देहली

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
देहली
—  केन्द्रशासितमण्डलम्  —
राजधानीनगरम्
लोटस् टेम्पल्, हूमायूनस्य स्मारकम्, कन्नाट् प्लेस्, अक्षरधाम, इण्डियागेट् च।
देहली is located in India
देहली
भारते देहल्याः अवस्थानम् ।
Coordinates: 28°36′36″N 77°13′48″E / 28.61°N 77.23°E / 28.61; 77.23Coordinates: 28°36′36″N 77°13′48″E / 28.61°N 77.23°E / 28.61; 77.23
देशः भारतम्
Federal district National Capital Territory
Settled 1638
Incorporated 1857
राजधानीनिर्माणम् १९११
सर्वकारः
 • Chief Minister Sheila Dikshit (फलकम्:Polparty)
 • Lt. Governor तेजेन्द्र खन्ना
विस्तीर्णम्
 • केन्द्रशासितमण्डलम् १,४८४.० Square km (५७३.० Square mile)
 • भूभागः १५९.० Square km (६१.४ Square mile)
 • जलम् १८.० Square km (६.९ Square mile)
औन्नत्यम्
देहली
जनसङ्ख्या (2011)
 • केन्द्रशासितमण्डलम् ११
 • श्रेणी 2nd
 • महानगरम् १६
 • Metro rank [
 • Metropolitan २१
देशीयता Delhiite
Indian Standard Time (UTC+5.30)
ZIP code(s) 110001-110098, 1100xx
क्षेत्रसूचीसङ्ख्या +91 11
Ethnicity हिन्दी, पञ्जाबी
जालस्थानम् delhi.gov.in

दिल्ली अथवा देहली (Delhi) भारतस्य राजधानी अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरम् इति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्ग्लानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधानीपदमलङ्करोति । भारतदेशस्य महानगरेषु देहलीनगरम् अन्यतमम् अस्ति । प्राचीनकालादपि देहली भारतस्य राजधानी अस्ति । अस्य नगरस्य सहस्रवर्षस्य इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयानां च राजधानीति प्रसिद्धमेतत् । हिन्दु-मुसलमान्-मोगल इत्यादि वंशीयाः अत्र प्रशासनं कृतवन्तः । आङ्ग्लाः अपि क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा क्रिस्ताब्दस्य १९४७ पर्यन्तं प्रशासनं कृतवन्तः । स्वातन्त्र्यप्राप्तेः अनन्तरमपि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशानां महाद्वारमिव अस्ति । राजकीयकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च एतत् । अत्र अनेक वास्तुशिल्पानि क्रिस्ताब्दे १९३० समये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानां रचनाकारः आसीत् ।

देहल्याः प्रेक्षणीयस्थानानि[सम्पादयतु]

राष्ट्रपतिभवनम् मोगल् गार्डन् च[सम्पादयतु]

