पुरन्दरदासः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Purandara Dasaru
नाम ಪುರಂದರ ದಾಸರು
जन्मनाम Srinivasa Nayaka ‌
ಶ್ರೀನಿವಾಸ ನಾಯಕ
जन्म 1484
Kshemapura, near Tirthahalli, Shivamogga district, Karnataka
मूलतः Kshemapura, Shivamogga, Karnataka state, India
मरणम् 1564
Hampi, Karnataka state, India
सङ्गीतविद्या Carnatic music
वृत्तिः Carnatic vocalist



पीठिका[सम्पादयतु]

पुरन्दरदासः (Purandara Dasa) श्रेष्ठः कीर्तनकारः । भारतदेशस्य महाराष्ट्रराज्यस्य पुणे (पुण्यपत्तनम्) जनपदस्य पुरन्दरदुर्गे पुरन्दरदासः क्रि.श १४८० तमे वर्षे जन्म प्राप्तवान् । एतस्य पितुः नाम "वरदप्पः" , मातुः नाम "लक्ष्मम्मा" इति । एतस्य पिता बहु धनिकः आसीत् । पुरन्दरदासस्य पुर्वाश्रमस्य नाम "श्रीनिवासनायकः" अथवा "शीनप्पनायकः" इति । एतस्य पत्न्याः नाम "सरस्वतीयम्म" । एतयोः चत्वारः पुत्राः आसन् वरदप्पः, गुरप्पः, अभिनवप्पः, मध्वपतिः चेति । हरिदासपरम्परयां समागताः गीताकाराः एते । पुरन्दरदासः दासपरम्परायाम् अग्रगण्यः । नारदस्य अवतारः एषः इति जनाः विश्वसन्ति । कर्णाटकसङ्गीतस्य पितामहः इति अस्य ख्यातिः । एषः कथं पुरन्दरदासः अभवत् इति एका लघुकथा अस्ति । एतस्य पत्नी सरस्वतम्म उत्तमा सात्विका, उदारमनाः सद्गुणी च आसीत् । पाण्डुरङ्गः(श्रीहरिः) निर्धनब्राह्मणस्य वेषं दृत्वा षण्मासान् यावत् शीनप्पनायकं 'दानं करोतु’ इति याचनां कृत्वा अन्ते जामिताम् अनुभूय सरस्वतियम्मायाः समीपं गतवान् । तदा सा करुणया स्वनासाभरणं दत्तवती । एतस्य नासाभरणस्य कारणतः शीनप्पनायकस्य मनसि वैराग्यम् आगत्य सः पुरन्दरदासः अभवत् इति कथा श्रूयते । पुरन्दरदासः व्यासरायस्य शिष्यः आसीत् । भक्तिरसेन पूरितानि अनुभवगीतानि रचितवान् । कर्णाटके सर्वत्र एतानि गीतानि गीत्वा भक्तिपथं प्रसारयितुं कारणीभूतः अभवत् । एतस्य गीतेषु पुरन्दरदासः इति अङ्कितम् अस्ति । पुरन्दरदासः शलिवाहनशके १४८६ तमे वर्षे रक्ताक्षिसंवत्सरे पुष्यमासस्य अमावास्या दिने स्वस्य ८४ तमे वर्षे दिवङ्गतः । अनेन सह दासपद्धतेः अन्ये च प्रमुखाः कनकदासः जगन्नाथदासः विजयदासः कमलेशविठलः इत्यादयः गीसङ्गीतैः लोके भक्तिमार्गं समदर्शयन् । पुरन्दरदासस्य सर्वेषां कीर्तनानाम् अने पुरन्दरविठल इति अङ्कितं दृश्यते । पुरन्दरदासस्य १०००कीर्तनानि अद्यापि उपलभ्यानि सन्ति । अस्य सर्वाणि कीर्तनानि कन्नाडजानां कृते भक्तिमार्गप्रचोदकानि सन्ति । कर्णाटकसङ्गीतविदुषाम् अतिप्रियः दासवरेण्यः । ५लक्षाधिकपद्यानि लिखामि इति पुरन्दरदासस्य सङ्कल्पः आसीत् । किन्तु ४,७५०००पद्यानि विरचय्य स्वावतारं समापितवान् । तस्य पुत्रः२५०००पद्यानि विरचय्य तस्य आशयं समापितवान् इति पण्डितानाम् अभिप्रायः अस्ति ।

बाल्यम्[सम्पादयतु]

