भीमसेन जोशी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
भीमसेनजोशी
Pandit Bhimsen Joshi (cropped).jpg
व्यैक्तिकतथ्यानि
मूलतः भारतीयः
सङ्गीतविद्या हिन्दुस्तानीशास्त्रीयसङ्गीतम्
वृत्तिः गायकः
सक्रियवर्षाणि क्रि.श १९४१तः २०११ ।





पण्डितः भीमसेनजोशी हिन्दुस्तानीसङ्गीतपरम्परायाः विश्वप्रसिद्धगायकेषु अन्यतमः । भारतरत्नप्रशस्तिभूषितेषु सर्वप्रथमः हिन्दुस्तानीगायकः । एषः भारतदेशस्य कर्णाटकराज्यस्य गदगमण्डलस्य केन्द्रपत्तने अजायत । एतस्य जनकः पाठशालाया: अध्‍यापक: आसीत् । सवायी गन्धर्वमहोदयः एतस्य गुरुः।

अविभक्तमहापरिवारः[सम्पादयतु]

भीमसेनस्य जन्म गदगमण्डलस्य रोणजनपदे क्रि.श. १९२२ तमवर्षस्य फेब्रवरिमासे चतुर्थे दिने रथसप्तम्याः पावने दिने अभवत् । अस्य पूर्वजाः मूलतः गदगमण्डलस्य होम्बळग्रामीणाः । अस्य पिता गुरुराजजोशी संस्कृतभाषायाः पण्डितः गदगस्य मुन्सिपल् शालायाः अध्यापकः आसीत् । क्रमेण बागलकोटेनगरस्य बसवेश्वरप्रौढशालायाः मुख्योपाध्ययः अपि अभवत् । गुरुराजस्य प्रथमजायया रमाबायीवर्यया सप्तापत्यानि द्वितीयया नवापत्यानि चाभवन् । पुत्रेषु ज्येष्ठः एव भीमसेनः । अन्यापत्यानि वनमाला, नारायणः, वेङ्कण्णः, हेमक्का, मद्दु, माधु, दामोदरः, परिमळा, विशालः, प्रकाशः, जयतीर्थः,सुशीलेन्द्रः, प्राणेशः, वादिराजः , ज्योती, सुशीलेन्द्रः, इत्यादयः । बहवः पुत्राः मराठीकन्नडयोः नाटकरङ्गभूमौ कार्यं कुर्वन्ति ।

गुरोः अन्वेषणम्[सम्पादयतु]

बाल्ये भीमसेनस्य दिचक्रिकासञ्चारः प्रियतमं व्यसनम् असीत् । वस्तूनि आनेतुं कुटुम्बस्य ज्येष्ठाः वदन्ति चेत् तेन व्याजेन बहुकालं द्विचक्रिकया पत्तनम् अटति स्म । सङ्गीतविषये अतीव उन्मत्तः एकादशे वयसि गृहं त्यक्त्वा मुम्बैनगरम् अगच्छत् । किन्तु हस्ते धनं नासीत् । अतः परिश्रमकार्यं कृत्वा वीथ्यां शयानः दिनानि यापयत् । बुभुक्षितः पिपासितः अन्यमार्गम् अपश्यन् स्वग्रामम् आगच्छत् । सङ्गीताध्यनस्य अतीवासक्त्या द्वितीयवारं कुटुम्बं त्यक्त्वा ग्वालियर् नगरम् आगच्छत् । पश्चात् गायकस्य विनायकराव पटवर्धनस्य निर्देशानुसारं धारवडम् आगत्य सवायी गन्धर्वस्य आश्रये सङ्गीताभ्यासम् आरब्धवान् । क्रमेण हिन्दुस्तानसङ्गीतस्य परम्परायाः किराणाघराणायां परिणतः भीमसेनः पञ्चदशकवर्षाणि यावत् देशविदेशेषु सङ्गीतगोष्ठयः सञ्चालितवान् ।

कुटुम्बवृत्तान्तः[सम्पादयतु]