राष्ट्रपतिभवनं भारतदेशस्य राष्ट्रपतेः अधिकृतं निवासस्थानमेतत् । क्रिस्ताब्दे १९२९ तमे वर्षे अस्य निर्माणम् अभवत् । १३० हेक्टरप्रदेशे व्याप्तम्, राष्ट्रपतिभवनं परितः 'मोगल् गार्डन्’ उद्यानवनम् अस्ति । अतीव सुन्दरम् उद्यानवनम् एतत् । प्रवेशार्थम् अवसरः न भवति । राष्ट्रपतिभवने ३४० प्रकोष्ठाः सन्ति । मध्ये स्तूपः इव १७७ पादोन्नतं भव्यं अर्धगोलाकारिका छदिः(गुम्बज़्) अस्ति । भवने चत्वारः भागाः सन्ति । दर्बारहाल्, वाचनालयः, सभाभवनं, स्नानगृहं भोजनगृहं च । एतानि सर्वाणि उत्तमरीत्या निर्मितानि सन्ति । राष्ट्रपतिभवनं परितः मोगल् गार्डन् रम्यम् उद्यानम् अस्ति । 'A Paradise on Earth', 'A garden of beauty' इति प्रसिद्धम् । सर्वे राष्ट्रपतयः पूर्वतोऽपि अभिवृद्धिं कृत्वा उत्तमोत्तमं कृतवन्तः सन्ति । एतदर्थं देशविदेशेभ्यः विविधानि सस्यानि आनीतानि सन्ति । पाटलपुष्पसस्यानां द्विशताधिकभेदाः अत्र द्रृष्टुं शक्यन्ते । अनेन साकं बोगन् विल्ला, डेलिया, हैसिन्त् , हेलिगोनिया , डापोडिल्स् , आर्किड् , स्वीट् विलियम् मेरीगोल्ड् जपाकुसुमम् इत्यादीनि अपूर्वाणि सन्ति । एतानि मारिषस् पेरु ब्रेज़िल्, ईशान्यराज्यानि, हैदराबाद् कोच्ची इत्यादिप्रदेशेभ्यः आनीतानि । अत्र मयूराः बकाः मृगाः कदम्बाः इतस्ततः सञ्चरन्ति । जलोत्सांसि सन्ति । दीपलङ्कारः उत्तमतया कृतः अस्ति । सायङ्काले दीपलङ्कारः उद्यानवनसौन्दर्यं वर्धयति । ४२८ जनाः उद्यानरक्षकाः वाटिकापालकाः अत्र कार्यं कुर्वन्ति । सार्वजनिकानां फेब्रुवरीमार्चमासयोः प्रवेशावकाशः अस्ति ।

कुतुब् मिनार्[सम्पादयतु]

कुतुब् समुच्चये अन्तर्भवति कुतुब् मिनार् अपि । देहल्यां स्थितम् अत्यन्तं प्रेक्षणीयं प्रमुखं च स्थानम् एतत् । अस्य शिखरस्य निर्माणकार्यम् आरब्धवान् गुलामवंशस्य प्रथमः शासकः कुतबुद्दीन् ऐबकः। तस्य उत्तराधिकारी इल्तुमिशः , तदनन्तरम् आगताः अल्लावुद्दीन् खिल्जिप्रभृतयः शासकाः च अधिकान् अट्टान् निर्माय तस्य भवनस्य औन्नत्यं वर्धितवन्तः। कुतुबमिनार् ७२.५ मी. औन्नत्ययुतम् । तस्य भूतलव्यासः १४.३ मीटर्विशालः अन्तिमाट्ट्ः २.७ मीटर् -उन्नतः अस्ति । अस्य मुखद्वारम् 'अलैगेट्’ इति उच्यते । एतस्य निर्माता अस्ति अल्लावुद्दीनखिल्जिः । वृत्ताकारकम् एतत् मुखद्वारं रक्तशिलाभिः, अलङ्कृतमणिशिलाभिः, शिलाजवनिकाजालैः, कलाकृतिभिः च शोभते । टर्किशकलाविदः एतत् निर्मितवन्तः सन्ति । अल्लावुद्दीन्खिल्जिः सङ्कल्पितवान् आसीत् यत् 'अमैमिनार्’ निर्मातव्यम् इति, यच्च औन्नत्येन कुतुबमिनारस्य अपेक्षया द्विगुणितं स्यात् इति । किन्तु तस्य मरणात् निर्माणकार्यम् अर्धे एव स्थगितं जातम् ।२४.५ मीटरुन्नतः प्रथमः अट्टः निष्प्रयोजकः जातः अस्ति ।

रक्तदुर्गम्[सम्पादयतु]

