जयपुरम्
| जयपुरम् जयपुरम् पाटलनगरम् |
|||
|---|---|---|---|
| — Metropolitan City — | |||
| Clockwise from top: Jal Mahal, Lakshmi-Narayan Temple, Albert Hall, Hawa Mahal, Jantar Mantar | |||
| विकटनाम(नि): पाटलनगरम् | |||
| Coordinates: 26°55′34″N 75°49′25″E / 26.9260°N 75.8235°ECoordinates: 26°55′34″N 75°49′25″E / 26.9260°N 75.8235°E | |||
| Country | |||
| State | राजस्थानम् | ||
| District | जयपुरम् | ||
| Settled | November 18, 1727 | ||
| संस्थापकः | Maharaja Ram Seo Master II | ||
| Named for | Maharaja Swai Jai Singh II | ||
| सर्वकारः | |||
| • प्रकारः | Democratic | ||
| • Mayor | Jyoti Khandelwal (INC) | ||
| • Police commissioner | B.l soni | ||
| विस्तीर्णम् | |||
| • Metropolitan City | ११,११७.८ Square km (४,२९२.६ Square mile) | ||
| औन्नत्यम् |
|
||
| जनसङ्ख्या (2011) | |||
| • Metropolitan City | ६ | ||
| • नगरप्रदेशः | ३४ | ||
| • ग्रामीणप्रदेशः | ३१ | ||
| • Metro rank | [[ | ||
| IST (UTC+5:30) | |||
| ZIP code(s) | 302 0xx | ||
| Area code(s) | 91141-XXXX XXXX | ||
| वाहनपञ्जीकरणम् | RJ-14 | ||
| Spoken languages | Hindi, Rajasthani, English
|
||
| Primary Airport | Jaipur International Airport (Major/International) | ||
| जालस्थानम् | www.jaipur.nic.in | ||
जयपुरं भारतस्य राजस्थान प्रान्तस्य राजधानी अस्ति । गुलाबीनगरनाम्ना प्रसिद्धम् अपि । ऐतिहासिकम् आमेरनगरम् अस्य समीपे अस्ति । इदं विश्वस्य सुन्दरतमनगरेषु अन्यतमम् । जयपुरं भारतवर्षस्य एकं सुनियोजितं नगरम् अस्ति । महाराज: जयसिंह: एतत् नगरं १९७२ संस्थापितवान् । जयपुर – सुन्दरनगर राजस्थानराज्यस्य राजधानी अस्ति । जयपुरनगरम् । क्रिस्ताब्दस्य १८ शतकादपि एतत् नगरम् अतीव समृद्धम् अस्ति । एतत् नगरं पाटलनगरम् (पिङ्कसिटी) इत्यपि कथयन्ति । महाराजः सवायी जैसिङ्गः क्रिस्ताब्दस्य १७२७-२८ तमे वर्षे अस्य नगरस्य निर्माणं कृतवान् । नगरस्य विन्यासः चतुर्भुजाकारे अस्ति । नगरप्रवेशाय स्प्तद्वाराणि सन्ति । ”’चान्दपोल्”’ ”’सङ्गनेरि”’ ”’अज्मीरि” मुख्य द्वाराणि सन्ति । जयपुरनगरे उष्ट्रवाहनानि दृश्यन्ते । सर्वत्र पाटलवर्णयुक्तानि भवनानि सन्ति । राजग्रुहाणां नगरमिदम् । राजगृहाणि राजस्थानी तथा मोगल् संयुक्तशैल्या निर्मितानि सन्ति । अनेकानि सुन्दराणि उद्यानानि नगरे सन्ति । नगरस्य त्रिदिशासु पर्वतावल्यः सन्ति । नगरस्य मध्यभागे राजगृहम् अस्ति । नगरे विस्तृताः राजमार्गाः निर्मिताः सन्ति । अनेकत्र वॄत्तानि (चौपड्) निर्मितानि सन्ति । उत्तरतः दक्षिणं, पूर्वतः पश्चिमं सुव्यवस्थिततया मार्गाः निर्मिताः सन्ति । नगरस्य भवनानि रक्तानि अथवा पाटलवर्णयुक्तानि सन्ति । सूर्यस्तसमये एतानि सुन्दरतया प्रकाशन्ते ।