पं.भीमसेनस्य पितृव्यः गोविन्दाचार्यः 'जडभरतः' इति काव्यनाम्ना कन्नडभाषासाहित्ये विश्रुतः रूपककारः, लेखकः च । कर्णाटकस्य प्रसिद्धा प्रकाशनसंस्था मनोहरग्रन्थमाल अस्य एव परिश्रमस्य फलम् । अस्य पितामहः ख्यातः हरिकथादासः । कालक्रमेण दासवणीशास्त्रीयवलयेषु अप्रतिमं यशः प्राप्य सङ्गीतमपि अपोषयत् । क्रि.श.१९४४ तमे वर्षे भीमसेनस्य विवाहः सुनन्दया सह अभवत् । दाम्पत्यफलरूपेण क्रमेण रघवेन्द्रः, उषा, सुमङ्गला, आनन्दः चेतिचत्वारि अपत्यानि अजायन्त । सुनन्दायाः अकालमृत्युना वत्सला द्वितीया अभवत् । तस्याः जयन्तः, शुबदा, श्रीनिवासः इति त्रीणि अपत्यानि प्राप्तवान् । पितुः परमशिष्यः श्रीनिवासः प्रबुद्धः हिन्दुस्तानीगायकः अस्ति ।

गदगप्रदेशेन अविनभावसम्बन्धः[सम्पादयतु]

गदगस्य कठोररोटिकया सह झुणक भक्षणम् अस्य अतीवप्रियः आहारः । स्वस्य ग्रामस्य जनानां सन्तोषाय अनेकान् सङ्गीतकार्यक्रमान् आयोजितवान् । क्रि.शा. १९८२ तमे वर्षे वेङ्केटेशचलच्चित्रमन्दिरे, हत्तिकाळ कूटावसरे, क्रि.श. १९८५ समये कार्पासविपणिषु, क्रि.श. १९९२तमे वर्षे अभिनयरङ्ग विद्यादानसमितिप्रौढशालावरणे, कर्णाटकचित्रमन्दिरे च अनेकाः सङ्गीतगोष्ठीः च प्रदर्शितवान् । अनेन सङ्गृहितधनेन पठशालानां प्रकोष्ठनिर्माणे मन्दिराणां पुनरुत्थानार्थं च विरीर्णवान् ।

हिन्दुस्तानीसङ्गीतस्य सार्वभौमः[सम्पादयतु]

कोलकतानगरं प्रतिवर्षं २०वारम् गच्छति स्म । हिन्दुस्तानीगायकानां कोलकतानगरे सङ्गीतगोष्ठिसञ्चालनं गौरवस्थानम् । भिमसेनः ततः सर्वदा आमन्त्रणं प्राप्नोति स्म । एतत् अस्य लोकप्रियतायाः निदर्शनम् । कोलकतानगरस्य अस्य केचनप्रसिद्धकार्यक्रमाः एवं सन्ति ।

  • आल् बेङ्गाली म्यूसिक् कान्फरेन्स् ।
  • तन्सेन् म्यूसिक् कान्फरेन्स् ।
  • डोवर् लेन् म्यूसिक् कान्फरेन्स् ।

हिन्दुस्तानीसङ्गीतस्य खयाल् कृतीनां गाने जोशी सिद्धहस्तः । कन्नडभाषायाः दाससाहित्यस्य गानेऽपि कुशलः आसीत् । तत्र किञ्चित् "भाग्यद लक्ष्मी बारम्म्" इति गानं तु अतीवलोकप्रियम् अस्ति । अस्य स्वरयुक्तानि अनेकानि गीतगुच्छनि बहुभिः भाषाभिः लोकार्पितानि ।भक्तिगीतानि, भजनानि, मराठीगीतानि, अभङ्गानि, नाट्यगीतानि च अनेन गीतानि ध्वनिमुद्रितानि इदानीमपि अधिकाभ्यर्थितानि सन्ति । भीमसेनः स्वभावतः मौनी । प्रश्नस्य उत्तरं सर्वदापि निरीक्षितुं नैव शक्यते स्म । तस्य वाचालत्वं जनाः भीमपलास्य़ां बृन्दवनसारङे वा रागेषु पश्यन्ति स्म । एषः सर्वदा सङ्गीतस्य मनोदशायाम् एव भवति स्म । सङ्गीतासक्तिः गुरुभक्तिः सर्वदा अस्य मन्त्रः । एतदतिरिच्य भीमसेनः किमपि न चिन्तयति स्म ।

नादपुत्रजनम्[सम्पादयतु]

नादपुत्रजनम् पित्रा लिखितः पुत्रकथाग्रन्थः। भीमसेनस्य पिता गुरुराजः पुत्रस्य जीवनस्य गाल्यं शिक्षा साधनं च अधिकृत्य ग्रन्थमेकम् अरचयत् । भीमस्य सङ्गीते उन्मत्तता, कलोपासनायां स्वस्य अवरुद्धिः, निर्धारस्य परिवर्तनम्, पुत्रस्य महागायकत्वसिद्धिः इत्यादयः विचाराः अत्र निरूपिताः ।

पुण्यपत्तनवासः[सम्पादयतु]

भीमसेनस्य अधिकृतः वैयक्तिकजीवनस्य निवासः पुण्यपत्तने (पुणे) एव आसीत् । क्रि.श. [[१९५२[[ तः प्रतिवर्षे स्वस्य गुरोः सवायिगन्धर्वस्य स्मरणे सङ्गीतमहोत्सवम् आचरति स्म । हुब्बळ्ळि नगरस्य हानगल् सङ्गीतसंस्था क्रि.श. २००७ तमे वर्षे सङ्गीतकलानिधिः इति प्रशस्तिं गङ्गूबायी हानगल् इत्यस्याः सङ्गीतविदुष्याः हस्तात् अदापयत् । कार् यानस्य चालने अस्य अतीव रुचिः आसीत् ।

प्रमुखशिष्याः[सम्पादयतु]

पण्डितस्य भीमसेनस्य शिष्येषु माधवगुडी, श्रीकान्त देशपाण्डे, विनायक तोरवी, उपेन्द्र भट्टः, श्रीनिवासजोशी, सञ्जीव जहगीरदारः, राजेन्द्र कन्दल्गाव्कर्, आनन्द भाटे, विनायक पि.प्रभु, रामकृष्ण पटवर्धनम् श्रीपति पाडिगार, पलायार वराज़्, रशीद् खान्, आशुतोष मुखर्जि इत्यादयः प्रमुखाः ।

अन्तिमयात्रा[सम्पादयतु]

क्रि.श. २०११ तमवर्षस्य जनवरिमासस्य २४तमे दिनाङ्के पुण्यपत्तनस्य चिकित्सालये स्वस्य ८९तमे वर्षे दिवङ्गतः।

भीमस्य जीवनस्य प्रमुखघटनाः[सम्पादयतु]

