कुतुब् मिनार्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
कुतुब् मिनार्
कुतुब् मिनार्

कुतुब् समुच्चये अन्तर्भवति कुतुब् मिनार् अपि । देहल्यां स्थितम् अत्यन्तं प्रेक्षणीयं प्रमुखं च स्थानम् एतत्। अस्य शिखरस्य निर्माणकार्यम् आरब्धवान् गुलामवंशस्य प्रथमः शासकः कुतबुद्दीन् ऐबकः। तस्य उत्तराधिकारी इल्तुमिशः , तदनन्तरम् आगताः अल्लावुद्दीन् खिल्जिप्रभृतयः शासकाः च अधिकान् अट्टान् निर्माय तस्य भ्वनस्य औन्नत्यं वर्धितवन्तः। कुतुबमिनार् ७२.५ मी. औन्नत्ययुतम् । तस्य भूतलव्यासः १४.३ मीटर्विशालः अन्तिमाट्ट्ः २.७ मीटर् -उन्नतः अस्ति । अस्य मुखद्वारम् ‘अलैगेट्’ इति उच्यते । एतस्य निर्माता अस्ति अल्लावुद्दीनखिल्जिः । वृत्ताकारकम् एतत् मुखद्वारं रक्तशिलाभिः, अलङ्कृतमणिशिलाभिः, शिलाजवनिकाजालैः, कलाकृतिभिः च शोभते । टर्किशकलाविदः एतत् निर्मितवन्तः सन्ति । अल्लावुद्दीन्खिल्जिः सङ्कल्पितवान् आसीत् यत् ‘अमैमिनार्’ निर्मातव्यम् इति, यच्च औन्नत्येन कुतुबमिनारस्य अपेक्षया द्विगुणितं स्यात् इति । किन्तु तस्य मरणात् निर्माणकार्यम् अर्धे एव स्थगितं जातम् ।२४.५ मीटरुन्नतः प्रथमः अट्टः निष्प्रयोजकः जातः अस्ति ।

विशिष्टस्तम्भः[सम्पादयतु]

कुतुबसमुच्चयस्थः अयसः स्तम्भः जगतः अपूवं धातुशोधनकौतुकं वर्तते । विशिष्टेन असंस्कृत-अयसा निर्मितः अयं स्तम्भः आ १६०० वर्षेभ्यः अयस्किट्टजीर्णतादिकं विना स्थितः अस्ति । सप्तमीटरौन्नत्ययुतः अयं स्तम्भः द्वितीयचन्द्रगुप्तविक्रमादित्येन (३७५-४१४) स्थापितः । यः पृष्ठभागो प्रसारिताभ्यां बाहुभ्यां स्तम्भम् एतम् आलिङ्गितुं शक्नुयात् तस्य अभिलाषः सिद्धयेत् इति विश्वसन्ति जनाः । इण्डो -इस्लामिक्शिल्पकलायाः प्रमुखम् उदाहरणम् अस्ति अयं समुच्चयः इति वदन्त्या युनेस्कोसंस्थया १९९३ तमे वर्षे कुतुब् लिनार् समुच्चयः जागतिकपारम्परिकस्थलत्वेन घोषितः अस्ति ।

कुतुब् मिनार्

गमनपथः[सम्पादयतु]

कुतुबमिनारभवनं देहल्यां दक्षिणभागे ९-१० मैलदूरे अस्ति । १२०० तमे वर्षे कुतुबुद्दीनः ऐकः(गुलामवंशीयः) एतस्य भवनस्य निर्माणम् आरब्धवान् । एतस्य औन्नत्यं २३९ पादमितम् अस्ति । पञ्च अट्टाः सन्ति एतस्मिन् ।३७८ सोपानानि सन्ति अत्र । एतत् भवनं रक्तवर्णईयया सङ्गमरमर शिलया निर्मितम् अस्ति । प्रथमाट्टस्य भित्तौ २० अलङ्कारपङ्कयः सन्ति । तासु प्रथमा गोलाकारा, द्वितीया कोणाकारा । एवमेव अन्याः अपि पङ्कयः ।द्वितीये स्तरे तु सर्वाः अलङ्कारपङ्कयाः गोलाकाराः एव । तृतीयाट्टे स्थिताः ताः कोणाकाराः । तदुपरि स्थितयोः अटटयोः भित्तिः तु सामान्या । तन्नाम अलङ्कारपङ्किरहिता । फिरोजशाहः एतत् भवनं नर्मितवान् इति श्रूयते । एतस्य प्रत्यट्टं चन्द्र्शाला अस्ति । एतस्य शिखरे किरीटसद्दशी काचित् रचना आसीत् इति शॄयते । किन्तु १८०३ तमे वर्षे जातस्य भूकम्पस्य कारणतः सा अधः अपतत् । कुतुबमिनारभवनात् अनतिदूरे एव चतुर्थशतकीयह् कश्चन लोहस्तम्भः अस्ति । एतस्य परिधिः १३ पादमितः । औन्नत्यं च २३.८ पादमितम् । एतस्य उपरि चन्द्रगुप्तविक्रमादित्यस्य प्रशंसावचनानि उत्कीर्णानि सन्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कुतुब्_मिनार्&oldid=271567" इत्यस्माद् पुनः प्राप्तिः