भारतम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(भारत इत्यस्मात् पुनर्निर्दिष्टम्)
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

निबन्धोऽयं भारतदेशः इति विषये लिखित: अस्ति, भारतम् इति ग्रन्थविषये महाभारतम् इत्येतत् पश्यतु।

भारतमहाराज्यम्
Republic of India
भारतम् राष्ट्रध्वजः भारतम् राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
ध्येयवाक्यम्: सत्यमेव जयते
राष्ट्रगीतम्: जन गण मन

Location of भारतम्

राजधानी नवदिल्ली
28° 34' N 77° 12' E
बृहत्तमम् नगरम् मुम्बई
देशीयता भारतीया
व्यावहारिकभाषा(ः)
प्रादेशिकभाषा(ः)
राष्ट्रीयभाषा(ः) संविधानरीत्या किमपि नास्ति
सर्वकारः गणराज्यम्
 - राष्ट्रपति: प्रतिभा पाटिल
 - उपराष्ट्रपति: हामिद अंसारी
 - लोकसभाध्यक्ष: मीरा कुमार:
 - प्रधानमंत्री डॉ. मनमोहनसिङ्ग:
 - मुख्य न्यायाधीश: के.जी.बालकृष्णन्
विधानसभा भारतीयसंसदः
 - ज्येष्ठसदनम् राज्यसभा
 - कनिष्ठसदनम् लोकसभा
स्वतन्त्रता युनैटॆड् किङ्ग्डम् तः 
 - दिनम् १५ अगस्त, १९४७ 
 - गणराज्यम् २६ जनवरी, १९५० 
विस्तीर्णम्  
 - आविस्तीर्णम् ३२,८७,५९० कि.मी2  (सप्तम)
  १२,२२,५५९ मैल्2 
 - जलम् (%) ९.५६
जनसङ्ख्या  
 - २०११स्य माकिम्  ([[विविध देशानां जनसङ्ख्या|]])
 - २०११स्य जनगणतिः १,२१०,१९३,४२२[१] (द्वितीया)
 - सान्द्रता ३२९/कि.मी2(३१वां)
८५२/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) २०११स्य माकिम्
 - आहत्य $४.४६९trillion[२] (तृतीयः)
 - प्रत्येकस्य आयः $३,७०३[२] (१२९ वां)
राष्ट्रीयः सर्वसमायः (शाब्द) २०११स्य माकिम्
 - आहत्य $१.८४३trillion[२] (दशम)
 - प्रत्येकस्य आयः $१,५२७[२] (१३३)
Gini(२००४) 36.8 (७९ वीं)
मानवसंसाधन
सूची
(२०११)
increase०.५४७ (मध्यम)(१२६ वीं)
मुद्रा भारतीयरूप्यकम् (INR) (INR)
कालमानः आइएसटी (IST) (UTC+०५:३०)
 - ग्रीष्मकालः (DST) न अनुसृयते (UTC+०५:३०)
वाहनचालनविधम् वामतः
अन्तर्जालस्य TLD .in
दूरवाणीसङ्केतः +91
भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तथा

