देहली

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
देहली

दिल्ली अथवा देहली भारतस्य राजधानी अस्ति। नवदिल्ली पश्यतु। भारतस्‍य राज्येषु अन्यतमम् अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति ।

मुख्यद्वारम्

यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । क्रिस्तपूर्वप्रथमशतकस्य मौर्याधिपेन छिलिना छिल्लीति नामाङ्कितेयं नगरी तदनन्तरं दिल्ली बभूव । नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । देहलीनगर्याः नासिकाभरणमिव चान्दनीचौकस्थानम् अत्र विराजते । पत्तनेऽस्मिन् लोहितदुर्गं, कुतुबमीनार्, जन्तर्-मन्तर्, इण्डियागेट, लक्ष्मीनारायणमन्दिरं , तीनमूर्तिभवनं, विज्ञानभवनं, मुगलवास्तुशिल्पम् अनुसृत्य विरचितानि भवनानि चेत्यसङ्ख्यानि प्रेक्षणीयस्थानानि सुशोभन्ते । RedFort.jpg

सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति । Edificios ministeriales Delhi.JPG दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव ।

देहली

दॆहली मॆ अनॆक भाषा कॊ बॊलनॆ वालॆ लॊग मिलकर रहतॆ है दॆहली मॆ अनॆक भाषा कॊ बॊलनॆ वालॆ लॊग मिलकर रहतॆ है

"http://sa.wikipedia.org/w/index.php?title=देहली&oldid=189731" इत्यस्माद् उद्धृतम्
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु