लाल बहादूर शास्त्री

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(लालबहादुरशास्त्री इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
लालबहादुरशास्त्री
कार्यालये
9 June 1964 – 11 January 1966
राष्ट्रपतिः सर्वपल्ली राधाकृष्णन्
कार्यालये
9 June 1964 – 18 July 1964
पूर्वगमः Gulzarilal Nanda
पादानुध्यातः Sardar Swaran Singh
कार्यालये
4 April 1961 – 29 August 1963
प्रधानमन्त्री जवाहरलाल नेह्रू
व्यक्तिगत विचाराः
जननम् 2 October 1904(1904-10-02)
मरणम् 11 January 1966(1966-01-11) (aged 61)
राजनैतिकपक्षः Indian National Congress
पतिः/पत्नी ललिता शास्त्री
निवासः 10 Janpath, देहली

[१]

धर्मः हिन्दूधर्मः

पूर्वजीवनम्[सम्पादयतु]

लालबहादुरशाश्त्री

पूर्वम् आङ्लशासिते भारतदेशे, संयुक्तप्रान्तेषु, मुघल्-सराई इत्यत्र दम्पती शारदा श्रीवास्तवप्रसादः रामदुलारी च आस्ताम् । तयोः पुत्रः लालबहादूरः १९०४ तमे वर्षे अक्टोबर्मासस्य २ दिनाङ्के जन्म प्राप्तवान् ।[२] श्रीमान् शारदाप्रसादः आदौ विद्यालये शिक्षकः आसीत् । अनन्तरम् अलाहाबादे राजस्वकार्यालये सः लिपिकारः अभवत् । यदा शिशुः त्रिमासीयः आसीत् तदा सः मातुः अङ्कात् च्युतः सन् गङ्गानद्याः तीरे कस्यापि गोपालकस्य कण्डोले पतितः । सन्तानहीनः सः गोपालकः अयं देवस्य प्रसादः इति मत्वा तं शिशुं स्वगृहम् अनयत् । लालबहादूरस्य पितरौ आरक्षककार्यालये अभियोगम् अकुरुताम् । रक्षकाश्च तं शिशुम् अन्विष्य तयोः कृते प्रत्यर्पयन् ।

यदा सः सार्धैकवर्षीयः जातः तदा तस्य पिता दिवङ्गतः । तस्य माता तं भगिनीभ्यां सह पितुः गृहं नीत्वा तत्रैव अवसत् । दशवर्षपर्यन्तं लालबहादूरः स्वमातामहस्य हजारीलालमहोदयस्य गृहे न्यवसत् । मुघल-सराई मध्ये सः चतुर्थकक्ष्यापर्यन्तम् अपठत् । अग्रिमाध्ययनाय सः वारणासीम् अगच्छत् । तत्र सः मातुलेन सह न्यवसत् । हरिश्चन्द्र-उच्च-पाठशालां प्राविशत् च । एकदा वाराणस्यां गङ्गायाः अपरतीरे स्थितं प्रदर्शनं द्रष्टुं सः मित्रैः सह अगच्छत् । ततः गृहं प्रतिनिवर्तितुं धनाभावकारणतः नौकाशुल्कं दातुम् असमर्थः . मित्रेभ्यः धनं याचितुं न इच्छन् सः नद्यां कूर्दित्वा अपरतीरं प्राप्तवान् ।

