दाधिकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


दध्ना निर्मितं दाधिकम् इति उच्यते । एतत् दाधिकं सामान्यतया पत्रैः निर्मीयते । अतः एतत् दाधिकम् अपि सस्यजन्यः आहारपदार्थः । पत्राणि विहाय कतिपय शाकेभ्यः अपि दाधिकं निर्मातुं शक्यते । दक्षिणभारते तु इदं दाधिकम् अत्यन्तं जनप्रियम् अस्ति । एतत् दाधिकम् अन्नेन सह क्वथितम् इव अपि सेव्यते । पोतकी, वास्तुकम्, आलुकं, गृञ्जनकं, पालङ्कः, उर्वारुकम् इत्यादीनि दाधिकार्थम् उपयुज्यन्ते ।

दाधिकस्य निर्माणम्[सम्पादयतु]

अस्य दाधिकस्य निर्माणम् अपि अत्यन्तं सुलभम् । शाकं सम्यक् प्रक्षाल्य पक्वं करणीयम् । नारिकेलं पेषयित्वा दध्नि योजनीयम् । तदनन्तरं तत्र लवणं पक्वं शाकं चापि योजनीयम् । अपेक्षिता चेत् किञ्चित् प्रमाणेन शर्कराम् अपि योजयितुं शक्यते । अन्ते जीरिका-सर्षप-हरिन्मरीचिकायुक्तं व्याघरणं करणीयम् ।

"https://sa.wikipedia.org/w/index.php?title=दाधिकम्&oldid=371487" इत्यस्माद् प्रतिप्राप्तम्