्रधानम्, अनुनयप्रधानम्, प्रार्थनाप्रधानं चेति त्रिविधम् । तत्र आज्ञाप्रधानं शास्त्रम् । तत्प्रधानत्वादेव इदं स्वरूपेण संक्षिप्तं शब्दप्रधानं च । तत्प्रधानत्वादेव इदं विस्तृतम् अर्थप्रधानं च । प्रार्थनाप्रधानं तु काव्यम् । तत्प्रधानत्वादेव इदं विस्तृततरं व्यापारप्रधानं च, तदुक्तं भट्टनायकेन –

शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदु: ।
अर्थे तत्त्वेन युक्ते तु वदन्त्याख्यानमेतयो: ॥
द्वयो: गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेत् ।

विस्तृततरत्वे कल्पितार्थस्य सद्भाव: कारणम् । नहि कल्प्यमानस्यार्थस्य इयत्तां ब्रह्मापि निश्चिनोति । अत एवाभिहितं ध्वनिकारेण –

अपारे काव्यसंसारे कविरेक: प्रजापति: ।
यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥

एतादृशे काव्ये शब्दार्थौ शरीरम्, रसादिरात्मा, गुणा: शौर्यादिवत्, अलङ्कारा: कटककुण्डलादिवत्, रीतयोऽवयवसंस्थानविशेषवच्च भान्तीति नवीनानां मम्मटादीनां मतम् । ननु रसो नाम क:? किं तावत् तस्य लक्षणम्? इति चेत् – उच्यते, रस्यते आस्वाद्यते इति रस: । रस आस्वादनस्नेहनयो: इति धातो: चौरादिकात् रसयते: 'कृत्यल्युटो बहुलम् [पा.सू. ३.३.११३] इत्यनेन कर्मणि बाहुलके अच्प्रत्यये निष्पन्नोऽयं शब्द: आस्वादनीयेऽथेर् वर्तते । आस्वादनीयोऽर्थश्च नाम्रचूतादिफलम् किन्तु रत्यादि: चित्तवृत्ति: । ततश्च आस्वादनीयो रत्यादि: रस इत्युक्तं भवति । तल्लक्षणं चोक्तं दर्पणकारेण –

सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मय: ।
वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदर: ॥
लोकोत्तरचमतकारप्राण: कैश्चित् प्रमातृभि: ।
स्वाकारवदभिन्नत्वेनायमास्वाद्यते रस: ॥तृ.प का – २,३.

यद्यप्यत्र आस्वादनं कथमित्युच्यते तथापि तेन सह तस्य लक्षणमपि स्पष्टं विदितं भवति । ननु काव्ये कथं तस्य निष्पत्ति:? उच्यते, उक्तं भरतेन – विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्ति: । अस्यायमर्थ: - काव्ये विभाव: अनुभाव: व्यभिचारिभावश्चेति त्रिविधा अर्था: सन्ति । तेषामर्थानां बुद्धौ यदा समावेशो भवति तदा स्थायी भावो रसो भवति ॥ एतेन विभावादित्रयं निष्पादकं भवति, रत्यादिश्च निष्पाद्य:, सहृदयस्य चित्तं च तन्निष्पत्तौ अधिकरणम् इत्युक्तं भवति । विभावादयश्चार्था: के इति जिज्ञासायां मम्मट आह काव्यप्रकाशे –

कारणान्यथ कार्याणि सहकारीणि यानि च ।
रत्यादे: स्थायिनो लोके तानि चेन्नाट्यकाव्ययो: ॥
विभावा अनुभावास्तत्कथ्यन्ते व्यभिचारिण: ।
व्यक्त: स तैर्विभावाद्यै: स्थायी भावो रस: स्मृत: ॥च.उ. का – २७,२८.

