मुत्तुस्वामी दीक्षितः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मुत्तुस्वामी दीक्षितः
ముత్తుస్వామీ దీక్షిత
Dikshitar.png
व्यैक्तिकतथ्यानि
जन्मनाम मुत्तुस्वामी
मूलतः आन्ध्रप्रदेशराज्यम्, भारतम्
सङ्गीतविद्या कर्णाटकशास्त्रीयसङ्गीतम्
वृत्तिः कर्णाटकसङ्गीतम् वाग्गेयकारः गुरुः ।





मुत्तुस्वामी दीक्षितः (Muthuswami Dikshitar) कर्णाटकसङ्गीतस्य सङ्गीतस्य मूर्तित्रयेषु अयम् अन्यतमः। अतिविरलेषु रागेषु कृतीः रचितवान् इति अस्य सङ्गीतज्ञेषु विशिष्ठं स्थानमाप्नोति। अस्य सर्वकृतिषु " गुरुगुह " इति नामाङ्कनं भवति ।

बाल्यं शिक्षा च[सम्पादयतु]

अस्य पूर्वजाः तमिळुनाडुराज्यस्य जनाः। आन्ध्रप्रदेशराज्यस्य च सीमाप्रदेशस्य विरिञ्चिपुरस्य निवासिनः । अस्य पिता रामस्वामी दीक्षितःमहान् मेधावी सङ्गीतविद्वान् । मुत्तुस्वामिनः जन्म तमिळुनाडुराज्यस्य तिरुवारूरुग्रामे अभवत् । स्वस्य जीवनकाले विविधप्रान्तेषु अटन्, बहुत्र वासं कुर्वन्, अन्ते तिरुनेव्वेलिसमीपस्य एट्टयपुरम् इति स्थाने आश्रयं प्राप्तवान् । अस्य सङ्गीतशैली नारिकेलपाकः इति वदन्ति । नारिकेलफलमिव अस्य कृतयः दृष्टुं कठोराः इव भासते किन्तु अन्तः रसमाधुर्यं भवति । अत्युत्तमवाग्गेयकारत्वस्य दर्शनम् एतत् ।

दैवकृपा सङ्गीतसिद्धिः च[सम्पादयतु]

अयं मुत्तुस्वामी वैदीश्वरस्य कोयिल् कुमारस्वामेः च अनुग्रहस्य बालः । स्वस्य १६ वयसि वेदाध्ययनम्, काव्यालङ्कारम्, ज्योतिश्शास्त्रम्, वैद्यशास्त्रम्, चाधीतवान्। अयं स्वस्य गुरोः आदेशनुसारं गङ्गानद्यां स्नात्वा प्रार्थनावसरे अस्य अञ्जलैबद्धजले वीणायाः दर्शनम् अभवत् । अनेन एषः निष्णातवैणिकः अपि अभवत् । वीणया पञ्चदश गमकान् अपि कृतवान् । एषः तिरुत्तणिस्थितस्य षण्मुखदेवस्य अपि आराधकः आसीत् । अस्य प्रसन्नसुब्रह्मण्यस्य कृपा आसीत् । कदाचित् कुमारः वल्लीदेवयानीसमेतः अस्मै दर्शनम् अनुगृहीतवान् ।

कृतिविशेषाः[सम्पादयतु]

अहम् अस्य गुरुगुहस्य (षण्मुखस्य) दासः तस्य पादधूलिः इति अस्य भावः आसीत् इति अस्य "श्रीनाथादिगुरुगुहो जयति जयति " इति मायामालवगौलस्य रागस्य कृत्या ज्ञायते । दीक्षितः श्रीदेव्याः अपि उपासकः आसीत् । तस्य अनेकासु कृतिषु तस्य पाण्डित्यम् अनुभवगोचरः भवति । केन रागेण अस्याः कृतेः गानं भवति इति सूचयितुं तस्य कृतिषु रागस्य नाम चारुरूपेण योजितवान् । दीक्षितः अनेकाः लघुकृतीः समष्टिचरणसहिताः रचितवान् । स्वस्य क्षेत्रकृतिषु प्रतिक्षेत्रं विवरणं विशेषं च योजितवान् । नवग्रहकृतिषु ग्रहानां परिचयः, स्थानानि च विवृतानि । मोक्षं साधयितुं कर्ममार्गः, भक्तिमार्गः, ज्ञानमार्गः वा अनुसरणीयाः इति स्वकृतिषु दर्शितवान् । दीक्षितः श्रीशङ्कराचार्यस्य वेदान्तसूत्राणाम् अनुगुणं समग्रं विश्वं मायया सृष्टम्, परमात्मनः साक्षात्कारः आत्मनि भवितव्यं चेत् मयायां विजयं साधयेम । इति उक्तवान् । अयं सर्वेषु मेलकर्तरागेषु कृतयः रचितवान् ।

वेदोपासनं नादाराधनम् च[सम्पादयतु]

दीक्षितः स्वस्य जीवनान्तं देवताराधकः आसीत् । मृदुहृदयी, करुणालुः च आसीत् । स्वशिष्यस्य उदरवेदानायाः परिहारार्थं तस्य कुण्डल्यां गुरुशनिग्रहयोः बलं वर्धयितुं गुरुशन्योः विषये कृतिं रचितवान् । मन्त्रैः यथा देवताः प्रसन्नाः कर्तुं शक्यते तथैव सङ्गीतेनापि दैवं साक्षात्कर्तुं शक्यते इति शिष्यम् उपदिष्टवान् । गाने लीनस्य शिष्यस्य उदरवेदना उपशान्ता अभवत् । ज्योतिश्शस्त्रस्य विशेषान् सर्वान् मेलयित्वा नवग्रहकृतीः रचयित्वा दीक्षितः मन्त्रोनुष्ठानस्य फलं नादोपासनया एव कर्तुं शक्यते इति साधारं दर्शितवान् । एताः कृतयः सङ्गीतलोके अत्यन्तं श्रेष्टाः कृतयः इति परिगणिताः । श्रीचक्रस्य उपासनायां देव्याः आराधनं विविधरीत्या भवति । अत्रः देव्याः नव आवरणानां पूजा भवति । प्रत्येकम् आवरणपूजायाः विधानं नाम शक्तिः च विभिन्नाः भवन्ति । अत्र नवचक्राणां पूजायाः पश्चात् एव देव्याः अनुग्रहः लभते इति विश्वासः । नवावरणयुक्तस्य श्रीचक्रस्य उपासना एव श्रीविद्या । सा ललिताम्बिका, जगन्माता, पराशक्तिः बिन्दुरूपेण श्रीचक्रे विराजते । असदृश्याम् अत्यन्तम् उत्कृष्टायां नवावरणकृतौ दिक्षितः देव्याः आराधनं सौन्दर्यं च मनोहरतया वर्णितवान् ।

कैवल्यम्[सम्पादयतु]

आश्वीजबहुलचतुर्दश्यां नरकचतुर्दशीपर्वदिने दिक्षितः जगन्मात्रे विशेषपूजां समर्प्य सर्वशिष्यान् आहूय स्वरचितां " नीनाक्षि मुदं देहि " इति कृतिं पूर्वीकल्याणीरागे वीणया वादयन् सर्वान् गातुम् अवदत् । " मीनलोचनि पाशमोचनि " इति पल्लवीं पुनःपुनः गापयन् वीणां त्यक्त्वा तम्बुरस्वरं श्रुण्वन् जगन्मातुः उत्सङ्गे पतितवान् । तत्रैव मुत्तुस्वामीदीक्षितस्य आत्मा मात्रे लीनः अभवत् । सङ्गीतक्षेत्रे दीपावलीं दीक्षितदिनम् इति आचरन्ति ।

बाह्यानुबन्धाः[सम्पादयतु]