सर्षपः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गौरसर्षपः
सर्षपसस्यम्

अयं सर्षपः अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयं सर्षपः सस्यजन्यः आहारपदार्थः । सर्षपः आङ्ग्लभाषायां Brassica इति उच्यते । अयं सर्षपः वर्णस्य अनुगुणं त्रिधा विभक्तः भवति । गौरः सर्षपः, कृष्णः सर्षपः, रक्तः सर्षपः च इति । अत्र गौरः सर्षपः सिद्धार्थः (Brassicea Compostris) इति, कृष्णः सर्षपः राजिका (Brassiea Rigra) इति, रक्तः सर्षपः “सर्षपः (Brassica) इति च उच्यते । सामान्यतया कृष्णः रक्तः च सर्षपः आहारत्वेन उपयुज्यते । अत्र गौरवर्णस्य सर्षपस्य भूतनाशनः, कटुस्नेहः, ग्रहघ्नः, कटुकः , राजकाफलं, सिद्धार्थः इत्यादीनि अन्यानि नामानि सन्ति । कृष्णस्य सषपस्य राजक्षवकः, राजिका, क्षुताभिजनकः, राजसर्षपः इत्यादीनि अन्यानि नामानि च सन्ति । अयं सर्षपः यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

गन्धद्रव्यपात्रे सर्षपः

आयुर्वेदस्य अनुसारम् अस्य सर्षपस्य स्वभावः[सम्पादयतु]

सर्षपपुष्पम्

अयं सर्षपः अत्यन्तम् उष्णः । सर्षपः तिक्तः कटुः च ।

“गौरसर्षपकोऽत्युष्णो रक्षोघ्नः कफवातजित् ।
कृम्यामकण्डुकुष्ठघ्नः श्रुतिशीर्षानिलार्तिजित् ॥
तद्वद्रक्तस्तु सिद्धार्थसिक्तः स्निग्धोष्णकः कटुः ॥“ (धन्वन्तरिकोषे करवीरादिवर्गः)
१. अयं सर्षपः कफं वातं च निवारयति ।
२. सर्षपः उदरस्य कीटबाधां, ग्रहबाधां च निवारयति ।
३. सर्षपः रक्तस्रावं, पित्तं च वर्धयति । अतः पित्तप्रधानैः रोगैः पीडिताः अधिकतया न सेवेरन् ।
४. गौरः सर्षपः रक्तसर्षपस्य अपेक्षया उत्तमः ।
५. सर्षपः त्वक्सम्बद्धान् दोषान् शमयति ।
६. सर्षपः रुचिं वर्धयति, व्रणं शुष्कीकरोति च ।
७. सर्षपः विषबाधां, भूतबाधां च निवारयति ।
८. सर्षपः कर्णसम्बद्धेषु रोगेषु, शिरसः सम्बद्धेषु रोगेषु च उत्तमम् औषधम् ।
९. सर्षपः उष्णवीर्यः, रक्तोघ्नः च ।
१०. अयं सर्षपः कण्डूरोगं, कुष्ठरोगं च निवारयति ।
११. सर्षपः मानसिकरोगे, अग्निमान्द्ये चापि उपयुज्यते ।
१२. अस्य सर्षपस्य तैलम् अभ्यङ्गावसरे अपि उपयुज्यते ।
१३. सर्षपः स्नेहनः अस्ति । अयं वर्णम् उत्तमं करोति ।
१४. सर्षपः चर्मरोगे अपि उपयोक्तं शक्यते ।
१५. सर्षपस्य तैलं प्लीहरोगे उत्तमम् औषधम् इति काश्यपसंहितायाम् उक्तम् अस्ति ।
१६. सुश्रुतः सर्षपस्य तैलम् “अचक्षुष्यम्” इति उक्तवान् अस्ति ।
१७. सर्षपं सैन्धवलवणेन सह योजयित्वा वमनं कारयितुम् उपयोगं कुर्वन्ति ।
१८. सर्षपं शीतलजलेन सह पेषणं कृत्वा कृशस्य वस्त्रस्य उपरि प्रसारयन्ति । तत् वस्त्रं वातरोगे, लक्वे, सन्धिवाते, वेदनायां, कण्डूयने च शरीरस्य उपरि यत्र वेदना भवति तत्र स्थापयन्ति । १० निमेषानन्तरं वस्त्रं निष्कासयन्ति । यदि ज्वलनम् आरप्स्यते तर्हि पूर्वमेव निष्कासयन्ति ।
१९. अस्य सर्षपस्य बीजस्य चूर्णं १-३ ग्रां पर्यन्तं दातुं शक्यते ।
"http://sa.wikipedia.org/w/index.php?title=सर्षपः&oldid=270370" इत्यस्माद् पुनः प्राप्तिः