भारतम्(Listeni[[अन्तर्राष्ट्रीय ध्वन्यात्मक लिपि चिह्न सूची|/]]ˈɪndiə[[अन्तर्राष्ट्रीय ध्वन्यात्मक लिपि चिह्न सूची|/]]), आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण- एषियामध्ये स्थितम् एकं राष्ट्रम् अस्ति । भौगोलिकविस्तीर्णे विश्वे अस्य सप्तमं स्थानमस्ति । जनसंख्यायां द्वितीयं स्थानं, अत्र सन्ति १.२ अर्बुदाधिकजनाः । विश्वे प्रसिद्धं जनतत्न्त्रयुतं राष्ट्रम् एतत् । अस्य सीमा पश्चिमे पाकीस्थानेन, ईशान्ये चैनानेपालभूतानराष्ट्रैः परिवृता, बर्माबङ्लादेशौ पूर्वदिशायां स्तः। श्रीलङ्का, मालाद्वीपः, च हिन्दुमहासागरे भारतस्य समीपे स्तः. । तथा तत्र भारतस्य अण्डमान् निकोबार्द्वीपाः।थाय्ल्याण्ड्, इण्डोनेशिया देशाभ्यां वेलिका अस्ति ।
एषः देशः प्राचीन-सिन्धु-उपत्यकायाः गृहमस्ति । बहूनां साम्राज्यानाम् एषः देशः व्यापारमार्गः आसीत् । एषः भूभागः स्वस्य सांस्कृतिकसम्पदा प्रसिद्धः अस्ति । अत्र विश्वस्य चत्वारः प्रमुखाः मताः सन्ति । ते हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः च। ते सर्वेऽपि अत्रैव उद्भूताः सन्ति। झरातुष्ट्रधर्मः, क्रैस्तधर्मः, इस्लामधर्मः च अत्र क्रिस्ताब्दस्य प्रथमशतके आगताः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति ।क्रमेण ईस्ट्इण्डियाकम्पनीद्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत्। अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् ।
भारतस्य अर्थव्यवस्था विश्वे नवमं स्थानं प्राप्ता । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति। एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः ।विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य ।सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं राष्ट्रमस्ति । संसदः सदनद्वयमस्ति ।अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।

अन्तर्विषयाः

[सम्पादयतु] व्युत्पत्तिः

भारतभूमिः पूर्वं भरखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् । इयं भूमिः त्यागभूमिः योगभूमिः । अन्ये देशाः भोगभूमयः भवन्ति । दुष्यन्तपुत्रेण भरतेन परिपालिस्याः अस्या भूमेः भारतम् इति नाम रूढिगतम् । अथावा पुरुवंशो पूर्वं भरतः इति महान् चक्रवर्ती आसीत् तेन प्रशासितस्य भूमेः इदम् नाम आगतम् । अथवा विष्णुपुराणे उक्तं यथा....

उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥

[सम्पादयतु] इतिहासः

मुख्यलेखः: भारतस्य इतिहासः

भारतस्‍य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य, नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः । ५०००वर्षेभ्यः पूर्वतनी सिन्धुखातस्य नागरिकता जगति एव अत्यन्तं पुरातनसंस्कृतिः । तदातनः इतिहासः विवादात्मकः अस्ति । इण्डो-आर्यन्-जनानाम् आगमनसिद्धान्तानुसारम् आर्यन्-जनाः क्रि. पू. २०००-१५००अवधौ मध्यएषियाभागतः आगत्य इदानीन्तनवायुव्यभारते अवसन् । स्थानीयेभ्यः द्राविडजनैः सह जातः तेषां सम्पर्कः भारतस्य शास्त्रीयसंस्कृतेः उदयस्य कारणं जातम् इति ऊह्यते।

[सम्पादयतु] भौगोलिकता

KedarRange.jpg

[सम्पादयतु] राजनीतिः

Barack Obama at Parliament of India in New Delhi addressing Joint session of both houses 2010.jpg

[सम्पादयतु] सर्वकारः

मुख्यलेखः: भारतसर्वकारः

भारतसर्वकारः, आधिकारिकरूपेण सङ्घीयशासनम् इत्युच्यते, अपि च केन्द्रीयशासनमिति ज्ञायते। इदं शासनं भारतस्य संविधानद्वारा संस्थापितमासीत्। अस्तीदं २८ राज्यानां सप्त सङ्घराज्यक्षेत्राणां च शासकाधिकरणम्, समाहत्य यानि भारतगणतन्त्रमिति उच्यन्ते। अस्य संस्थितिः नवदिल्ली (भारतस्य राजधानी) इत्यत्र अस्ति।