बाल्यकाले पुस्तकपठनं तस्मै रोचते स्म । गुरुनानकस्य श्र्लोकेषु तस्य महती अभिरुचिः आसीत् । भारतीयराष्ट्रवादी, समाजशोधकः स्वतंत्रतासेनानी बालगङ्गाधरतिलकः तस्य दृष्ट्या पूजार्हः आसीत् । तन्मध्ये वाराणस्यां गान्धिमहात्मनः वचनेभ्यः नितरां प्रभावितः सः आत्मनः जीवितं राष्ट्रसौवायै समर्पितवान् ।[३] सः 'श्रीवास्तव' इत्येतत् स्वकुलस्य नाम अपि त्यक्तवान् यतः सः जातिवादस्य विरोधी आसीत् । १९२९ मध्ये गान्धिमहात्मना आरब्धे असहकारान्दोलने सः भागम् अवहत् । तत्र सः गृहीतः चेदपि बालकः इति कारणतः सः मोचितः । अनन्तरं सः वाराणस्यां काशीविद्यापीठे राष्ट्रवादी इति एव आत्मनः नामलेखनं कृतवान् । तत्र वर्षचतुष्टयं यावत् अपठत् । तत्र डा भगवानदासेन दर्शनशास्त्रविषये कृतैः व्याखानैः सः अतीव प्रभावितः । काशीविद्यापीठेन १९२६ तमे वर्षे सः 'शास्त्री’ इत्यनेन उपाधिना पुरस्कृतः । यद्यपि अयम् उपाधिः विद्यापीठेन निवेशितः तथापि अयम् उपधिः तस्य नाम्ना सहितं संयुक्तः अभवत् । सः जनसेवकसंस्थायाः आजीवनसदस्यः अपि अभवत् तथा मुजपफरपुरमध्ये हरिजनानाम् उद्धाराय कार्यं कर्तुं प्रारभत । कालान्तरेण सः तस्याः संस्थायाः अध्यक्षः अभवत् । १९२७ तमे वर्षे शास्त्रिमहोदयः मिर्जापुरवासिनीं ललितादेवीं परिणीतवान् । यद्यपि तस्मिन् समये प्रभूतायाः वरदक्षिणायाः परम्परा आसीत् तथापि शास्त्रिमहोदयः केवलं एकं चक्रं खादीवस्त्रं वरदाक्षिणारूपेण स्वीकृतवान् । १९३० मध्ये गान्धिमहात्मनः लवणसत्याग्रहसमये सः स्वातंत्र्यसंग्रामाय आत्मानं समर्पितवान् । सः सार्धवर्षद्वयं कारागृहे आसीत् । एकदा यदा सः कारागृहे आसीत् तदा तस्य एका पुत्री अतीव रोगग्रस्ता अभवत् । अतः सः पञ्चदशदिनानि यावत् कारागृहात् मुक्तः । परन्तु तस्य गृहस्य प्राप्तेः पूर्वमेव तस्य पुत्री मृता । तस्याः दाहसंस्काराणां अनन्तरं सः स्वेच्छया विरामकालस्य समाप्तेः पूर्वमेव स्वयं कारागृहं प्रतिनिवर्तयामास । एकवर्षस्य अनन्तरं, यदा तस्य पुत्रः ज्वरेण तीव्रतया पीडितः अभवत् तदा सः एकसप्ताहं यावत् गृहं गन्तुम् अनुमतिम् अयाचत । अनुमतिः प्राप्ता किन्तु तस्य पुत्रः तु रोगात् मुक्तः न जातः । परिवारेण प्रार्थितोऽपि सः कारागृहाधिकारिभ्यः दत्तं वचनं पालयन् कारागृहं प्रत्यनिवर्तत ।

अनन्तरं १९३७ मध्ये उत्तरप्रदेशस्य लोकप्रतिनिधिसभायाः आयोजकसचिवरूपेण कार्यं कृतवान् । १९४० मध्ये एकवर्षं यावत् स्वातंत्र्यसंग्रामाय वैयक्तिकप्रोत्साहनं दत्तं इति कारणेन सः कारागृहं प्रेषितः । १९४२ मध्ये मुंबयीमध्ये गोवालियाटक् इत्यत्र आगस्ट्मासस्य अष्टमे दिनाङ्के महात्मा गान्धिवर्यः आंग्लैः भारतभूमिः त्याज्या इति धिया 'त्यजतु भारतम्’ इति धोषणं प्रसारितवान् । एकवर्षस्य कारावासस्य अनन्तरं बहिः आगतः शास्त्रीवर्यः अलाहाबादं प्रति प्रातिष्ठत(प्रस्थात् )। तत्र जवहारलालनेहरुमहोदयस्य स्वग्रामात् आनन्दभवनात् सः सप्ताहं यावत् स्वातंत्र्यसेनानीनाम् कृते सूचनाः प्रेषितवान् । कतिचिद्दिनेभ्यः पश्चात् सः पुनः गृहीतः १९४६ वर्षपर्यन्तं कारावासे क्षिप्तः । एवं शास्त्रिवर्यः कारावासे आहत्य नववर्षाणि यापयामास । कारावासदिनेषु सः पुस्तकानि पठन् कालक्षेपं कृतवान् । पाश्चात्यदार्शनिकानां, क्रान्तिकारिणां समाजसंशोधकानां कृतीः पठित्वा परिचयं प्राप्नोत् । सः मेरी क्यूरी इति शास्त्रज्ञायाः आत्मचरित्रमपि हिन्दी भाषया अनूदितवान् ।