अन्तर्विषयाः |
जयपुरे दर्शनीयानि स्थानानि [सम्पादयतु]
===सिटीप्यालेस् – नगरे स्थितं राजगृहम् एतत् । एतत् राजमहल् इति अपि कथयन्ति । सप्तस्तरीयं राजगृहमेतत् । चन्द्रमहल् इत्यपि अस्य अपरं नाम । राजगृहे एकत्र युद्धसामग्र्यः सङ्गृहीताः सन्ति । अन्यत्र वस्तुसङ्ग्रहालये कलावस्तूनि मोगलचित्राणि वस्त्रोद्यमसम्बद्धानि वस्तूनि आभूषणानि राजपुत्राणां शस्त्रास्त्रानि सङ्गृहीतानि सन्ति । राजगृहे दिवान् –ए-खास् नामकं सार्वजनिकसभाङ्गणं रमनीयम् अस्ति । अस्य भवनस्य विविधभागेषु भित्तिचित्राणि, लताः पुष्पाणि, दर्पणविशिष्टालङ्करणानि घटीयन्त्राणि, घटीयन्त्रगोपरं, मुबारकमहल् च आकर्षणीयानि । अत्र जलपानपात्राणि रजतनिर्मितानि सुन्दराणि सन्ति । राजगृहं परितः तृणावृतस्थलं लघुसरोवराणि मकरालयसरः, शिलानिर्मितखाताः, वेनिस्देशस्य St Marks वृत्तस्य स्मरणं कारयन्ति। जलोत्सांसि जलपाताः कृतकतया निर्मितानि सन्ति । एतानि सायङ्काले अतीव मनमोहकानि भवन्ति ।
जन्तर् मन्तर [सम्पादयतु]
जयपुरनगरे अत्यन्तं प्रसिद्धं जन्तर्मन्तर् भवनं (ज्यौतिष्यसम्बन्धि यन्त्रालय खगोलवीक्षणालयं ) महाराजः जयसिंहः निर्मितवान् । जयसिंहः स्वयं गणितज्योतिषविद्वान् आसीत् । अत्र ग्रहाणां चलनं, ग्रहणदर्शनं सूर्यप्रकाशेन समयज्ञानम् इत्यादिकं ज्ञानं प्राप्तु शक्यते । एतादृशानि खगोलवीक्षण भवनानि देहली वाराणसी उज्जयिनी नगरेषु अपि सन्ति ।
रामविलासोद्यानम् [सम्पादयतु]
अल्बर्ट् हाल् म्यूसियम् इत्यपि अस्य अपरं नाम अस्ति । जयपुरनगरे दक्षिणभागे रामविलास- उद्यानवनमस्ति । अत्र अलबर्टहाल् इति सुन्दरः वस्तुसङ्ग्रहालयः क्रिस्ताब्दे १८३३ तमे वर्षे स्थापितः अस्ति । अत्र आभरणानि काष्ठशिल्पानि लोहशिल्पानि, मृन्निर्मितानि वस्तूनि, वेषभूषणानि च सन्ति । एकः मृगालयः अपि अत्र स्थापितः अस्ति । समीपे एव आधुनिकः वस्तुसङ्ग्रहालयः अपि अस्ति । अत्र राजस्थानस्य संस्कृतिदर्शकानि नाणकानि लोहपात्राणि हस्तिदन्तेन निर्मितानि वस्तूनि शिलामूर्तयः काष्ठदन्तयुक्तानि शिल्पानि सन्ति ।
अम्बेरदुर्गम् [सम्पादयतु]
एतत् दुर्गं प्राचीनराजधानी आसीत् ।जयपुरतः ११ किलोमीटरदूरे पर्वतप्रदेशे अम्बेरदुर्गम् अस्ति । प्राचीनकाले एतत् स्थलं महाराजानां राजधानी आसीत् । पर्वतारोहणाय अनेकानि द्वाराणि प्रविश्य पर्वतारोहणं कर्तव्यं भवति । राजा मानसिङ्गः क्रिस्ताब्दे १५९२ तमे वर्षे एतत् दुर्गं निर्मितवान् । एषः अकबरबादशाहस्य सेनायां सेनापतिः आसीत् ।
