पृथ्वी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
पृथ्वी
{{{मुद्रा}}}
Rotating earth (large).gif
उपनाम
अपरं नाम भूमिः
विशेषणम् भूवासिनः
कक्षीयलक्षणानि
सूर्योच्यम् १५२,०९७,७०१ कि.मी
अपसौरिका १४७,०९८,०७४ कि.मी
अर्धमुख्य अक्ष १४९,५९७,८८७.५ कि.मी
विकेन्द्रता ०.०१६७१०२१९
परिक्रमणकालः ३६५.२५६३६६ देनानि
परिक्रमणगतिः १०७,२१८ कि.मी/हौ
उपग्रहः १ (चन्द्रमा:)
भौतिक लक्षणानि
मध्यत्रिज्यः ६,३७१.० कि.मी
ध्रुवीयत्रिज्या ६,३५६.८ कि.मी
सपाटता ०.००३३५२८
परिधिः ४०,०७५.०२ कि.मी
आयतनम् १.०८३२०७३×१० १२
द्राव्यमानम् ५.९७३६×१०२४ केजी
मध्यमघनित्वम् ५.५१५३ ग्रा/घन सेंमी
गुरुत्वाकर्षणम् ९.७८०३२७ मी/वर्ग क्षण:
पलायनगतिः ४०,२७० कि.मी/हौ
प्रदक्षिणकालः ०.९९७२५८ देनम्
प्रदक्षिणगतिः ४६५.११ मी/क्षण:
तापमानम् १८४-३३१ किलो
वायुमण्डलम्
दबः {{{दबः}}}
वयुसंघटनम् {{{वयुसंघटनम्}}}

पृथ्वी सूर्यमण्डले तृतीयः ग्रहः अस्ति । ग्रहाणां गुरुत्वानुगुणं पञ्चमस्थाने भवति । एषा कदाचित् लोक:, वैज्ञानिकभाषायां Earth वा अपि भाष्यते। पृथिवी ४।५४ कोटिवर्षेभ्य: प्राक् जनिमलभत। जैवविविधता एतस्या: ख्याति:। पृथिव्या: पर्यावरणं कालश: तस्या: वातावरणं विध: कृतं तेन च जीवसृष्टि: निर्मिता। पृथिव्या: उपरि एका ओझोन (Ozone layer) नाम्ना पट्टिका अस्ति।

पृथिव्याः सः भागः भूमिः भवति यत्र वयं निवसामः, पशु-पक्षिणः,जीवजन्तवः, वृक्ष-पादपाः, वनस्पतयश्च भवन्ति । यत्र प्राकृतिक-संसाधनानां विशालभण्डारः भवति । या पृथ्व्याः ३/१० प्रतिशतं भवति सा एव भूमण्डलमिति नाम्ना विख्याता भवति । सामान्यतः वयं भूपटलमेव भूमिः इति व्यवहरामः । वस्तुतः तन्नास्ति भूमिः । भूपटलन्तु भूमण्डलस्य उपरि भागं भवति, यत्र पर्यावरणे स्थितानां जीवधारीणां दैनिक-क्रिया सम्पादिता भवति । इदं हूपटलन्तु क्रियाणमन्तिमं परिणामं प्रस्तौति । अस्माकं कृते तु भूमण्डलस्य सर्वेषां भागानामावश्यकता अस्ति । यतः वाह्य-पटले वयं दैनिकं कार्यं सम्पादयामः, अन्तः पटलात् प्राप्तेभ्यः खनिजपदार्थेभ्यः वयं जैविक-आवश्यकतानां पूर्त्तिं कुर्मः, अन्तः मण्डलात् एव अस्माकं महत्वपूर्णायाः जलीय आवश्यकतायाः पूर्तिः भ्वति ।वस्तुतः भूमण्डलम् एकं चट्टान (प्रस्तर) निर्मितं पिण्डमस्ति । यस्य बाह्य भागे मृतिक अस्ति अन्तः भागे च विविध-खनिज-पदार्थानि तरलरुपेण- ठोसरुपेण च वर्तन्ते । मृत्तिकापि मृत्तिका न भवति, अस्याः निर्माणमपि प्रस्तरखण्डेन जातमस्ति । प्रस्तरखण्डस्य चूर्णात् परं मृतिका-निर्माणाय तेषु अनेकाः भौतिक-अजैविक रासायनिक क्रियाश्छ भवन्ति । यथा प्रतिपादितं यत् चट्टानखण्डस्य चूर्णेन विभिन्न- क्रियामाध्यमेन च मृत्तिका- निर्माणं भवति अपि च चट्टानेषु विविधानां खनिजानां भण्डारः वर्तते । अतः मृत्तिकापि वर्णेषु कृष्णा, श्वेता, रक्ता, पीता, इश्रिता वा भवति । एवमेव क्षारीया, आम्लिका, मृद्वी, बालुका, उभयविधा, सामान्या च गुणेषु भवति । विभिन्नेषु कायर्षे एताषां मृत्तिकानामुपयोगः क्रियते । सूर्यः तथा तं परितः परिभ्रमन्तः अष्टौ ग्रहाः सौरव्यूहः इति नाम्ना अभिधीयन्ते । एतेषु ग्रहेषु भूमिः सूर्यस्य समीपे स्थितः तृतीयः ग्रहः । आकारे च पञ्चमः बृहत्ग्रहः। भूमेः सूर्यस्य अन्तरं प्रायः १५२,०००,००० किलोमीटर्मितम् । भूमेः चन्द्रस्य च अन्तरं प्रायः ३,८०,००० किलोमीटर्मितम् ।