देहलीनगरे स्थितं रक्तदुर्गं (लालकिला) रक्तवालुकाशिलाभिः निर्मितः भवनविशेषः अस्ति । अस्य दैर्घ्यं २ कि.मी. अस्ति । उन्नतिः समाना नास्ति । नद्याः समीपे २८ मीटर् उन्नतं , नगरभागे ३३ मीटर् उन्नतम् अस्ति । देहली चक्रवर्ती षाहजहान् क्रिस्ताब्दे १६३८ तमे वर्षे एतस्य दुर्गस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे १६४८ तमे वर्षे निर्माणकार्यं समाप्तम् अभवत् । लाहोर् गेट् तः प्रवेशः अस्ति । अत्र दिवान्-ए-आम् , दिवान् ए खास् , मोतिमस्जिद् , रङ्गमहल् इत्यादीनि सन्ति । प्रतिदिनम् सायङ्काले Sound and light show आङ्ग्लहिन्दिभाषयोः व्याख्यानसहितम् भवति । अन्तः आपणानां पाङ्क्तिः अस्ति । हस्तशिल्पवस्तूनि अत्र प्राप्तुं शक्यन्ते । दिवान् -ए- खास् राज्ञां स्वकीयं स्थानमासीत् । खास् महल् चक्रवर्तिनां निवासः, रङ्गमहलराज्ञीनां वासस्थानं, दिवान् आम् दर्बार सभाङ्गणमासीत् । अत्र उष्णजलशीतजलस्नानगृहाणि सन्ति । शीशमहल् प्रेक्षणीयमस्ति । मोगलशैल्याः शिल्पदर्शनाय एतदुत्तमं स्थलमस्ति । स्वातन्त्र्यानन्तरं प्रतिवर्षम् आगस्टमासस्य १५ दिने प्रातःकाले अत्र प्रवेशद्वारस्य उपरि स्थिते विशेषस्थले भारतस्य प्रधानमन्त्री ध्वजारोहणं कृत्वा जनान् सम्बोधयति । शुभाशयं च यच्छति ।

फेरी क्वीन्[सम्पादयतु]

फेरिक्वीन् – हेरिटेज् धूमशकटम् - देहलीनगरे स्थितः राष्ट्रियधूमशकटसङ्ग्रहालयः अवश्यं दर्शनीयः अस्ति । अत्र फेरिक्वीन् धूमशकटः १४२ वर्षप्राचीनः अस्ति । अस्य चालनयन्त्रं बाष्पेन चालनीयम् अस्ति । अस्य प्रकोष्ठाः वायुनियन्त्रिताः उत्तमासनयुक्ताः च सन्ति । अन्तस्तात् प्रकृतिदर्शनम् अतीव सुन्दरं भवति । अन्तः सुन्दरतया अलङ्कृताः विभागाः सन्ति । अस्य वेगः प्रतिघण्टं ४० कि.मी. अस्ति । अस्य गिन्निस् पुस्तके नाम प्रवेशः जातः अस्ति । राष्ट्रियप्रवासनिगमस्य पारितोषकमपि प्राप्तम् अस्ति । एकदा एतत् यानं कर्णाटकम् आगतम् आसीत् । मेहरौली, कुतुब् मिनार् समीपे एतस्य स्थानम् अस्ति।

जन्तर् मन्तर् (ग्रहतारावीक्षणालयः)[सम्पादयतु]

देहलीनगरे जयपूरस्य मिर्जाराजेन जयसिंहेन निर्मितः "ग्रहतारावीक्षणालयः" १६ शतके स्थापितः अस्ति । अत्र सूर्यचक्रम् अथवा साम्राटयन्त्रम् अतीव गमनार्हम् अस्ति ।

संसद् भवनम्[सम्पादयतु]

संसत् भवनम् वृत्ताकारकं भवनमस्ति । अत्र भारतसर्वकारस्य लोकसभाराज्यसभेत्यादि प्रशासनिकसभास्थानानि सन्ति । एतत् क्रिस्ताब्दे १९२७ तमे वर्षे निर्मितम् अस्ति । अस्य भवनस्य व्यासः १७२ मीटर् अस्ति ।

इतरदर्शनीयानि स्थानानि[सम्पादयतु]