लोकदृष्ट्या रत्यादिं चित्तवृत्तिं प्रति यत् कारणम्, यत् कार्यम्, यच्च सहकारिकारणं तान्येव काव्ये विभावादिशब्देन व्यपदिश्यन्ते इति बोध्यम् । तत्र विभाव्यते आविष्क्रियतेऽनेन रत्यादिरिति विभाव: । आविर्भावे आविर्भावितस्य उद्दीपने च साधनमित्यर्थ: । अत एव तदालम्बनम् उद्दीपनं चेति द्विविधम् । स आलम्बनविभाव इत्युच्यते, यमालम्ब्य रत्यादि: आविर्भवति, यथा – शकुन्तलामालम्ब्य रतिराविर्भवतीति दुष्यन्तनिष्ठां रतिं प्रति शकुन्तला आलम्बनविभाव: । दुष्यन्तमालम्ब्य च रतिराविर्भवतीति शकुन्तलानिष्ठां रतिं प्रति दुष्यन्तोऽपि । यथा च – दुर्योधनमालम्ब्य क्रोध आविर्भवतीति भीमसेननिष्ठक्रोधं प्रति दुर्योधन आलम्बनविभाव: । एवमन्यदपि बोध्यम् । स पुन: उद्दीपनविभाव इत्युच्यते, येन आविर्भूतस्य रत्यादेरुद्दीपनं भवति, यथा – दुष्यन्तनिष्ठां शकुन्तलाविषयिकां शकुन्तलानिष्ठां च दुष्यन्तविषयिकां रतिमुद्दीपयतीति चन्द्रिकाभ्रमरझङ्कारप्रभृतय: उद्दीपनविभावा: । एवमन्यदपि बोध्यम् ।

अनुभाव्यते प्रतीतिविषयीक्रियते रत्यादि: येन कार्यरूपेणेति अनुभाव: । रत्यादे: कार्यविशेष इति यावत्, यथा – दुष्यन्तस्य शकुन्तलाविषये रतौ सम्भवन्त्यां कटाक्षविक्षेप-आलिङ्गन-अधरपान-चुम्बनादय: कार्यविशेषा: सम्भवन्ति, । एवं शकुन्तलाया अपि दुष्यन्तविषये रतौ जातायां स्वेद-रोमाञ्च-पलायनादय: सम्भवन्ति । एते अनुभावा: । अयं च अनुभाव: आन्तरिक: बाह्यश्चेति द्विविध: । तत्र स्तम्भादय: आन्तरिका:, कटाक्षविक्षेपादयश्च बाह्या इति विवेक: । व्यभिचरन्ति विशेषेण रत्यादे: आभिमुख्येन चरन्तीति व्यभिचारिण: । ते च निवेर्दादय: त्रयस्त्रिशंत् गुरुदेवादिविषयिका रतिश्चेति चतुत्रिंशत् । ते यथा काव्यप्रकाशे –

निवेर्दग्लानिशङ्काख्यास्तथासूयामदश्रमा: ।
आलस्यं चैव दैन्यं च चिन्ता मोह: स्मृतिर्धृति: ॥
व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥
सुप्तं प्रबोधोऽमर्षश्चाप्यवहिथमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिण: ।
त्रयस्त्रिशंदमी भावा: समाख्यातास्तु नामत: ॥
रतिदेर्वादिविषया व्यभिचारी तथाञ्चित: ॥
भाव: प्रोक्त: . . . . . . . . . . . . . . . । च.उ.

एतै: त्रिविधैरर्थै: सहृदयस्य चित्तेऽभिव्यक्तो रत्यादि: स्थायी भावो रसो भवति । ननु स्थायी क:? उच्यते, चित्ते चिरं वर्तमानत्वात् रत्यादि: स्थायीत्युच्यते, तदुक्तम् –

चिरं चित्तेऽवतिष्ठन्ते सम्बध्यन्तेऽनुबन्धिभि: ।
रसत्वं प्रतिपद्यन्ते प्रवृद्धा: स्थायिनोऽत्र ते ॥इति ।