सर्वकारस्यास्य तु तिस्रः शाखाः: कार्यकारिणी, विधायिका न्यायपालिका च। कार्यकारिणीशाखायाः प्रमुखस्तु राष्ट्रपतिः। स तु राज्यस्य प्रमुखः वर्तते। राष्ट्रपतिः स्वकीय-शक्तीन् प्रत्यक्षतया अथवा अधीनाधिकारिणां माध्यमेन प्रयोजयति।[१] संसदः विधायिकाशाखायां तु निम्नं सदनं लोकसभानाम अपि च उच्चं सदनं राज्यसभानाम तथा च राष्ट्रपतिः वर्तन्ते। न्यायपालिकायां च सर्वोच्चन्यायालयः शीर्षस्थः, अपि च 21 उच्चन्यायालयाः, जिल्लास्तरे च नागराः, आपराधिकाः, पारिवारिकाश्च न्यायलयाः बहवः विद्यन्ते। भारतं नाम संसारे बृहत्तमं लोकतन्त्रं वर्तते।

नागरिकानां शासनार्थे मूलभूतानि नागराणि आपराधिकानि वा विधानानि संसदि एव विधिनिर्माणद्वारा स्थाप्यन्ते। कानिचित् एतादृशानि विधानानि सन्ति- सिविल् प्रोसीजर् कोड् इत्येतत्, भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता च। सङ्घीयेऽथ च राज्यीयेषु सर्वकारेषु कार्यकारिणी, विधायिका न्यायपालिका च शाखा वर्तते। ७३तमेन ७४तमेन च संविधानसंशोधनेन स्थानीयशासनार्थं पञ्चायतराज्यप्रणाली संस्थाबद्धीकृता।

National symbols[३]
Flag Tricolour
Emblem Sarnath Lion Capital
Anthem Jana Gana Mana
Song वन्दे मातरम्
Calendar Saka
Game Hockey
Flower Lotus
Fruit Mango
Tree Banyan
Bird Indian Peafowl
Land animal Royal Bengal Tiger
Aquatic animal River Dolphin
River Ganges

[सम्पादयतु] परितः विद्यमानाः देशाः

India topo big.jpg

हिमालयात् उत्तरभागे चीनादेशः वर्तते । हिमालयस्य सानुप्रदेशे नेपाल-सिक्किं -भूतानराज्यानि सन्ति । भारतस्य पूर्वभागे बाङ्ग्लादेशः बर्मादेशः, बङ्गलोपसागरे स्थितः अण्डमान् -निकोबार द्वीपसमुदायः, पश्चिमसागरे स्थितः लक्षद्वीपश्च भारतस्यैव प्रदेशः । भारतस्य वायव्यभागे पाकिस्थानदेशः अस्ति । हिमालयपर्वतश्रेण्यां तिस्त्रः पङ्क्तयः समानान्तरे सन्ति । तन्मध्ये काश्मीर-कुलुप्रभृतयः दर्यः । एताः विशालाः पुष्पफलसमृद्धाश्च । भारत बर्मादेशयोः भारत-बाङ्गलादेशयोः मध्येऽपि पर्वतपङ्क्तयः शोभन्ते । एताः हिमालयाः इव नोन्नताः । सिन्धु गङ्गानद्योः परिसरे विशालाः सन्ति । भारतस्य मध्ये आरावली -विन्ध्य -सात्पुरप्रमुखाः पर्वतश्रेण्यः सन्ति ।

महाभारतकालस्य भारतदेशस्य मानचित्रम्

[सम्पादयतु] स्वातन्त्र्यम्, गणराज्यत्वम्

सप्तचत्वारिशदधिकनवदशशततमे(१९४७) क्रिस्ताब्दे आगस्ट्मासे पञ्चदशदिनाङ्के आङ्गल्शासनात् मुक्तं भारतं स्वातस्न्त्र्यम् अलभत । जवाहरलालनेहरुम्हाभागः स्वतन्त्रभारतस्य प्रथमः प्रधानमन्त्री अभवत् । संविधानरीत्या पञ्चाशदधिकनवदशशत (१९५०) तमे क्रिस्ताब्दे जनवरिमासे षड्विंशतितमे दिनाङ्के भारतं सार्वभौमगणराज्यत्वेन उदघोषितम् । राजेन्द्रप्रसादमहोदयः अस्य गणराज्यस्य प्रथमः अध्यक्षः आसीत् । तदा भाषाणाम् आधारेण राज्यानां पुनर्विभागः कृतः ।

