गृञ्जनकम्
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
एतत् गृञ्जनकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् गृञ्जनकम् आङ्ग्लभाषायां Carrot इति उच्यते । एतत् गृञ्जनकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, रोटिका, कोषम्भरी, पायसं, मधुरं (हल्वानामकं), दाधिकम् इत्यादिकं निर्मीयते । एतत् गृञ्जनकम् अपि बहुविधं भवति ।