एते च रत्यादय: अष्ठौ, यथा –

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभावा: प्रकीर्तिता: ॥

ननु चित्तवृत्तित्वाविशेषात् निवेर्दादीनामपि स्थायित्वमस्तु – मैवम्, संसारचक्रे भ्रमतां समेषां प्राणिनां चित्ते एतावतामेव सर्वदा वर्तमानत्वम् । तस्मात् तावतामेव स्थायित्वम् नान्येषाम् । अत एवाभिहितम् अभिनवभारत्याम् – स्थायित्वमेतावतामेव । जातो हि जन्तुरियतीभिरेव संविद्भि: परीतो भवति ॥यद्यपि कस्यचित् पुंसो निवेर्दादे: भावान्तरस्यापि जन्मान्तरेषु बाहुल्येन अनुभवात् जन्मन्यस्मिन् चित्ते चिरमवस्थानं सम्भवति तथापि तत् केवलं तन्मात्रस्य पुंस: न तु सवेर्षाम् । इह तु सर्वपुरुषाभिप्रायेणैव स्थायिनां निरूपणं महर्षिणा कृतमिति दोषाभाव: । नन्वत्र कस्यचित् स्थायिन: केचित् भावा विरोधिनो भवन्ति केचिच्च अविरोधिन: । एवं स्थिते कथं सर्वैरपि भावै: स्थायिन: पोषणमिति कथमेतत् युज्यते? सत्यम्, अत एवोक्तम् –

विरुद्धैरविरुद्धैर्वा भावै: विच्छिद्यते न य: ।
आत्मभावं नयत्यासौ स स्थायी लवणाकर: ॥

तत्र रति: विभावादिभि: अभिव्यक्ता शृङ्गारो भवति, हास्यो हास्य:, शोक: करुण:, क्रोधो रौद्र:, उत्साहो वीर:, भयं भयानक:, जुगुप्सा बीभत्स:, विस्मयश्च अद्भुत इति शृङ्गारादय: अष्ठौ रसा: । ननु एतावन्त एव यदि रसा: तर्हि नव रसा इति कथं प्रवाद:? उच्यते, अष्ठौ रसा इति तु विकृतिरसाभिप्रायेण । प्रकृतिभूतस्तु रस: कश्चिद्वर्तते । स च शान्त: । तस्यापि उपसंख्यानेन कथने तु नव रसा इत्येव न्याय्यम् । रसेषु हि प्रकृतिविकृतिभावो महर्षिणोऽपि सम्मत:, यदाह –

स्वं स्वं निमित्तमासाद्य शान्ताद्भाव: प्रवर्तते ।
पुनर्निमित्तापाये शान्ते एवोपलीयते ॥

प्रकृतिविकृतिभावश्च तन्तुपटयोरिव मृद्घटयोरिव च न सांख्यैरङ्गीकृत: किन्तु प्रसन्नक्षुभितसरोवरयोरिव लौकिक: । लोके हि प्रसन्ने सरोवरे 'प्रकृतिरियम्’ इति बुद्धिर्जायते । तदेव शिलापातनादिना यदि क्षुभितं क्रियते तर्हि 'विकृतिरियम्’ इति बुद्धि: । एवं चित्तं यदा प्रसन्नम् अर्थात् निर्विकारं भवति तदा शान्तो रस: । यदा तु विकारयुक्तं तदा शृङ्गारादिकं रसान्तरम् । तत्र काव्यदृष्ट्या यदा शृङ्गारादि: तदा शास्त्रदृष्ट्या धर्मार्थकामा: त्रय: पुरुषार्था: । यदा तु काव्यदृष्ट्या शान्त: तदा शास्त्रदृष्ट्या तु मोक्ष: । एतेन विषयाभिमुख्ये सति धर्मादय: त्रय: पुरुषार्था भवन्ति शृङ्गारादयश्च रसा: । यदा तु विषयवैमुख्यं तदा मोक्ष: पुरुषार्थ: शान्तश्च रस इत्युक्तं भवति ।