[सम्पादयतु] संविधानम्

भारतदेशः प्रजाप्रभुत्वात्मकः । अत्र शासनार्थ संविधानं रचितम् । जगतः सर्वेभ्यः संविधानेभ्यः भारतसंविधानं बृहद्गात्रकम् । संविधानमेव देशस्य वरिष्ठं शासनम् । संविधानरीत्या केन्द्रसर्वकारः, राज्यसर्वकाराश्च सम्भूय देशस्य शासनं कुर्वन्ति । एतदर्थं केन्दे लोकसभा, राज्यसभा च राज्येषु विधानसभा विधानपरिषच्च वर्तन्ते । राष्ट्रस्य शासनाधिकारः राष्ट्रपतौ न्यस्तः । भारतदेशस्य राजधानी देहलीनगरम् । भारतस्य राष्ट्रध्वजः त्रिवर्णाङ्कितः तत्रोर्ध्वं केसरवर्णः, मध्ये श्वेतः, अधश्च हरितः । श्वेतवर्णभागे नीलम् अशोकचक्रं राजते । सिंहशीर्षमुद्रा राष्ट्र्चिह्नम् । तत्र ‘सत्यमेव जयते’ इति ध्येयवाक्यम् उत्कीर्णम् । ‘जनगणमन’इति पद्यं राष्ट्रगीतम् । राष्ट्रप्राणी व्याघ्रः । राष्ट्रपक्षी च मयूरः ।

[सम्पादयतु] नद्यः क्षेत्राणि प्रमुखजनाश्च

भारते गङग, यमुना, सिन्धुः, नर्मदा, गोदावरी, कावेरी इत्यादयः नद्यः प्रवहन्ति । एताः सर्वाः अपि नद्यः जलेन भूमिं सिञ्चन्ति । अतः सुजला, सुफला, सस्यश्यामला च भारतभूमिः । एतस्मिन् देशे दिलीपः, दशरथः, युधिष्ठिरः इत्यादयः धर्मपरिपालकाः राजानः आसन् । अशोकादयः प्रजाहितचिन्तकाः राजानः च अभवन् । एतेषां कीर्तिः अद्यापि जगति समुल्लसति । अस्मिन् देशे ऋषयः मुनयश्च आसन् । ऋषयः मन्त्रद्रष्टारः । ते परमज्ञानं प्राप्तवन्तः । वेदेषु तत् ज्ञानं निबद्धम् । अतः अस्माकं देशः वेदभूमिः इति विख्यातः । वाल्मीकिव्यासादयश्च मुनयः इतिहासपुराणादीन् ग्रन्थान् रचितवन्तः ।

क्रि. श. १०१० तमे वर्षे चोळैः तमिलुनाडुराज्यस्य तञ्जावूरुप्रदेशे निर्मितः बृहदेश्वरदेवालयः।

भारतं पुण्यभूमिः । अत्र राम-कृष्णादयः अवतारपुरुषाः, शङ्कर-रामानुज-बसवेश्वर-मध्वादयः धर्मोपदेशकाः आचार्याः समभवन् । बुद्ध-महावीरादयः अत्रैव अहिंसातत्त्वम् उपादिशन् । राष्ट्रपिता महात्मागान्धी अहिंसामार्गेणैव स्वातन्त्र्यं प्रापयत । भारते अनेकानि पुण्यक्षेत्राणि विद्यन्ते । तेषु काशी-गोकर्णम्-उडुपि-तिरुपति -श्रृङ्गेरी प्रभृतीनि च प्रसिद्धानि ।

[सम्पादयतु] राष्ट्रगीतम्

१९११ तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं ‘जन गण मन’ गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं ‘तत्त्वबोधप्रकाशिका ‘नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण । १९१९ तमवर्षे कविः एषःबेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा ।

राष्ट्रपुष्पम्

फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः ‘जय हे जय हे’ इति ऐककण्ठयेन अगायन् । मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तदनन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । ‘रवीन्द्रनाथठागोरमहोदयः भौगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके । १९४८ तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं जवाहरलाल नेह्रू यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि ।


[सम्पादयतु] शताब्दोत्सवः

१९११ तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं ‘जन गण मन’ गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं ‘तत्त्वबोधप्रकाशिका ‘नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण । १९१९ तमवर्षे कविः एषः बेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा । फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः ‘जय हे जय हे’ इति ऐककण्ठयेन अगायन् । मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तानन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । ‘रवीन्द्रनाथठागोरमहोदयः बहुगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके । १९४८ तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं जवहरलालनेहरु यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि ।

अक्षरधाम

भारतं मतनिरपेक्षं राष्ट्रम् । अत्र अनेकानि मतानि, अनेकाश्च भाषाः सन्ति । मतभेदेन आचारभेदश्च वर्तते । तथापि वयं सर्वे भारतीयाः । अतः सौहार्देन वसामः । भारतम् अनेकभाषाणां देशः । अष्टशताधिकाः भाषाः अत्र सन्ति । तत्र संस्कृतभाषा प्राचीनतमा । सा बहुभाषाणां जननी, कासाञ्चन भाषाणां पोषयित्री च अस्ति । संस्कृतवाङ्मये विविधानिं शास्त्राणि, रम्याणि काव्यानि अपूर्वाश्च विज्ञानविषयाः सन्ति । गौतमः, जैमिनिः, पाणिनिः इत्यादयः संस्कृतकवयः प्रसिद्धाः । विज्ञानेऽपि कणादः चरकः वराहमिहिरः, आर्यभटः इत्या प्रख्याताः । पुण्यतमा, सर्वसम्पत्समृद्धा भारतभूमिः अस्माकं जन्मभूमिः । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी इत्यतः सा वन्दनीया । जयतात् भारतमाता।

भारतम् एशिया महाद्वीपे दक्षिणे एक: स्वतन्त्र: समाजवादी पन्थनिरपेक्ष:लोकतन्त्रगणतन्त्रदेशः अस्ति। एतद् विश्वस्य विशालं लोकतंत्रम्। अस्य जनसंख्या ११० कोटिमिता| भाषा: शताधिकाः। भारतवर्षस्‍य उत्तरदिशि पर्वतराज: हिमालय; अस्‍ति, दक्षिणे सिन्धुमहासागर: अस्‍ति। भारतस्य उत्तरे नेपाल तिब्बत चीन च देशा: सन्ति। पश्चिमे पाकिस्थानम् अफगानिस्थानम् इत्यादय: देशा: सन्ति। पूर्वे बर्मा एवं दक्षिणे श्रीलङ्का मालदीव इत्यादय: देशा: सन्ति। कुष्ण-द्वीप-निकोबारद्वीपयो; च निकटे इंडोनेशिया थाईलैंड च देशौ स्त:।

राष्ट्रपशुः

भारतस्य राजधानी देहली अस्ति । अन्यमुख्यनगराणि मुम्बयी पुणे कोलकाता बेङ्गलुरु चेन्नै च सन्ति । भारते सप्तविंशति: राज्यानि सन्ति।


[सम्पादयतु] भारतीयसंस्कृतिः

भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तथा

पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् । बौद्धधर्मस्य उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, भाषाः, पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन । भारतीये संविधाने 22 भाषाः अनुसूचिताः सन्ति।

[सम्पादयतु] राज्यानि

भारते २८ राज्यानि एवं ७ केन्द्रशासिता:प्रदेशा: च सन्ति।अस्मिन् देशे विविधमतानुयायिनः परस्परं सौहार्देन जीवन्ति।