भूमेः परिमाणः[सम्पादयतु]

भूमिः सम्पूर्णतया गोलः न । अतः तस्य व्यासः विभिन्नेषु स्थानेषु भिन्नः भवति । द्वयोः ध्रुवयोः मध्ये व्यासः १२,७१४ किलोमीटर्मितः । भूमध्यरेखायाः व्यासः १२,७५६ किलोमीटर्मितः ।
भूमध्यरेखायाः समीपे भूमेः परिधिः ४०,०७५ किलोमीटर्मितः ।

भूमेः विस्तारः[सम्पादयतु]

भूमेः बहिर्भागस्य विस्तारः ५१०,०७०,०००चतुरस्रकिलोमीटर्मितः । अत्र भूमेः प्रवणीकृतकोणः दर्शितः सूर्यं परितः परिभ्रमतः भूकक्षा तथा भूमध्यरेखायाः समतलस्य मध्ये २३.५°F भूकक्षायाः समतलस्य तथा अक्षरेखायाः मध्ये ६६.५°F कोनः अस्ति ।

भूमेः अन्तर्भागः[सम्पादयतु]

एतत् भूमेः अन्तः स्थितान् स्तरान् दर्शयति । अन्तः प्रभविष्यतः भूकम्पस्य तरङ्गान् आधारीकृत्य कृतेन अध्ययनेन अत्रत्य अनेके अंशाः ज्ञाताः । (अत्र लिखिता गभीरता केवलं सम्भावितम् ।
अ) भूपटलः- (समुद्रस्य अन्तः) षट् किलोमीटरपरिमिता गभीरता ; बसाल्टैति शिलानिर्मितः ।
भूखण्डः प्रायः ३५ किलोमीटरग्रानैट् इति शिलानिर्मितः ।
आ) बहिर्पुटाः- २९०० किलोमीटर्मिता गभीरता । प्रायः पेर्डोटैट् शिलया (कृष्णवर्णीयः कठिनशिला) ड्यूनैट् तथा एकोलोजैट् (बसाल्ट्शिलायाः सान्द्ररूपम् )
इ) बहिर्भागस्य सारः- २०,००० किलोमीटर गभीरता। अत्र प्रायः द्रवरूपी अयः, द्रवीभूतः गन्धकः सिलिकान् च वर्तन्ते ।
ई) अन्तस्सारः- १३७० किलोमीटरगभीरता प्रायः घनीकृतस्य अयसः निर्मितः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

फलकम्:Earth's location

फलकम्:Physical Earth फलकम्:Nature nav

फलकम्:Spoken Wikipedia

"http://sa.wikipedia.org/w/index.php?title=पृथ्वी&oldid=270235" इत्यस्माद् पुनः प्राप्तिः