सर्वकारे (शासने)[सम्पादयतु]

भारतस्य स्वातंत्र्यप्राप्तेः पश्चात् शास्त्रीवर्यः तस्य स्वराज्ये उत्तरप्रदेशे लोकसभासचिवरूपेण नियुक्तः । श्री गोविन्दवल्लभपन्तस्य मन्त्रिमण्डले सः रक्षणपरिवहनमन्त्री अभवत् । तदा सः ऐदम्प्राथम्येन महिलाः निर्वाहिकारूपेण न्ययोजयत् । यदा सः रक्षणविभागस्य मन्त्री आसीत् तदा दुर्निग्रहस्य अविधेयस्य जनसम्मर्दस्य अपसारणाय दण्ड्प्रहारस्थाने जलोत्क्षेपं प्रयोक्तुम् आदीशत । १९५१ मध्ये सः अखिभारतीयकांग्रेस्समितेः महासचिवरूपेण नियुक्तः । जवहरलालनेहरु प्रधानमन्त्रिरूपेण नियुक्तः । शास्त्रीवर्यः मतप्रार्थिनां चयनाय, प्रासिद्धिदिशा निर्देशनाय, निर्वाचनकार्यकलापाय उत्तरदायी आसीत् । १९५२,१९५७, १९६२तमेषु वर्षेषु प्रचलितेषु भारतीयसार्वत्रिकनिर्वाचनेषु कांग्रेस्पक्षेण विजयः यः प्राप्तः तस्मिन् सः महत्वपूर्णां भूमिकां निरवहत् ।

१९५१ तमे वर्षे नेहरुमहाभागः राज्यसभासदस्यत्वाय तस्य नामङ्कनं कृतवान् । १९५१ तः १९५६ पर्यन्तं केन्द्रीयमन्त्रिमण्डले सः रेल् -मन्त्रिरूपेण तथा परिवहनमन्त्रीरूपेण कार्यभारं निरूढवान् । १९५६ मध्ये महबूबनगरे १४४ जनानां मरणाय कारणीभूतायाः एतदुर्घटनायाः पश्चात् सः त्यागपत्रं दातुमुद्युक्तः । तथापि नेहरुमहाभागः तस्य त्यागपत्रं न स्वीकृतवान् । मासत्रयानन्तरं तमिलनाडुराज्ये अरियालुर इत्यत्र जातायां रेलुदुर्घटयां १५५ जनाः मृताः । तस्य नैतिकोत्तरदायित्वं स्वीकुर्वता तेन त्यागपत्रं समर्पितम् । लोकसभायाम् एतां दुर्धटनामुद्दिश्य भाषमाणः नेहरुमहाभागः एवं प्रतिपादितवान् यत् "शास्त्रिवर्यस्य त्यागपत्रं मया यत् स्वीकृतं तत् 'सः दोषी’ इति मत्वा न अपि तु संवैधानिक औचित्यस्य तत् उदाहरणाय भवेत् " इति अवदत् । नागरिकाः शास्त्रीवर्यस्य अभूतपूर्वम् आचरणं प्रशशंसुः । १७५७ मध्ये सार्वत्रिकनिर्वाचनानन्तरं शास्त्रिवर्यः आदौ परिवहनसञ्चारमन्त्रिरूपेण, तदनन्तरं वाणिज्योद्योगमन्त्रिरूपेण च दायित्वं निरवहत् । १७६१ तमे वर्षे गृहमन्त्री अभवत् । भ्रष्टाचारनिवारणार्थं के सन्तानं- महोदयस्य अध्यक्षतायां समितेः संरचनायां स एव कारणीभूतः अभवत्।

प्रधानमन्त्री[सम्पादयतु]