भरतेन यदुक्तम् - विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिरिति तत् रससूत्रमित्युच्यते । अत्र संयोगशब्दस्य निष्पत्तिशब्दस्य अथेर् महती विप्रतिपत्ति: अवलोक्यते । अत एवास्य बहुधा व्याख्यानानि सम्पन्नानि । तत्र भट्टलोल्लटादीनाम् उत्पत्तिवाद:, भट्टशङ्कुकस्य अनुमितिवाद:, भट्टनायकस्य भुक्तिवाद:, अभिनवगुप्तादीनां तु व्यक्तिवादश्चेत्येते चत्वारो वादा: प्रथिता: सन्ति । जगन्नाथेन स्वकीये रसगङ्गाधरे नवीनास्तु इति प्रतीकमादय अन्यदेकमपि मतं विचारितम् । तस्य परिशीलने भ्रान्तिवाद इति शब्देन तस्य व्यपदेश: स्वारसिको भवति । तस्यापि उपसंख़्याने रसे विषये समवायेन पञ्च वादा भवन्ति । श्रोतॄणां सौकर्याय ते क्रमेणात्र संक्षेपेण निरूप्यन्ते –

भट्टलोल्लटादीनाम् आरोपवाद:[सम्पादयतु]

अयं मीमासंकमतानुयायी । एष: 'सोऽयमिषोरिव दीर्घदीर्घतरोऽभिधाव्यापार:’ इति वदन् अभिधातिरिक्तं व्यापारं नाङ्गीकरोति । तन्मतेन सूत्रस्यायमर्थ: –

विभावै: - ललनोद्यानप्रभृतिभि: आलम्बनोद्दीपनकारणै:, स्थायी रत्यादिको भावो जनित:, अनुभावै: – कटाकाषविक्षेपादिभि: कार्यै: प्रतीतियोग्य: कृत:, व्यभिचारिभिश्च – निवेर्दादिभि: सहकारिभि: उपचित:, मुख्यया वृत्त्या रामादौ अनुकायेर् वर्तमान:, तद्रूपतानुसन्धानात् नर्तकेऽपि प्रतीयमानो रत्यादि: स्थायी रस: ॥ एतन्मतेन संयोगशब्दस्य सम्बन्ध इत्यर्थ: । स च विभावस्य रत्यादिरूपेण रसेन जन्यजनकभाव:, अनुभावेन ज्ञाप्यज्ञापकभाव:, व्यभिचारिणा तु पोष्यपोषकभाव इति विशेष: । निष्पत्तिरित्यस्य उपचय: इत्यर्थ: । स च विभावादिपक्षे क्रमेण उत्पत्ति: ज्ञप्ति: पुष्ठिश्च । मतेनास्य रसो वस्तुतो रामादौ वर्तते । स च यद्यपि सम्प्रति न साक्षात् कर्तुं न शक्यते तथापि रामाद्यनुकारिणि नटे तस्यारोप: सम्भवतीति साक्षात्कारस्तस्य सुलभ: । एवं रत्यादेरारोपादेव चमत्कार: सहृदयानाम् । अत एव च काव्ये तेषां प्रवृत्तिरिति बोध्यम् ।

शङ्कुकस्य अनुमितिवाद:[सम्पादयतु]

अयं नैयायिकमतानुयायी । व्यञ्जनाम् अनङ्गीकुर्वन्नयम् अनुमानेनैव रसप्रतीतिमुपपादयति । तन्मतेन सूत्रस्यायमर्थ: – 'राम एवायम्’ 'अयमेव राम:’ इति सम्यक् प्रतीति:, न रामोऽयम् इति औत्तरकालिके बाधे 'रामोऽयम्’ इति मिथ्याप्रतीति:, 'राम: स्यान्न वा अयम्’ इति संशयप्रतीति:, 'रामसदृशोऽयम्’ इति सादृश्यप्रतीतिश्चेति यावत्य: प्रतीतयो वर्तन्ते वर्तते ताभ्य: सर्वाभ्योऽपि विलक्षणा काचित् प्रतीति: चित्रतुरगन्यायेन सहृदये सम्भवति । तया विलक्षणया प्रतीत्या 'रामोऽयम्’ इति विषयीकृते नटे पक्षे, विभावादिभि: – नटेन प्रकाशितै: कारणकार्यसहकारिभि: कृत्त्रिमैरपि अकृत्त्रिमतया गृहीतै: अत एव विभावादिशब्दव्यपदेश्यै:, संयोगात् – गम्यगमकभावसम्बन्धात्, अनुमीयमानोऽपि वस्तुसौन्दर्यबलात् आस्वाद्यमान:, अत एव अनुमेयवह्न्यादिपदार्थान्तरात् विलक्षणो यो रत्यादि: स रस: । यद्यप्ययं रत्यादि: नटे नास्ति तथापि रामत्वेन गृहीते तस्मिन् अनुमितो भवति, स्ववासनाबलाच्च आस्वाद्यमानो भवतीति विशेष: ।

अस्य मतेन संयोगशब्दस्य अनुमाप्यानुमापकभाव: सम्बन्ध इत्यर्थ:, निष्पत्तिशब्दस्य च अनुमिति: । विभावाद्यर्थत्रयस्य व्यञ्जकत्वादिकम् अन्यैरुच्यते अस्य तु मतेन हेतुत्वमिति विशेष: । ततश्च पुरोवर्ती विलक्षणप्रतीतिविषयोऽयं राम: सीताविषयकरतिमान्, तद्विषयककटाक्षविक्षेपादिमत्त्वात् इत्याकारा अनुमितिर्भवति सहृदयस्य । तथा प्रतीतस्य रत्यादे: पुन: पुन: अनुसन्धानादेव चमत्कार: ।

भट्टनायकस्य भुक्तिवाद:[सम्पादयतु]

अयं सांख्यमतानुयायी । अस्य मतेन रसे विषये भावकत्वं भोजकत्वं चेति व्यापारद्वयमधिकम् । भोजकत्वस्यैव भोगकृत्त्वमिति नामान्तरम् । तस्यायमाशय: -

काव्ये ये शकुन्तलादय: शब्दा: प्रयुज्यन्ते तै: प्रथमम् अभिधाव्यापारेण शकुन्तलात्वादिविशिष्ठतया शक्ुन्तलादयोऽर्था उपस्थाप्यन्ते । उपस्थापिताश्च तेऽर्था: यद्यपि दुष्यन्तादिमात्रसम्बन्धित्वात् असाधारणा: तथापि द्वितीयेन भावकत्वव्यापारेण ते सवेर्ऽप्यर्था: स्त्रीत्वादिसाधारणधर्मविशिष्ठतया पुन: प्रतीयन्ते । एवं शकुन्तलादिषु सवेर्ष्वपि अथेर्षु साधारणीभूतेषु सत्सु, य: शकुन्तलादि: पूर्वं सहृदयनिष्ठरत्यादिं प्रति अनालम्बनमासीत् सम्प्रति स एव शकुन्तलादि: तमेव सहृदयनिष्ठरत्यादिं प्रति आलम्बनं सम्पद्यते । तदनु तृतीयेन भोजकत्वव्यापारेण तादृश: कश्चित् भोग: सम्भवति यस्मिन् विषयीभूतो रत्यादि: रस इत्युच्यते । भोगश्च सत्त्वगुणस्य उद्रेके सति स्फुटीभवन् य आनन्द: तद्विशिष्ठा या बुद्धि: तद्विश्रान्तिरूप: । अयं तावत् सूत्रार्थ: – विभावानुभावव्यभिचारिणाम् - तदाख्यानामर्थानां संयोगात् - भावकत्वव्यापारेण साधारणतया भावनात् रसस्य - सहृदयनिष्ठस्य रत्यादे: निष्पत्ति: - भोगे विषयीकृति: ॥ सांख्यानां मतेन प्रकृति: सत्त्वादिगुणशालिनी तद्विकारभूताश्च बुद्ध्यादय: । ततश्च विभावादीनामर्थानां साधारणतया ज्ञाने सति सत्त्वगुणस्योद्रेको भवति, तेन तदात्मिकबुद्धे: वेद्यान्तरस्पर्शशून्यत्वरूपा विश्रान्तिरपि भवति । अयमेव भोग: । अस्मिन् विषयीभूतो रत्यादि: स्थायी भावो रस इत्यभिप्राय: । मतेनास्य संयोगात् इत्यस्य भावनमित्यर्थ:, निष्पत्तिरित्यस्य च भोगाख्यानुभवस्य विषयीभवनम् । सांख्यानां मतेन विषयाभिमुख्ये सति पुरुषेण प्रकृते: तद्विकारभूतस्य सर्वस्यापि पदार्थजातस्य भोग: वैमुख्ये तु मुक्ति: इत्यङ्गीक्रियते । एवं च तन्मतेन पुरुषो भोजक:, प्रकृति: भोग्या, तेन हि तस्या भोग: इत्येषा त्रिपुटी सम्भवति । तादृशो भोग इह वर्तते इति अयं सांख्यमतानुयायित्वेन निश्चीयते ।

