शाकानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शाकानि

वयम् अस्माकं जीवने प्रतिदिनं कस्यचित् एकस्य वा शाकस्य उपयोगं कुर्मः एव । वस्तुतः तानि शाकानि त्रिविधानि भवन्ति । तानि च -

शाकानि (यानि भूमेः उपरि वर्धन्ते सस्यानां फलत्वेन)
कन्दमूलानि (यानि भूमेः अधः वर्धन्ते सस्यानां फलत्वेन मूलत्वेन वा) (सस्यानां मूलत्वेन यत् वर्धते तत् मूलम् इति, फलत्वेन यत् वर्धते तत् कन्दः इति च उच्यते)
हरितकानि (यानि भूमेः उपरि वर्धन्ते, शाकत्वेन च उपयुज्यन्ते तानि सस्यानि)

एतैः शाकैः क्वथितं, व्यञ्जनं, भर्ज्यम्, उपसेचनं, ताक्रम्, तेमनं, दाधिकम् इत्यादिकं निर्मीयते ।

"https://sa.wikipedia.org/w/index.php?title=शाकानि&oldid=366804" इत्यस्माद् प्रतिप्राप्तम्