अरविन्द केजरीवाल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अरविन्द केजरीवाल
एकतायै धावनप्रतियोगितायाम् उपस्थितः अरविन्दः
एकतायै धावनप्रतियोगितायाम् उपस्थितः अरविन्दः
देहलीराज्यस्य सप्तमः मुख्यमन्त्री
Assumed office
२८ डिसेम्बर् २०१३
Preceded by शीला दीक्षित
Succeeded by पदस्थः
विधायकः, देहलीविधानसभा
In office
१४ फरवरी २०१५ – पदस्थः
Preceded by स्वयं
Constituency नवदेहली
In office
२८ दिसम्बर २०१३ – १४ फरवरी २०१४
Preceded by शीला दीक्षित
Constituency नवदेहली
व्यैय्यक्तिकसूचना
Born (१९६८-२-२) १६ १९६८ (आयुः ५५)
सिवानि, हरियाणा
Political party आम आदमी पार्टी
Spouse(s) सुनीता केजरीवाल
Children द्वयम्
Education BTech in Mechanical Engineering
Alma mater ऐ ऐ टी खडगपुर्

अरविन्दकेजरीवालः भारतस्य समाजसेवक: अस्ति। सामाजिक-राजनीतिकान्दोलनेषु सहभागित्वात् पूर्वं सः भारतीयराजस्वसेवायाम् अधिकारी आसीत्।[१] २००६ तमे क्रिष्टाब्दे सः उदयशीलनेतृत्वार्थे रमोन्-मैग्सेसे-पुरस्कारेण सम्मानितः।

प्रारम्भिकजीवनम्[सम्पादयतु]

अरविन्दः १९६८तमे संवत्सरे हरियाणाराज्यस्य हिस्सारनगरे जन्म प्राप्तवान् । तस्य पितरौ गोबिन्दश्च गीता । तस्यैका भगिनी एकश्च भ्राता अस्ति सः च ज्येष्ठः वर्तते। तस्य पिता अभियन्ता अस्ति, यः मेसरास्थात् बिरलाप्रौद्योगिकीसंस्थानात् स्नातकपदवीं प्राप्तवान् । केजरीवालस्य बाल्यं सोनीपत-मथुरा-हिसारसदृशेषु उत्तरभारतीयलघुनगरेषु व्यतीतम् । तस्य विद्यालयशिक्षा कैम्पस्-स्कूल्-हिसारम् इत्यत्र अभवत्।[२][३] एषः १९८९तमे वर्षे खरगपुरस्य भारतीय प्रौद्यौगिकी संस्थाने ( IIT)तान्त्रिकपदवीं प्राप्तवान् ।

सामाजिककार्याणि[सम्पादयतु]

पूर्वारभ्य अरविन्दवर्यः भ्रष्टाचारस्य तस्य विषये जनानां निष्क्रियतायाः विषये बहु कुपितः आसीत् । तदर्थम् सः टाटा संस्थायां कार्यं त्यक्त्वा ' मिशनरीस् आफ़् चारिटि' रामकृष्णाश्रमसदृशां संस्थायां सेवां कर्तुं इष्टवान् । कालान्तरे सः देहलीनगरे भारतीयराजस्वसेवायाम् अधिकारीरूपेण कार्यमारब्धवान् । तत्र सः सर्वकारे प्रचलितस्य भ्रष्टाचारस्य मूलकारणं तु अपारदर्शिका शासनव्यवस्था इति अवगतवान् । तस्याः समस्यायाः परिहारार्थं अरविन्दवर्यः स्वकार्यालय-व्यवस्थायां अनेक परिवर्तनानि आनीतवान् ।

२०००तमे वर्षे अरविन्दवर्यः देहलीनगरे 'परिवर्तनम्' नामकं नागरीकान्दोलनं आरब्धवान् । २००६तमे संवत्सरे सर्वकारकार्याय त्यागपत्रं दत्त्वा 'परिवर्तनस्य' कृते पूर्णसमयम् अर्पितवान् । तस्मिन् समये एव 'अरुणा राय्' महोदयया साहाय्येन Right to Information Act एतस्य अनुष्ठानाय अभियानमेकम् आरब्धवान् । एतस्य मौन-सामाजिकान्दोलनस्य फलरूपेण सर्वकारपरतया एतस्य स्वीकरणं अनुष्ठानञ्च जातम् । तदनन्तरम् २००६तमे वर्षारभ्य एतस्य विषये जनजागृतिकार्यक्रमः आरब्धः ।

२००६ तमे ख्रिस्ताब्दे सः उदयशीलनेतृत्वार्थे रमोन्-मैग्सेसे-पुरस्कारेण सम्मानितः। तत् सम्मानं तस्मै सूचनाऽधिकारं तृणमूलस्तरे क्रियान्वितम् अकरोत् इति कृत्वा, तथा च सर्वकारः जनेभ्यः उत्तरदायी वर्तेत इति द्वारा भ्रष्टाचारविरुद्धयुद्धे दरिद्रजनानां शक्तीकरणार्थं तस्य सामाजिकक्रियाकलापान् आलक्ष्य प्रदत्तम्।[४][४][४][५] २००६ ख्रिस्ताब्दे अरविन्दवर्यः एकम् असर्वकारीयसङ्घटनं संस्थापितवान् पब्लिक्-कौस्-रिसर्च्-फौन्डेशन् इत्येतत्।[६] तत्र सः कौर्पस्-निधित्वेन स्वकीयं मैग्सायसाय्-पुरस्कारधनं दत्तवान्। २०१२ ख्रिस्ताब्दे नवम्बरमासे एषःआमआदमी-पक्षः इति राजनैतिकदलमेकं स्थापितवान्, तस्य च लक्ष्यम् स्वराज्यम् (स्वावलम्बन-जीवनम्) इति घोषितवान्।[७]

पुरस्काराः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. १.० १.१ "Distinguished Alumnus of IIT Kharagpur". आह्रियत 22 August 2011. 
  2. ARVIND KEJRIWAL. rmaf.org.ph
  3. Hauzel, Hoihnu (30 September 2006). "Fighting the odds". The Telegraph. आह्रियत 20 August 2011. 
  4. ४.० ४.१ ४.२ ४.३ Citation Archived २०११-०३-१२ at the Wayback Machine The 2006 Ramon Magsaysay Award for Emergent Leadership-CITATION.
  5. ५.० ५.१ "Magsaysay to Kejriwal". The Hindu (Chennai, India). 1 August 2006. Archived from the original on 15 July 2012. आह्रियत 19 October 2011. 
  6. www.pcrf.in
  7. "Arvind Kejriwal launches Aam Admi Party". आह्रियत 24 November 2012. 
  8. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; dubey इत्यस्य आधारः अज्ञातः
  9. "CNN IBN – INDIAN OF THE YEAR". Archived from the original on 14 October 2011. आह्रियत 25 August 2011. 
  10. "ET Awards: The top 10 of 2010". The Economic Times. 7 October 2010. आह्रियत 24 August 2011. 
  11. "NDTV Indian of the Year 2011". ndtv.com. आह्रियत 19 October 2011. 

बाह्यानुबन्धाः[सम्पादयतु]

""

"https://sa.wikipedia.org/w/index.php?title=अरविन्द_केजरीवाल&oldid=484345" इत्यस्माद् प्रतिप्राप्तम्