नवीनानां भ्रान्तिवाद:[सम्पादयतु]

मतमेतत् रसङ्गाधरे निरूपितम् । नवीनशब्देन केषां ग्रहणमिति न ज्ञायते, मतस्यास्य ग्रन्थान्तरे एतावन्तं कालम् अदर्शनात् । अयमभिप्राय: – शकुन्तलादे: आलम्बनविभावस्य, चन्द्रिकादेरुद्दीपनविभावस्य, स्तम्भरोमाञ्चादे: अनुभावस्य, लज्जादेश्च व्यभिचारिण: संयोगात् भावनाख्यरूपदोषविशेषात् आनुकार्याभिन्नतया निर्णीते स्वस्मिन् सहृदयस्य प्रतीतो रत्यादि: स्थायी भावो रस: ॥ ननु तत्र शकुन्तलादि: दुष्यन्तादिं प्रत्येव आलम्बनम् न सहृदयस्येति स्थिते कथं तस्य तदालम्बनको रत्यादि: सम्भवति? – उच्यते, यदा सहृदय: काव्यमभिनीयमानं पश्यति गीयमानं वा श्रृणोति तदा स आत्मानं दुष्यन्तत्वेन अवगच्छति भावनारूपदोषवशात् । यद्यपि भावनाया: काव्यार्थानुसन्धारूपाया लोके गुणत्वेन परिगणिताया अयथार्थप्रतीतिजनकत्वात् दोषत्वेन स्वीकार:, यथा - लोके गुणत्वेन परिगणितस्यापि चाकचिक्यस्य रजतज्ञानजनकत्वात् दोषत्वेन स्वीकार: । तदेवं दुष्यन्ताभिन्नत्वेन आत्मनोऽवगमने सति दुष्यन्तस्य यदालम्बनं तदस्यापि आलम्बनं सम्पद्यते इति सहृदयस्य शकुन्तलाद्यालम्बनकस्य रत्यादे: निर्विघ्नं सिद्धि: ।

न चैवं सति हरिश्चन्द्रचरितप्रधाने काव्ये सहृदयेन आत्मनो हरिश्चन्द्रत्वेन अवगमनात् तस्येव सहृदयस्यापि शोक एव जायेत । तेन दु:खजनकत्वात् तादृशे काव्ये सहृदयस्य प्रवृत्तिरपि न स्यादिति चेत् – सत्यम्, अत्रोच्यते, सत्यस्यैव हि शोकादे: दु:खजनकत्वम् न तु भ्रान्त्या गृहीतस्येति । यद्येवम्, शृङ्गारादिप्रधानेऽपि काव्ये आत्मनो दुष्यन्तादित्वेन ग्रहणात् रत्यादे: सुखजनकत्वं न स्यात्? – तत्रेदमुत्तरम्, करुणाादिप्रधाने काव्ये यदि सुखमेव सहृदयस्य अनुभवसिद्धं तर्हि व्यञ्जनाव्यापारस्य शोकजन्यं दु:खं प्रति प्रतिबन्धकत्वमपि अङ्गीक्रियते । अथ सुखमिव दु:खमप्यनुभवसिद्धम् तर्हि शोकात् दु:खम् व्यञ्जनाव्यापाराच्च सुखमिति सर्वमपि उपपन्नं भवति । न च दु:खस्याप्यनुभवात् सहृदयस्य तत्राप्रवृत्ति: स्यादिति वाच्यम्, सुखस्य आधिक्यात् प्रवृत्ते: सम्भवात् । न चास्मिन् मते भावनाया दोषत्वमिति यत् निर्णीतं तदसह्यमिति मन्तव्यम्, परमतेऽपि अविद्यमानस्य साधारणीकरणस्य तज्जन्यत्वेन अङ्गीकारात् । नहि समेषां पदार्थानां साधारणत्वकल्पनात् केनचिदेकेन अभेदस्य कल्पनं गौरवाय भवति । तस्मात् भ्रान्त्या तदभेदस्यैव कल्पनं कृतमिति ।