जवाहरलालनेहरुमहोदयः स्वस्य अधिकारावधौ एव तन्नाम १९६४तमे वर्षे मेमासस्य २७ तमे दिनाङ्के दिवङ्गतः । जूनमासस्य ९ दिनाङ्के शास्त्रीवर्यः प्रधानमन्त्रिपदे नियुक्तः । कांग्रेस् पक्षस्य अद्यक्षः के कामराजः अस्य कारणीभूतः । यद्यपि विनीतः मृदुभाषी तथापि शास्त्रीवर्यः नेहरु इव समाजवादी आसीत् इत्यतः दक्षिणपन्थिनः सम्प्रदायवादिनः च तं मोरारजीदेसायिमहोदयस्य अभ्युदये बाधकः इति भावयन्ति स्म । ११ जून १९६४ मध्ये आकाशवाण्यां कृते प्रथमभाषणे प्रधानमन्त्री शास्त्री अवदत् यत् "प्रत्येकराष्ट्रस्य जीवनकाले ताद्दशः कश्चन निर्णायकक्षणः आगच्छति यदा राष्ट्रम् इतिहासस्य परिवर्तनघट्टे तिष्ठति । कस्यां दिशायां केन मार्गेण गन्तव्यम् इति वरणम् अनिवार्यं भवति । किन्तु अस्माकं न कापि समस्या भवितुम् अर्हति । अस्माकं मार्गः सरलः स्पष्टः च अस्ति - 'देशे स्वातन्त्र्यसमृद्धियुक्तस्य सामाजिकलोकतन्त्रस्य निर्मितिः, विश्वमैत्रीभावः, विश्वशान्तेः रक्षणञ्च प्राधान्यम् आवहति" इति ।

शास्त्रीवर्यः स्वभाववैशिश्ट्यकारणात् परस्परविरोधिमतेषु सत्सु अपि सुवर्णमध्यमार्गं स्थापयितुं प्रयतते स्म । परन्तु आत्मनः अल्पे कार्यकाले राष्ट्रस्य आर्थिकसङ्कटस्थितौ आहाराभावस्य समस्यायाः परिहरणे सः निष्प्रभावः अभवत् । तथापि भारतीयजनमानसे तं प्रति महान आदरः आसीत् । भारतस्य हरितक्रान्तिं अग्रे नोदयितुं स तस्यैव जनादरस्य उपयोगं कृतवान् । तेन भारतदेशः अन्नाधिकदेशः अभवत् (अन्नाधिक्यं प्राप्नोत् )। एतत् सर्वं द्रष्टुं सः न जीवति स्म इत्येव खेदावहः विषयः । पाकिस्तानेन सह द्वाविंशतिदिनानां युद्धे, लालबहाद्दूरशास्त्रीवर्यः भारतस्य आहारोत्पादनवर्धनं मनसि निधाय तस्य प्रामुख्यम् अवगमयितुं 'जय जवान' जय किसान्’ इति घोषवाक्यम् अयच्छत् ।हरितक्रान्तिं दृढतया प्रतिपादयन् सः श्वेतक्रान्तेः अपि निमित्तभूतः अभवत्। १९६४ वर्षस्य आक्टोबरमध्ये कैरामण्डलस्य यात्रया अतीव प्रभावितः सः 'आणन्द' इत्यत्र यः यशस्वी प्रयोग कृतः तं शेषराष्ट्रमपि अनुकरोतु इति प्रचोदितवान्। १९६५ मध्ये तस्य प्रधानमंत्रीकार्यकाले राष्ट्रीय-दुग्ध-विकास-संस्था स्थापिता । यद्यपि सः समाजवादी आसीत् तथापि भारतदेशः आर्थिकव्यवस्थां नवीकरोतु इति शास्त्रीवर्यः प्रतिपादयति स्म । तस्य प्रधानमंत्री कार्यकाले सः रशिया, युगोस्लाविया, इंग्लैंड् केनडा तथा बर्मा (म्यानमार्) देशान् अभ्यगच्छत् ।

पाकिस्थानेन सह युद्धम्[सम्पादयतु]

