विज्ञानम्
विशिष्टं ज्ञानम् एव विज्ञानम् । मानवेन अवगन्तुं शक्यं विश्वसम्बद्धं ज्ञानं विज्ञानम् इति वक्तुं शक्यते । तत् ज्ञानं मानवेन इन्द्रियाणां द्वारा ज्ञातुं शक्यं स्यात् । तत् तर्कबद्धं स्यात्, परिशोधनस्य विधेयं स्यात् अपि । तस्य ज्ञानस्य सम्पादनस्य विधिः एव वैज्ञानिकः विधिः इति उच्यते । इदं विज्ञानम् प्रयोगसम्बद्धं शास्त्रम् अस्ति ।
अन्तर्विषयाः |
विज्ञानस्य विविधाः विभागाः[सम्पादयतु]
विज्ञानं स्थूलतया द्विधा विभज्यते । प्राकृतिकविज्ञानं समाजविज्ञानं च इति । प्राकृतिकं विज्ञानं नाम प्रकृतेः तथा तदन्तर्गतानां प्रक्रियाणाम् अध्ययनम् । समाजविज्ञानं नाम मानवसमाजस्य तथा तस्य व्यवहारस्य च अध्ययनम् । गणितं यद्यपि विज्ञानम् इति उच्यते तथापि तत्र वैज्ञानिकः विधिः सम्पूर्णतया न उपयुज्यते इति कारणेन तत् विज्ञानस्य तृतीये गणे अन्तर्भवति । विज्ञानस्य तृतीयः विभागः अस्ति क्रियात्मकं विज्ञानम् इति उच्यते । तदनन्तरम् अवशिष्टाः विभागाः सर्वे सम्बद्धानि शास्त्राणि इति यः विभागः अस्ति तत्र योजिताः सन्ति ।
प्राकृतिकं विज्ञानम्[सम्पादयतु]
प्राकृतिकं विज्ञानं नाम प्रकृतेः तथा तदन्तर्गतानां प्रक्रियाणाम् अध्ययनम् । इदं प्राक्रुतिकं विज्ञानं प्रमुखतया पञ्चधा विभज्यते –
- १. खगोलविज्ञानम्
- २. जीवविज्ञानम्
- ३. रसायनविज्ञानम्
- ४. भूविज्ञानम्
- ५. भौतविज्ञानम् इति ।
समाजविज्ञानम्[सम्पादयतु]
समाजविज्ञानं नाम मानवसमाजस्य तथा तस्य व्यवहारस्य च अध्ययनम् । इदं समाजविज्ञानम् अपि प्रमुखतया द्विधा विभज्यते –
- १. सामाजिकं विज्ञानम्
- २. व्यावहारिकं विज्ञानम् इति ।
क्रियात्मकं विज्ञानम्[सम्पादयतु]
इदं क्रियात्मकं विज्ञानम् अपि द्विधा विभज्यते –
- १. शासनविज्ञानम्
- २. आरोग्यविज्ञानम् इति च ।
सम्बद्धानि शास्त्राणि[सम्पादयतु]
उपर्युक्तान् विभागान् विहाय अन्ये अपि केचन विभागाः सन्ति । ते सर्वे अस्मिन् सम्बद्धानि शास्त्राणि इत्यत्र योज्यन्ते । इदं सम्बद्धशास्त्रम् अपि द्विधा विभज्यते -
- १. विज्ञानेतिहासः
- २. अन्तर्विभागीयक्षेत्राणि च इति ।