पुरन्दरदासस्य पिता वरदप्प नायकः माता लक्ष्मम्मा च । वरदप्पस्य धवृद्धेः व्यवहारः आसीत् । बहुवर्षाणि तयोः सन्तानं नाभवत् । अतः तिरुपतिं गत्वा श्रीनिवासस्य दर्शनं कृत्वा प्रार्थनां कृतवन्तौ । तदनन्तरः तयोः दम्पत्योः पुत्रसन्तानम् अभवत् । अतः पुत्रस्य श्रीनिवास इति नाम अकुर्वन् इति जनाभिप्रायः । श्रीनिवास नायकः प्रापयौवनः पितुः व्यवहारान् एव अनुवर्तितवान् । कालक्रमेण सः अतीव कृपणः सञातः पितरि अस्वस्थे अपि धनव्ययं कर्तुं सिद्धः नाभवत् । किन्तु तस्य पत्नी लक्ष्मीः दानशीला इति सर्वदा श्रीनिवासः कोपं प्रकटयति स्म । तस्य कुटुम्बः पण्डरपुरे न्यवसत् । किन्तु कालन्तरेण कर्णाटकराज्यस्य विजयनगरम् (हम्पी) आगच्छत् इति ज्ञायते ।

मनःपरिवर्तनम्[सम्पादयतु]

पुरन्दरदासस्य मनः परिवर्तनविषे काचित् कथा श्रूयते । कदाचित् विठलः इति नामान्वितः कश्चित् विप्रः श्रीनिवासस्य आपणम् आगत्य पुत्रस्य उपनयनार्थम् सहाय्यम् अयाचत । कृपणः श्रीनिवासः प्रतिदिनं श्वः आगच्छतु इति उक्त्वा कालम् यापितवान् । पुनरपि आगतं तं निवारयितुं तस्मैः निर्मौल्यं निष्कम् अयच्छत् । विठलः श्रीनिवासस्य गृहं गत्वा सहायार्तं तस्य पत्नीं सहाय्यार्थम् प्रार्थयत् । करुणया सा स्वस्य नासाभरणं दत्तवती । सः विप्रः तत् आभरणं श्रीनिवासस्य आपणमेव आनीय धनविनिमयर्थम् प्रार्थितवान् । श्रीनिवासं स्वपत्न्याः नासाभरणम् अभिज्ञाय तत् सुरक्षितं कृत्वा गृहमेत्य पत्नीं नासाभारणं प्रदर्शयितुम् अवदत् । भीता लक्ष्मीः यदा विषं पातुमुद्युक्ता तदा तस्या विषपत्रे नासाभरणम् अपतत् । श्रीनिवासः आपणम् आगत्य पाश्यति किन्तु तत्र कीलितायां मञ्जूषायां तदाभरणं नासीत् । स्वकर्मणा स्वयं लज्जमानः श्रीनिवासः ऐहिके विरक्तः स्वस्य सर्वं लौकिकं व्यवहारं त्यक्त्या हरिदासः अभवत् ।

कविः सङ्गीतज्ञः[सम्पादयतु]

पुरन्दरदासस्य कीर्थनानि पद्यानि च प्रासबद्धानि अर्थान्वितानि च सन्ति । यथा...
कुदुरे अन्दण आने बयसोदु नरचित्त ; पादचारि आगोदु हरिचित्तवय्य
इत्युक्ते मानवः अश्वं स्यन्दनं गजं चेच्छति । किन्तु हरिचित्तं यदि नास्ति तदा पादचारी एव भवति इति ।

पुरन्दरदासस्य कीर्तनानि कर्णाटकसङ्गीतस्य मूलम् अभवन् । सामान्य जानान् अपि शास्त्रीयसङ्गीतस्य परिचाययितुम् इच्छन् पुरन्दरदासः विविधमार्गान् चिन्तितवन् । अद्यापि कर्णाटकशैल्याः शास्त्रीयसङ्गीतपाठाः पुरन्दरदासस्य सरले वरसे जण्टी वरसे इत्यादिभिः एव आरय्भते । अस्य पिळ्ळारि गीतेगळु (लम्बोदर लकुमिकर, केरेय नीरनु केरेगे चेल्लि इत्यादीनि) सङ्गीतस्य स्वरान् साहित्यानि लयान् च अभ्यस्तुं सोपानानि भवन्ति । कर्णाटकशास्त्रीयसङ्गीतस्य त्रिमूर्तिषु अन्यतमः त्यागराजः उक्तवान् यत् पुरन्दरदासः मम सङ्गीतगुरुः इति । हरेनामस्मरणे तेन रचितानि गीतानि अद्य देवरनाम इत्येव प्रसिधानि सन्ति । तस्य हरिभक्तिः सङ्गीतस्य पाण्डित्यं च कन्नडभाषायाम् एव अतिविशिष्टं स्थानयुक्तं दाससाहित्यम् समृद्धम् अकुरुताम् । कर्णाटकसङ्गीतस्य पितामहः इति ख्यातस्य पुरन्दरदासस्य उपलब्धिं प्रशंस्य कवयः दासरेन्दरे पुरन्दरदासरय्य (दासः इत्युक्ते पुरन्दरदासः एव नान्यः) इति अवदन् ।

बाह्यानुबन्धाः[सम्पादयतु]

स्थूलाक्षरैः युक्तः भागः

"http://sa.wikipedia.org/w/index.php?title=पुरन्दरदासः&oldid=277669" इत्यस्माद् पुनः प्राप्तिः