शाकानि
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
वयम् अस्माकं जीवने प्रतिदिनं कस्यचित् एकस्य वा शाकस्य उपयोगं कुर्मः एव । वस्तुतः तानि शाकानि त्रिविधानि भवन्ति । तानि च -
- शाकानि (यानि भूमेः उपरि वर्धन्ते सस्यानां फलत्वेन)
- कन्दमूलानि (यानि भूमेः अधः वर्धन्ते सस्यानां फलत्वेन मूलत्वेन वा) (सस्यानां मूलत्वेन यत् वर्धते तत् मूलम् इति, फलत्वेन यत् वर्धते तत् कन्दः इति च उच्यते)
- हरितकानि (यानि भूमेः उपरि वर्धन्ते, शाकत्वेन च उपयुज्यन्ते तानि सस्यानि)
एतैः शाकैः क्वथितं, व्यञ्जनं, भर्ज्यम्, उपसेचनं, ताक्रम्, तेमनं, दाधिकम् इत्यादिकं निर्मीयते ।
| कारवेल्लम् | शिघ्रुः | कूष्माण्डम् | कोशातकी | वार्तकी | वृन्ताकः | भेण्डा | बिम्बफलम् | पुष्पशाकम्
पर्णशाकम् | निष्पावप्रभेदः (बीन्स्) | उर्वारुकम् | महामरीचिका | कदलीकाण्डम् | पटोलः | आम्रातकम् अलाबु | निम्बूकम् | आमलकम् | मधुरकूष्माण्डम् | गोराणी | कदलीकुसुमम् | वर्तुलकम् | छत्राकम् | राजमाषशाकम् | पालङ्कः विदारी (नेलगुम्बळ) | जालकम् (होम्बाळे) |