देहलीनगरे अनेक मुस्लिमराजानां म्रुतस्मारकाणि सन्ति । तत्र मोगलशैलीयवास्तुशिल्पानि रचितानि सन्ति । लोधिवंशीयानां स्मारकाणि, मोगलवंशीयानां स्मारकाणि च विशाले प्राङ्गणे सन्ति । शेरषहमहोदयेन निर्मितं दुर्गं पर्वतप्रदेशे अस्ति । एतत् पुरानाकिला इत्यपि कथयन्ति । अत्र समीपे क्श्चन मृगालयः अस्ति । अत्र धूसरभल्लूकाः श्वेततव्याघ्रः, श्वेतमयूरः, एमु, इत्यादीनि प्राणिसङ्कुलानि सन्ति । राजघाट् प्रदेशे विशाले उद्याने महात्मा गान्धिः जवाहरलालनेहरुः लालबहादुरशास्त्री श्रीमती इन्दिरागान्धिः इत्येतेषां स्मारकाणि सन्ति । बिर्लामन्दिरम् इति ख्यातं श्रीलक्ष्मीनारायणमन्दिरम् अतीव सुन्दरम् कलायुक्तं चास्ति । अक्षरधामदेवालयसङ्कीर्णम् अतीव सुन्दरम् अस्ति । अत्र सायङ्काले दीपालङ्कारयुक्तः जलोत्सवः विशेषतया द्रष्टव्यः अस्ति । देहलीनगरे बोटक्ललब्, लोधी-उद्यानं, रोषनारा-उद्यानं, नेहरु-उद्यानं, डीरपार्क्, बुद्धजयन्ती पार्क् इत्यादीनि सुन्दराणि उद्यानानि सन्ति । देहलीनगरे अनेके वस्तुसङ्ग्रहालयाः सन्ति । तेषु क्राफट् म्यूसियम्, न्याशनल् म्यूसियम्, नेहरूस्मारक म्यूसियं, रेड् फोर्ट् म्यूसियम् इत्यादीनि प्रसिद्धानि सन्ति । यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । देहलीनगर्याः नासिकाभरणमिव चान्दनीचौकस्थानम् अत्र विराजते । पत्तनेऽस्मिन् रक्तदुर्गं, कुतुब् मिनार्, जन्तर्-मन्तर्, इण्डियागेट, लक्ष्मीनारायणमन्दिरं, तीनमूर्तिभवनं, विज्ञानभवनं, मुगलवास्तुशिल्पम् अनुसृत्य विरचितानि भवनानि चेत्यसङ्ख्यानि प्रेक्षणीयस्थानानि सुशोभन्ते । सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति । दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव । देहलीमहानगरस्य विस्तीर्णं १५०० चतुरस्रकिलोमीटर् अस्ति । अत्र वातावरणम् अत्यन्तं विचित्रम् अस्ति । एप्रिल-मे-जूनमासेषु अतीवोष्णता, नवम्बर् डिसेम्बरजनवरीमासेषु अतीव शैत्यं भवति। भारतस्य सर्वराज्यानां राजधानीभ्यः वाहनसम्पर्कः, धूमशकटयानसम्पर्कः, विमानसम्पर्कः च सन्ति ।

भारतस्य राजधानी[सम्पादयतु]

भारतदेशस्य महानगरेषु देहलीनगरम् अन्यतमम् । प्राचीनकालादपि देहली भारतस्य राजधानी अस्ति । अस्य सहस्रवर्षाणाम् इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयाना च राजधानीति अपि आसीत् । हिन्दुमुसलमानमोगलेत्यदयः वंशीयाः अत्र प्रशासनम् अकुर्वन् । आङ्ग्लाः अपि सा.श.१९११ तले काले देहलीनगरं राजधानीं कृत्वा सा.श.१९४७ पर्यन्तं प्रशासनम् अकुर्वन् । स्वातन्त्र्यप्राप्तेः अनन्तरकाले अद्यापि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशाना महाद्वारमिवास्ति । राजनीतिकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च । अत्र अनेक वास्तुशिल्पान्वितभवनानि सा.श.१९३०तमसमये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानां रचनकारः आसीत् ।

मेहरौली अयस्स्तम्भः[सम्पादयतु]