अत्र पर्वतप्रदेशे हरितरक्तशिलाभिः निर्मितानि भवनानि सन्ति । विविधवर्णैः निर्मितः कदलीवृक्षः अतीवसुन्दरः अस्ति । दिवान् ए खास् (अन्तर्भवनं) शीशमहल् इत्यादीनि अपूर्वाणि सन्ति । शिलदेवीमन्दिरम् अपि अतीवसुन्दरम् अस्ति । एतेषां प्रतिबिम्बानि पुरतः स्थिते सरोवरेऽपि दृष्टुं शक्यन्ते । सरोवरमध्ये जलमहल् अस्ति । अम्बेरपर्वते गजारोहणपूर्वकं वा पादचारणेन वा पर्वतारोहणं कर्तुं शक्यते । पर्वते स्थितं कनकवृन्दावनं मथुरावृन्दावनमिवास्ति । मन्दिरस्य द्वाराणि छदः च वास्तुशिल्पयुक्तानि सन्ति । समीपे गयटोर् जलमहल् विद्याधरवाटिका इत्यादीनि आकर्षकानि स्थानानि सन्ति । जयपुरनगरे सर्वत्र राजपुत्राणां महाराजानां शिलाप्रतिमाः स्थापिताः सन्ति ।
गोपालमन्दिरम् [सम्पादयतु]
शीशमहल् समीपे महाकाळीमन्दिरमस्ति । कृष्णशिलामूर्तिः आकर्षणीयास्ति । अमेरपर्वतस्य पश्चात् भागे अधः गिरिधरगोपालमन्दिरमस्ति । परमभक्ता मीराबायी अत्रैव गिरिधरगोपालरुपेण श्रीकृष्णस्थाराधनां कृतवती । देवालये नर्तनशीलाः वालिकाः, अश्वपाङ्क्तिः गजपङ्क्तिः इत्यादिकं सुन्दरम् अस्ति । गर्भगृहे विष्णोः कृष्णस्य मीराबाय्याः विग्रहाः अतीवसुन्दराः सन्ति । जयपुरनगरे जैनमन्दिराणि अपि सन्ति । महावीरमन्दिरं सुन्दरप्राचीनमन्दिरम् अस्ति ।
नाहरगढ [सम्पादयतु]
जयपुरतः अष्टकि.लो.मीटर् दूरे पर्वतप्रदेशे सुन्दरं दुर्गमस्ति । ५०० पादोन्नतप्रदेशे स्थितम् एतत् ‘जयपुरस्य स्वर्णकिरीटम् ’ इति कथयन्ति । विशेषसमये अत्र दीपालङ्कारं कुर्वन्ति । द्विस्तरे राजगृहे अस्मिन् नवान्तःपुराणि सन्ति । तेषां नाम ”’ललितप्रकाश”’ ”’चन्द्रप्रकाश”’ ”’सूर्यप्रकाश” इत्यादिरूपेण काव्यमयमस्ति । नाहरगडसमीपे सिसोदीयाराज्ञी-उद्यानं, जैगडदुर्गं च स्तः ।
विमानमार्गः [सम्पादयतु]
जयपुरनगराय देहली मुम्बयी अहमदाबाद् कोलकाता औरङ्गाबाद् इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति
धूमशकटमार्गः [सम्पादयतु]
देहलीतः पिङ्कसिटिएकसप्रेस् यानम् अस्ति । मुम्बयीतः चेतकएक्सप्रेस् धूमशकटयानमस्ति । चेन्नै अजमेर् इत्यादिनगरेभ्यः साक्षात्सम्पर्कः अस्ति ।
वाहनमार्गः [सम्पादयतु]
पिङ्कलैन् सिल्वर्लैन वाहनानि अहोरात्रं राजस्थानराज्ये, राजस्थानतः देहली आग्रानगराणां दर्शनाय च सञ्चरन्ति । जयपुरनगरे उत्तमवसतिभोजनादिव्यवस्था अस्ति । मुम्बयीतः ११७६ कि.मी । देहलीतः ३०६ कि.मी । आग्रातः २३६ कि.मी । अहमदाबाद्तः ७०७ कि.मी । प्रवासव्यवस्थापि अस्ति । प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय आगच्छन्ति। जयपुरस्य आभूषणानि