अभिनवगुप्तादीनां व्यक्तिवाद:[सम्पादयतु]

काव्ये कारणकार्यसहकारिरूपा येऽर्था: प्रतिपाद्यन्ते क्रमेण तेषां विभावादिशब्देन व्यपदेश: । एतेषामर्थानां सहृदयनिष्ठभावनाबलेन साधारणतया प्रतीति: भवति । साधारणतया प्रतीतिर्नाम स्वमात्रसम्बन्धित्वेन परमात्रसम्बन्धित्वेन प्रतीत्यभाव: यद्वा स्वसम्बन्धित्वेन परसम्बन्धित्वेन च प्रतीति:, तदुक्तं दर्पणकारेण –

परस्य न परस्येति मएति न ममेति च ।
तदास्वादे विभावादे: परिच्छेदो न विद्यते ॥

तथा प्रतीतैरर्थै: सहृदयस्य चित्ते वासनारूपेण स्थित: रत्यादि: अभिव्यक्तो भवति । सोऽयमभिव्यक्त: सहृदयस्य चित्ते वासनारूपेण स्थितो यो रत्यादि: स एव रस: । न च शकुन्तलादि: सहृदयनिष्ठरत्यादिं प्रति कथमालम्बनं भवतीति वाच्यम्, शकुन्तलात्वेन अनालम्बनत्वेऽपि स्त्रीत्वेन आलम्बनत्वे बाधकाभावात् । एतादृशो रस: न कार्य:, विभावादिनाशेऽपि तत्सम्भवप्रसङ्गात् । कार्यो हि पदार्थ: कारणनाशेऽपि तिष्ठति । नह्ययं तथा, विभावादिनाशे तत्प्रतीत्यभावात् । नापि ज्ञाप्य:, सिद्धस्य तस्याभावात् । सिद्ध एव हि कश्चित् पदार्थो दीपादिना पदार्थान्तरेण ज्ञाप्यो भवितुं शक्नोति । तदेवं कार्यत्वज्ञाप्यत्वयोरभावात् पदार्थोऽयं विलक्षण इति मन्तव्यम् ।

यद्येवं सूत्रे निष्पत्ति: इत्येतत् कथं युज्यते? – रत्यादिविषयिका या चर्वणा तस्या निष्पत्तौ तद्रूपस्य रसस्यापि निष्पत्ति: इत्यभ्युपगमात् । तत्र व्याघ्रादय: भयानकस्येव वीरादेरपि विभावा भवन्तीति नियतस्य कस्यचिद्रसस्य निष्पत्ति: न स्यादिति विभावादीनां त्रयाणामप्यर्थानां सूत्रे ग्रहणमिति ।

मतेनास्य सूत्रास्यायमर्थ: – शकुन्तलादीनाम् आलम्बनविभावानाम्, चन्द्रिकादीनाम् उद्दीपनविभावानाम्, कटाखविक्षेपादीनाम् अनुभावानाम्, लज्जदीनां च व्यभिचारिणां संयोगात् समावेशात् सहृदयस्य चित्ते संस्काररूपेण स्थितस्य रसस्य रत्यादिरूपस्य निष्पत्ति: अभिव्यक्ति: ।

तदेवं रसे विषये ये पञ्च वादा: प्रसिद्धा: तेषां समासेनात्र निरूपणं विहितमिति दिक् ॥

"http://sa.wikipedia.org/w/index.php?title=रसः&oldid=262574" इत्यस्माद् पुनः प्राप्तिः