शास्त्रिशासनस्य प्रमुखा समस्या आसीत् पाकिस्थानदेशः आगस्ट १९६५ मध्ये द्वीपकल्पस्य कच्छप्रदेशस्य अर्धभागस्योपरि आत्मनः प्रभुत्वं प्रतिपादयन् उपद्रवकारिणीः सेनाः भारतवर्षं प्रेषितवान् । ताः भारतस्य केनचित् सैन्यगणेन सह युद्धमकुर्वन् । कच्छप्रदेशे जातस्य संग्रामविषये लोकसभामुद्दिश्य प्रस्तुते आत्मनः निवेदने शास्त्रिवर्यः प्रात्यपादयत् यत् "वयम् आर्थिकविकासार्थं योजनानां प्रकल्पानां कृते च प्रथमप्राशस्त्यं यच्छन्तः अस्माकं सीमितसाधनानम् उपयोगं कृतवन्तः स्मः। अतः यः कोऽपि वस्तुनिष्ठतया अस्माकम् उद्देशं यदि पश्येत् तर्हि एतत् सुस्पष्टं भवेत् यत् सीमाघटनानां चोदने अथवा युद्धवातावरणनिर्माणे च भारतदेशस्य न कापि आसक्तिः भवितुं शक्यते इति। एतादृशीषु परिस्थितीषु शासनस्य कर्तव्यं न केवलं सुस्पष्टम् अस्ति अपि तु तस्य प्रभाविरूपेन क्रियान्वयनं निश्चितम् --’यावत्पर्यंतम् आवश्यकता अस्ति तावत्पर्यन्तं दारिद्र्येण भवनं वरं मन्यामहे । परं वयम् अस्माकं स्वातंत्र्यस्य नाशनं न सहामाहे। (अनुमन्यामहे)" जून १९६५ मध्ये आंग्लदेशस्य प्रधानमंत्री श्री हरेल्ड विल्सन् एकां योजनां प्रस्तुतवान् । तदनुसारं पाकिस्थानदेशः तस्य पञ्चाशतप्रतिशतस्य प्रदेशस्य स्थाने दशप्रतिशत् भागम् अलभत् । किन्तु पाकिस्थानस्य आक्रामकमनोभावः(मनोरथाः) काश्मीरप्रान्ते केन्द्रितः । यदा पाकिस्थानदेशीयाः सशस्त्राः अक्रमप्रवेशकाराः जम्मुकाश्मिरराज्यं प्रवेष्टुम् आरब्धवन्तः तदा शास्त्रिवर्यः स्पष्टम् उक्तवान् यत् "बलस्य बलेन उत्तरं दास्यामःइति। सप्टेम्बर् १९६५ मध्ये न केवलं भारतशासनं भञ्जयितुम् अपि तु सहानुभूतिं प्राप्य क्रान्तिं चोदयितुं युद्धोद्युक्तानां पाकिस्थानीभटानां तथा आक्रमप्रवेशकाराणां च उपप्लवाः आरब्धाः । क्रान्तिः न अभवत् । भारतदेशः स्वसैन्यं युद्धविरामरेखापारम् अप्रेषयत् (इदानीं नियन्त्रणरेखा)। लाहोरसमीपे अन्ताराष्ट्रियसीमारेखाम् अतिक्राम्य गतवन्तं पाकिस्थानदेशम् अभर्त्सयत् (अतर्जयत्)।१९६५ मध्ये भारतपाकयुद्धे प्रचलति सति चीन देशः भारतं प्रति एकं पत्रं प्रेषितवान् । तस्मिन् पत्रे चीनभूमौ भारतेन सैन्यसामग्री स्थापिता अस्ति । यदि सा न प्रतिस्वीक्रियते तर्हि भारतदेशः चीनदेशस्य कोपभाजनः भविष्यति 'इति सङ्केतः आसीत् । एवं चीनदेशस्य भारतोपरि आक्रमणस्य सम्भावनायां सति अपि शास्त्रीवर्यः अघोषयत यत् "चीनदेसस्य अयमारोपः मिथ्या । यदि चीनदेशः भारतस्योपरि आक्रमणं करिष्यति तर्हि वयम् अस्माकं स्वातंत्र्यरक्षणार्थं युद्धं करिष्यामः। अयम् अस्माकं दृढनिश्चयः इति ज्ञायताम् ।अस्मद्राष्ट्रस्य अखण्डतायाः परिरक्षणार्थं चीनदेशस्य बलम् अपि अपर्याप्तमेव भवेत् " इति । चीन देशात् न किमपि प्रत्युत्तरं प्राप्तम् । २३ सप्टेम्बर् दिने अन्ततो गत्वा, संयुक्तराष्ट्रसङ्घस्य युद्धविरामस्य आदेशात् भारत-पाक युद्धं समाप्तम् । शास्त्रीवर्यः युद्धविरामदिने राष्ट्रं प्रति आकाशवाणीप्रसारणे एवमवदत् - "यद्यपि उअभयोः देशयोः शस्त्रधारिणोः सैन्ययोः कलहः समाप्तः तथापि इतोऽपि अधिकं महत्वपूर्णं कार्यं नाम् संयुक्तराष्ट्रसङ्घः तथा सर्वे शान्त्युपासकः इतोऽपि गम्भीरतरं युद्धं समाप्येताम् इति । एतत् कथं शक्यम् ? अस्माकं मते अस्य एकमेव उत्तरं अस्ति तत् नाम शान्तिपूर्णं (पूर्वकं) सहास्तित्वम् । भारतदेशेन सदैव सहास्तित्वतत्त्वस्य पुरस्कारः कृतः एवं च जगति सर्वत्र तस्य पालनार्थं प्रचारः कृतः । विविधदेशानां मध्ये ये केऽपि च मतमेदाः भवन्तु, राजनैतिक-आर्थिक प्रणालीषु ते परस्पर भिन्नाः सन्तु नाम, ये विषयाः तान् विभजन्ते ते अतीव गहनाः भवन्तु नाम राष्ट्राणां मध्ये शान्तिपूर्णं सहास्तित्वं शक्यं भवेत्" इति ।

ताश्कन्द् मध्ये मृत्युः[सम्पादयतु]

युद्धविरामस्य घोषणायाः पश्चात् शास्त्रीवर्यः पाकिस्थानाध्यक्षः मुहम्मद् अयूब खान् महोदयः च अलेकसै कोसिजिन् महोदयेन ताश्कन्द् इत्यत्र आयोजिते शिखर- सम्मेलने भागम् ऊढवन्तौ ।१० जनवरी १९६६ दिनाके शास्त्रिवर्यः तथा खानमहोदयः ताश्कन्दघोषणापत्रे स्वाक्षरीं कृतवन्तौ । अन्येद्युः इतः पूर्व द्विवारं हृदयाघातेन पीडितः शास्त्रिवर्यः मध्यरात्रौ १.३२ वादने नूतनहृदयाद्यातेन मृतः । विदेशे, स्वकार्यकाले मृतः सः एकमेव प्रधानमंत्री आसीत् । शास्त्रिवर्यस्य मृत्योः गूढम् यद्यपि अधिकारिकरीत्या हृदयाघातेन मृतः इत्येव प्रतिपादितम् तथापि श्रीमती ललितादेवी शास्त्री पतिः विषप्रयोगेन मृतः इति सातत्येन आरोपं कृतवती । तस्य मृतशरीरं नीलवर्णेन परिवर्तितम् आसीत्। तस्मिन् विषप्रयोगः कृतः इति अन्येऽपि बहवः अमन्यन्त। जूनमासे कश्चन रशियन् पाचकः विषप्रयोगं कृतवान् इति गृहीतः अनन्तर सः सर्वेभ्यः आरोपेभ्यः निरपराधिः इति मुक्तः ।

२००७ मध्ये 'मध्य-एषिया उपरि सी.आय.ए. संस्थायाः कुदृष्टिः 'इति पुस्तकस्य लेखकः श्री अनिलधरः सूचनाधिकरविधेयकान्तर्गतं शास्त्रीवर्यस्य मृत्योः कारणं सार्वजनिकं करोतु इति प्रार्थनां कृतवान् । परन्तु प्रधानमंत्रीकार्यालयः 'एवं करोति चेत् विदेशसम्बन्धाः बाधिताः भवेयुः, देशे अराजकता उत्पद्येत, लोकसभायाः भङ्गः जाये” इत्यादि कारणैः तस्य विरोधं चकार । प्रधानमंत्रीकार्यालयेन एतावत् प्रकटितं यत् तस्यान्तिके शास्त्रिमहाभागस्य मृत्योः सम्बन्धि एकं पत्रमासीत् परंतु तस्य निर्वर्गीकरणाय तेन प्रतिषेधः कृतः । शासनेन एतदपि अङ्गीकृतं यत् रशियामध्ये शास्त्रीमहाभागस्य अवविच्छेदनपरीक्षणं न कृतम् । तथापि तस्य निजवैद्ये डा आर एन् चुधमहोदयेन तथा अन्यैः रशियादेशस्य वैद्यैः कृतं वैद्यकीय-अभिवेदनं शासनस्यान्तिके आसीत् इति । अन्यच्च प्रधानमंत्री कार्यलयतः शास्त्रिमहाभागस्य मृत्योः सम्बद्धानि पत्रकाणि नष्टानि अथवा तिरोहितानि इति लेखप्रमाणम् अपि न प्रकटितम् ।अद्यापि उत्तरं अपेक्षितम् अस्ति ।