कुतुब् मिनार् इत्य्स्य प्राङ्गणे कश्चित् ऐतिहासिकः स्तम्भः अस्ति यं द्रृष्ट्वा प्रासिनः विस्मिताः भवन्ति । अयसः एषः चतुर्थशतके राजाचन्द्रवर्मणा निर्मितः। स्कन्धगुप्तराजस्य कालिकः एषः शिल्पविशेषः अधुनापि अयस्किट्टरहितः सूर्यप्रकाशेन विराजते । अत्र स्तम्भे संस्कृतश्लोकाः लिखिताः सन्ति । एषः स्तम्भः स्थिरः दृढः गोलिकाप्रहारेणापि न शैथिल्यम् आप्नोत् । स्तम्भनिर्माणकौशलं दृष्ट्वा तत्कालीनं लोहकार्यनैपुण्यं ज्ञातुं चर्चितुं च शक्यते । कन्निङ्ग् ह्याम् इत्यस्य वचनानुगुणं एषः स्तम्भः अतीव विस्मयकारी लोहविद्यादर्शकः निर्माणं कुतूहलकारकं च अस्ति ।

देहलीनगरस्य इतिहासः[सम्पादयतु]

देहलीनगरं विश्वस्य प्राचीननगरेषु अन्यतमम् अस्ति । पूर्वं हिन्दुराजः अनङ्गपालः क्रिस्ताब्दे १०६० तमे वर्षे 'लालकोट्’ निर्मितवान् । पृथ्वीराजचह्वाणः तस्य अभिवृद्धिकार्यं कृतवान् । अनन्तरं कुतुबुद्दीन् ऐबक् कुतुब् मिनार्भवनं कारितवान् । मोगलवंशीयः बाबरः अत्रैव साम्राज्यम् आरब्धवान् । आङ्ग्लाः क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा प्रशासनम् आरब्धवन्तः । पूर्वं पुराणानुसारं कौरवाः हस्तिनावतीनगरे (प्राचीनदिल्लीभागः) , पाण्डवाः इन्द्रप्रस्थनगरे (पुरानाकिलाभागे) प्रशासनं कुर्वन्ति स्म । देहली नगर विश्वे एव प्राचीन नगरेष्वेकं अस्ति । पूर्व हिन्दुराजा अनङ्गपालः क्रिस्ताब्दे १०६० समेय 'लालकोट्’ निर्मितवान् । पृथ्वीराजचह्वण महोदयः अभिवृद्धि कार्य कृतवान् । अनन्तर कुतुब्हीन् ऐबक् कुतुब् मीनार शिल्पं कारितवान् । मोगलवंशीयः बाबरःअत्रैव साम्राज्य आरब्धवान् । आङ्गलाः क्रिस्ताब्दे १९११ तमे वर्षे देहली नगर राजधानी कृत्वा प्रशासन आरब्धवन्तः । पूर्वं पुराजानुसार कौरवाः हस्तिनावति नगरे प्राचीनदिल्लीभागः, पाण्डवाः इन्द्रप्रस्थ नगरे पुरा- नकिल्प भागे प्रशासन कृतवन्तः । देहली महानगरस्य विस्तीर्णं ५०० व.कि.मी. अस्ति । अत्र वातावरणम् अत्यन्तं विचित्रम् एप्रिल् मे जून् च मासेषु अतीवोष्णं नवम्बर् डिसेम्बर जनवरी च मासेषु अतीव शैत्यं भवति । भारतस्य सर्वराज्यानां राजधानिभिः वाहनसम्पर्कः धूमशकटयानस्य सम्पर्कः विमानस्य सम्पर्कः च सन्ति ।

मार्गः[सम्पादयतु]

दर्शनीयस्थानानि केन्द्रतः दूरम् यात्राक्षेत्रम्
कुतुब्मीनार् नगरमध्ये ऐतिहासिकम्
संस्कृतभारती २ कि.मी. देशसेवान्यासः
रक्तदुर्गम् मध्यनगरम् ऐतिहासिकम् ।
संसत्सदनम् नगरकेन्द्रस्थाने राजनीतिभवनम्
भारतमहाद्वारम् मुख्यमार्गे नगरप्रवेशः
अक्षरधाम ३कि.मी. हिन्दुमन्दिरम्

वीथिका[सम्पादयतु]

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=देहली&oldid=270809" इत्यस्माद् पुनः प्राप्तिः