  • क्रि.श. १९२२ तमवर्षस्य फेब्रवरिमासस्य चतुर्थदिनम् - रोणग्रामे रमाबायीगृहे जननम् ।
  • क्रि.श. १९३१ तमवर्षे गदगप्रदेशे प्रचलिते सार्वजनिकसमावेशे नेह्रूपुरतः वन्देमातरम् गानम् ।
  • क्रि.श. १९३३ तमवर्षे गृहपरिवारत्यागः, मासद्वायानन्तरं विजापुरतः निर्गमनम् । पुनः गृहत्यागः ।
  • क्रि.श. १९३६ तमवर्षे पुणे, ग्वालियर्, कोलकता, जलन्धर इत्यादिषु प्रदेशेषु अटनम् ।
  • क्रि.श. १९३८ तमवर्षे कुन्दगोळस्य सवायिगन्धर्वस्य आश्रये सङ्गीताभ्यासाराम्भः
  • क्रि.श. १९४१ तमवर्षे सवायिगन्धर्वेण गण्डाबन्धनम् ।
  • क्रि.श. १९४२ तमवर्षे लखनौ आकाशावाणीकेन्द्रे उद्योगप्राप्तिः ।
  • क्रि.श. १९४३ तमवर्षे बोम्बायी, निजामरेडियो, इति आकाशवाण्या गानार्थं सन्धिः, सुनन्दा इति कन्यया सह विवाहः ।
  • क्रि.श. १९४६ तमवर्षे सवायिगन्धर्वगुरुवरस्य षष्ट्यब्दनिमित्तं पूणानगरे गानगोष्ठी ।
  • क्रि.श. १९४८ तमवर्षे मङ्गळूरुनगरे गानगोष्ठी, श्रीधरस्वामिनाम् आशीर्वादप्राप्तिः ।
  • क्रि.श. १९४९ तमवर्षे कोलकतानगरे प्रथमसङ्गीतगोष्ठी ।
  • क्रि.श. १९४८- ५० तमवर्षेषु कन्नडभाषागीतनाटकेषु अभिनयः, नायकभूमिकायाः समर्थपोषणम् ।
  • क्रि.श. १९५१ तमवर्षे वत्सला इति कन्यया सह द्वितीयविवाहः ।
  • क्रि.श. १९३८ तमवर्षे सवायिगन्धर्वस्य प्रथमपुण्यश्राद्धनिमित्तेन सङ्गीतगोष्ठी ।
  • क्रि.श. १९३८ तमवर्षे आकाशवाण्याः राष्ट्रियसङ्गीतास्य प्रथमकार्यक्रमः । पूणेनगरस्य रामेश्वरमन्दिरस्य ब्रह्मवृन्दतः पण्डितः इति उपाधिर्प्रदानम् ।
  • क्रि.श. १९६० तमवर्षे एल्.पि.प्रथमध्वनिमुद्रिका ।
  • क्रि.श. १९३८ तमवर्षे उस्ताद् बडेगुलाम् अलीखान् प्रशस्तिः ।
  • क्रि.श. १९६४ तमवर्षे गानाचार्य अखिलभारतीयप्रशस्तिः । प्रथमा अफगानिस्तानयात्रा । गन्धर्वमहाविद्यालयस्य प्रशस्तिप्राप्तिः ।
  • क्रि.श. १९७० तमवर्षे स्वरभासकरप्रशस्तिः ।
  • क्रि.श. १९७६ तमवर्षे प्रभाकरराव इत्यनेन सम्माननम् । गुलबर्गाविद्यापीठतः डि.लिट् पदवीप्राप्तिः ।
  • क्रि.श. १९७८ तमवर्षे सङ्गीतनाटकाकदमीपुरस्कारः, कोलकतायां दक्षिणबार्तासंस्थायाः सम्माननम् ।
  • क्रि.श. १९७९ तमवर्षे भारतसर्वकारस्य पद्मविभूषणप्रशस्तिः । कान्पुरमहनगरपालिकायाः अभिनन्दनपत्रप्राप्तिः ।
  • क्रि.श. १९९० तमवर्षे महाराष्ट्रसर्वकारस्य पुरस्कारः ।
  • क्रि.श. १९९१ तमवर्षे तन्सेन पुरस्कारः । पत्न्याः सुनन्दायाः मरणम् ।
  • क्रि.श. १९९२ तमवर्षे दीननाथ मङ्गेश्करपुरस्कारः ।
  • क्रि.श. १९९२ तमवर्षे देशिकोत्तमप्रशस्तिः ।
  • क्रि.श. १९९४ तमवर्षे महाराष्ट्रस्य तिलकविद्यापीठस्य डि.लिट् पदवी ।
  • क्रि.श. १९९६ तमवर्षे पुणे (पुण्यपत्तनम्)नगरपालिकायाः सम्माननम् । पुण्यभूषणप्रशस्तिः ।
  • क्रि.श. १९९७ तमवर्षे स्वराधिराजग्रन्थलोकार्पणम् ।
  • क्रि.श. १९९९ तमवर्षे भारतसर्वकारस्य पद्मविभूषणप्रशस्तिः
  • क्रि.श. २००१ तमवर्षे पुणेविश्वविद्यालये भीमसेनजोशी पीठस्य प्रतिष्ठापनम् ।
  • क्रि.श. २००२ तमवर्षे महाराष्ट्रसर्वकारस्य अत्युन्नतपुरस्कारः महाराष्ट्रभूषणप्रशास्तिप्राप्तिः । स्वातितिरुनाळ इति केरळराज्यस्य अत्युन्नतप्रशस्तिः। धारवाडस्य कर्णाटकविश्वविद्यालयस्य सगौरवं डि.लिट् प्रशस्तिः । कर्णाटकसर्वकारस्य अत्युन्नतपुरस्कारः कर्णाटकरत्नप्रशस्तिः ।
  • क्रि.श. २००२ तमवर्षे स्वामी हरिवल्लभादासपुरस्कारः ।
  • क्रि.श. २००८ तमवर्षे भारतस्य अत्युन्नतपुरस्कारः भारतरत्नप्रशस्तिः
  • क्रि.श. २००९ तमवर्षे देहलीसर्वकारस्य जीवनगौरवपुरस्कारः ।
  • क्रि.सा. २०१० तमे वर्षे बेङ्गळूरुनगरस्य रामसेवामण्डली संस्थया एस्.वि.नारयण स्वामी राव राष्ट्रियपुरस्कारः ।
  • क्रि.श. २०११ तमवर्षे पुण्यपत्तने (पुणे) मरणम् ।

बाह्यानुबन्धाः[सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=भीमसेन_जोशी&oldid=258233" इत्यस्माद् पुनः प्राप्तिः