व्याक्तिमत्त्वम्[सम्पादयतु]

शास्त्रिवर्यः जवहरलालनेहरुः एतयोः व्यक्तित्वे सामान्यांशः आसीत् अत्यल्पः । शास्त्रिवर्यः पाकिस्थानेन सह शान्तिसन्धानम् ऐच्छत् । १९६५ तमे वर्षे भारतपाकिस्थानयोः युद्धस्य अनन्तरं सः स्वस्य मित्राय पत्रमलिखत् यत् उभयोः देशयोः समस्याः परस्परमैत्रीपूर्णमार्गेण निवारणीयाः इति । पूर्वं युद्धे तेन सत्वरं निश्चयात्मिका कृतिःआचरिता, चातुर्यं प्रदर्शितम् । सः सर्वैः सेनाप्रमुखैः सह विमर्शं कृत्वा पञ्जाबसीमायम् आकमणं कर्तुम् आदिशत्। । १९६२ मध्ये एतादृशे एव सन्दर्भे नेहरुमहोदयः पदातिनां भारं न्यूनीकर्तुं वायुसेनाप्रेषणाय नकारं दत्तवान् । एतत् तु शास्त्रीवर्यस्यं आचरणात् सर्वथा विपरीताचरणम् आसीत् ।

तथापि नेहरु महोदय इव शास्त्रिवर्यः धर्मनिरपेक्षः आसीत् । धर्मस्य राजनीत्या सह मेलने तस्य विरोधः आसीत् । युद्धविरामानन्तरं रामलिलाप्राङ्गणे आयोजितायां सार्वजनिकसभायां सः बीबीसीसंस्थाम् अभर्त्सयत् । तया संस्थया 'शास्त्रीवर्यः हिन्दुः अतः सः पाकिस्तानेन युद्धाय सज्जः आसीत्’ इति अभियोगः कृतः आसीत् । प्रत्युत्तररूपेण सः अवदत्-" अहं हिन्दुः, अस्याः सभायाः अध्यक्षस्थाने स्थितः मीरमुश्ताकः यवनः । श्री फ्रङ्क अन्थोनी यः अत्र भाषणं कृतवान सः आंग्लदेशीयः क्रैस्तः, अत्र सिख् पारसिकाः अपि सन्ति । अस्माकं देशस्य एतदेव वैशिष्ट्यं यत् अत्र हिन्दवः यवनाः क्रैस्ताः सिक्खाः पारसिकाः इति सर्वधर्मियाः वसन्ति । अत्र यथा देवालयाः तथा यवनानां धर्ममन्दिराणि, गुरुद्वाराणि, चर्च (क्रैस्तानां धर्ममन्दिरं ) अपि सन्ति । तथापि वयं एतेषां राजनीत्या सह मिश्रणं न कुर्मः । अयमेव भेद्दः भारत पाकिस्थानमध्ये ।सः बहूनि वर्षाणि केंद्रीयमंत्री आसीत् तथापि यदा तस्य देहान्तः अभवत् तदा सः निर्धनः आसीत् ।अन्ते तस्यान्तिके एकं जीर्णं कारयानं मात्रं असीत् । तेन उच्चमानदण्डाः स्थापिताः । सः एकः एव रेलमंत्री तादृशः आसीत् यः भीषण् रेल्-दुर्घटनायाः पश्चात् नैतिकोतरदायित्वं स्वीकुर्वन् त्यागपत्रं दत्तवान् । शास्त्रिवर्यस्य मृत्योः पश्चात् भारतीयराजनैतिकजीवनात् मूल्यानि निर्गतानि इवं भासन्ते । यदि सः अजीविष्यत् तर्हि भारतदेशः अधिकसुस्थितौ अभविष्यत्, अधिकाजनाः दारिद्र्यात् उद्धृताः अभविष्यन् इति इतिहासकाराः वदन्ति ।

टिप्पणी[सम्पादयतु]

  1. "न विस्मरेम...", २ अक्टोबर् २००४. 
  2. "लालबहादूरशास्त्री-जननम्". Retrieved 1 मार्च् 2014. 
  3. "तिलक-गान्धिवर्ययोः प्रभावः". Retrieved 1 मार्च् 2014. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=लाल_बहादूर_शास्त्री&oldid=267203" इत्यस्माद् पुनः प्राप्तिः