जीरकम्
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
इयं जीरिका अपि भारते वर्धमानः कश्चन धान्यविशेषः । जीरिका अपि सस्यजन्यः आहारपदार्थः । एषा जीरिका आङ्ग्लभाषायां Jeera अथवा Cumin इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Cuminum इति । भारते तु एषा जीरिका सर्वेषां गृहस्य पाकशालायां भवति एव । एषा जीरिका त्रिविधा भवति । जीरिका, कृष्णजीरिका, कालाजाजी च इति । एषा जीरिका यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।
आयुर्वेदस्य अनुसारम् अस्याः जीरिकायाः स्वभावः [सम्पादयतु]
इयं जीरिका कटुरसप्रधाना । एषा रूक्षा, पचनार्थं लघु च । एषा उष्णवीर्या अपि ।
- “जीरकं कटु रूक्षं वातहृद्दीपनं परम् ।
- गुल्माध्मानातिसारघ्नं ग्रहणी क्रिमिहृत् परम् ॥“ (धन्वन्तरिकोषः)
- १. इयं जीरिका वातं कफं च निवारयति ।
- २. जीरिका गर्भाशयं स्वच्छीकरोति ।
- ३. जीरिका अग्निदीपिका, मेध्या, सङ्ग्राही च ।
- ४. जीरिका गुल्मरोगम्, अतिसारम्, अध्मानं, ग्रहणीं, क्रिमिरोगं च निवारयति ।
- ५. जीरिका पित्तं वर्धयति । अतः पित्तप्रकृतियुक्ताः, पित्तजन्यैः रोगैः पीड्यमानाः च अधिकतया अस्याः उपयोगं न कुर्युः ।
- ६. जीरिका उत्तमा पाचिका, रुचिकरी च ।
- ७. जीरिका बलं वर्धयति, वृष्या, चक्षुष्या च ।
- ८. जीरिका ज्वरघ्नी, छदिकम् अपसारयति ।
- ९. ज्वरावसरे जीरिकां गुडेन सह खादन्ति चेत् पाचनं सम्यक् भवति, बुभुक्षा वर्धते, दाहः निवार्यते, मलविसर्जनं च भवति ।
- १०. अतिसारे जीरिका दध्ना सह सेवनीया ।
- ११. गर्भावस्थायां जायमानायां वमनशङ्कायां, वमने वा निम्बूकस्य रसेन सह जीरिका सेवनीया ।
- १२. प्रसवानन्तरं क्षीरस्य वर्धनार्थं गुडेन सह जीरिका दातव्या ।
- १३. जीरिकायाः लेपम् आर्शिस्, स्तनशोथे, वेदनायां च लेपयितुं शक्यते ।
- १४. कण्डूयने जीरिकाकषायेन स्नातव्यम् ।
- १५. बभुक्षायाः वर्धनार्थं, वेदनायां, क्रिमिरोगे, वमने, अरुचौ च जीरिकां भर्जयित्वा मधुना सह दातव्यम् ।
- १६. प्रसवानन्तरं गर्भाशयस्य शोधनार्थं जीरिका दीयते ।
- १७. जीरिका अत्यन्तं बलकरी । दुर्बलेभ्यः दातुं योग्या ।
- १८. जीरिकायाः चूर्णं ३-६ ग्रां यावत् दातुं शक्यते ।
- १९. जीरिकां गुडं च योजयित्वा सेवनेन विषमज्वरः, वातरोगः, अग्निमाद्यं च निवार्यते ।
- २०. वृश्चिकादंशने जीरिकया सह सैन्धवलवणं योजयित्वा लेपयन्ति ।