केन्द्रशासितप्रदेशा:
सं॰ प्रदेश राजधानी
चण्डीगढ़ चण्डीगढ़
देहली नवदेहली
दमन दीव दमन
दादर नागर हवेली सिलवासा
लक्षद्वीप: कवरत्ती
पाण्डीचेरी पाण्डीचेरी
अण्डमान-निकोबार-द्वीपसमूह: पोर्ट ब्लेअर
गङ्गानदी
राज्यानि
सं॰ राज्यम् राजधानी भाषाः
जम्मू-कश्मीर
जम्मू + श्रीनगर
काश्मीरी, डोगरी, उर्दु, लद्दाखी
हिमाचलप्रदेश: शिमला हिन्दी
पञ्जाब्
चण्डीगढ़
पञ्जाबी
हरियाणा चण्डीगढ़ हिन्दी, पञ्जाबी
उत्तराखण्ड: देहरादून हिन्दी, संस्कृतम्, कुमाँऊनी, गढ़वाली
राजास्थानम् जयपुरम् हिन्दी,राजस्थानी
उत्तरप्रदेश: लखनऊ हिन्दी, उर्दु
बिहार पटना हिन्दी, उर्दु, भोजपुरी, मगधी, मैथिली
सिक्किम् गङ्ग्टोक्
१० अरुणाचलप्रदेश; इटानगर
११ असम दिसपुर असमिया
१२ नागालैंड कोहिमा
१३ मेघालय: शिलॉंग
१४ मणिपुरम् इम्फाल
१५ त्रिपुरा अगरतला
१६ मिज़ोरम ऐज़ौल
१७ गुजरात
गाँधीनगर
गुजराती
१८ मध्यप्रदेश: भोपाल हिन्दी
१९ छत्तीसगढ़ रायपुर हिन्दी
२० झारखण्ड राञ्ची हिन्दी
२१ पश्चिमबङ्गाल
कोलकाता
बेङ्गाली
२२ महाराष्ट्रम् मुंबयी मराठी
२३ ओड़िशा
भुवनेश्वरम्
ओड़िया
२४ गोवा
पणजी कोङ्कणी
२५ कर्णाटकम्
बेङ्ग्ळूरु
कन्नड
२६ आन्ध्रप्रदेश:
हैदराबाद
तेलुगु
२७ केरळम्
तिरुवनन्तपुरम्
मलयाळम्
२८ तमिऴ्‌नाडु
चेन्‍नै
तमिऴ्
A clickable map of the 28 states and 7 union territories of India.
हिन्दूमहासागरः बङ्गालोपसागरः अण्डमान् सागरः सिन्धुसागरः(अरब्बी) लक्षद्वीपसागरः सियाचिन् हिमसंहतिः अण्डमान् निकोबार् द्वीपौ च चण्डीगढ दाद्रा नगरहवेलि च डामन् डियु च देहली लक्षद्वीपः पुदुच्चेरी पुदुच्चेरी पुदुच्चेरी आन्ध्रप्रदेशः अरुणाचलप्रदेशः अस्साम् बिहारः छत्तीसगढ गौवा गुजरातः हर्याणा हिमाचलप्रदेशः जम्मूकाश्मीरौ च झार्खण्डः कर्नाटकम् केरळा मध्यप्रदेशः महाराष्ट्रः मणिपुरः मेघालयः मिज़ोराम् नागालयः ओडिषा पञ्जाबः राजास्थानः सिक्किम् तमिळुनाडु त्रिपुरा उत्तरप्रदेशः उत्तरखण्डः पोश्चिम् बोङा Afghanistan Bangladesh Bhutan Burma China Nepal Pakistan Sri Lanka Tajikistan Dadra and Nagar Haveli Daman and Diu Pondicherry Pondicherry Pondicherry Pondicherry Andhra Pradesh Goa Gujarat Jammu and Kashmir Karnataka Kerala Madhya Pradesh Maharashtra Rajasthan Tamil Nadu Pakistan Sri Lanka Sri Lanka Sri Lanka Sri Lanka Sri Lanka Sri Lanka Sri Lanka Sri Lanka Sri LankaA clickable map of Indian states and territories.
एतस्य चित्रस्य विषये


[सम्पादयतु] राष्ट्रियम्

भारतस्य राष्ट्रियगीतम् जन गण मन गुरुदेवरवीन्द्रनाथ ठाकुरवर्येण लिखितम् । भारतस्य राष्ट्रियं गीतं वन्दे मातरम् बङ्किमचंद्र- चटर्जीवर्येन लिखितम् |

[सम्पादयतु] आधारग्रन्था:

  1. Ministry of Home Affairs 2011.
  2. २.० २.१ २.२ २.३ International Monetary Fund.
  3. National Informatics Centre 2005.
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु