त्यागराजः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
त्यागराजः
త్యాగరాజు
ख्यातनाम त्यागय्य
मूलतः तिरुवारूरु, तमिळुनाडु, भारतम्
सङ्गीतविद्या कर्णाटकशास्त्रीयसङ्गीतम्
वृत्तिः कर्णाटकसङ्गीतम् वाग्गेयकारः


‘त्यागराज’ (तेलुगु:త్యాగరాజు) इति, ‘त्यागय्य’ इति च विख्यातः काकर्ल त्यागब्रह्मः कर्णाटकसङ्गीतस्य (दक्षिणभारतीयशास्त्रीयसङ्गीतस्य) श्रेष्ठेषु वाग्गेयकर्तृषु मूर्धन्यः । अस्य जीवनकालः क्रि.श.१७६७तमवर्षस्य मेमासस्य चतुर्थदिनतः क्रि.श.१८४७ जनवरिमासस्य षष्टदिनपर्यन्तम् । त्यागराजः, मुत्तुस्वामी दीक्षितः, श्यामशास्त्री च कर्णाटकसङ्गीतस्य त्रिमूर्तयः इत्येव प्रख्याताः । कर्णाटकसङ्गीतस्य प्रवर्धने त्यागराजस्य योगदानं महदस्ति । एषः सहस्रशः भक्तिप्रधानाः कृतीः अरचयत् । महान् रामभक्तः एषः । अस्य कृतिषु बहुधा श्रीरामस्य स्तुतिः दृश्यते । अस्य बह्व्यः कृतयः अद्यापि अत्यन्तं जनप्रियाः सन्ति । विशेषोल्लेखम् अर्हन्ति ’पञ्चरत्नकृतयः’ इति प्रसिद्धाः पञ्च कृतयः । त्यागराजस्य स्मृतिसमारोहेषु गायकाः एताः कृतीः आदरेण गायन्ति । जननम् – क्रि.श.१७६७४तमवर्षस्य मे मासस्य चतुर्थदिनम् । (चैत्रशुक्लसप्तमी, पुष्यनक्षत्रम्) जन्मस्थलम् – तिरुवारूरु, तमिलुनाडुराज्यम्, भारतदेशः । मरणम् – क्रि.श.१८४७तमवर्षे जनवरिमासस्य षष्ठे दिने । (७९ वर्षाणि) वर्गः – कर्णाटकसङ्गीतम् वृत्तिः – कर्णाटकसङ्गीतवाग्गेयकारः

बाल्यम्[सम्पादयतु]

त्यागराजः १७६७तमे वर्षे तमिलुनाडुराज्यस्य तञ्जावूरुमण्डलस्य तिरुवारूरुग्रामे जातः । अस्य पितरौ काकर्ल रामब्रह्मः सीतम्मा च । तेलुगुभाषायाः ब्राह्मणसमुदायान्तर्गतस्य मुलुकनाडुकुलीयौ । तिरुवारूरुग्रामस्य प्रधानः आराध्यदेवः त्यागराजः (शिवः) । अतः एव बालकस्य त्यागराज इति नाम कृतम् । त्यागराजः मातामहस्य गिरिराजकवेः गृहे जातः । गिरिराजकविः तञ्जावूरुमण्डलस्य राज्ञः आस्थाने कविः वाग्गेयकारः च आसीत् ।

सङ्गीतप्रीतिः[सम्पादयतु]

बाल्ये एव त्यागराजस्य सङ्गीताध्ययनं प्रसिद्धपण्डितस्य सोण्टि वेङ्कटरमणय्यस्य अन्तिके आरब्धम् । अस्य दृष्ट्या सङ्गीतं दैवाराधनस्य अपि च मोक्षप्राप्तेः साधनम् । सङ्गीताभ्यासे तस्य लक्ष्यं पूर्णतः भक्तिपरम् एव आसीत् । शास्त्रीयसङ्गीतस्य पाण्डित्यप्रदर्शने तस्य आसक्तिः कदापि न आसीत् । कृतिरचने तस्य विशेषाभिरुचिः । किशोरावस्थायाम् एव रचिता देसिकतोडि (देश्यतोडि) रागे विद्यमाना ‘नमो नमो राघवाय’ इति अस्य प्रथमा कृतिः गृहस्य भित्तिषु अङ्किता ।
केभ्यश्चित् वर्षेभ्यः अनन्तरं सोण्टि वेङ्कटरमणय्यः तञ्जावूरुपत्तने स्वगृहे गातुं त्यागराजम् आहूतवान् । तदा त्यागराजः पञ्चरत्नकृतिषु पञ्चमीम् ‘एन्दरो महानुभावुलु अन्दरिकी वन्दनमुलु’ (अर्थः – ये ये सन्ति बहवः महान्तः, सर्वेभ्यः नमस्काराः) इति कृतिं गीतवान् । तेन प्रीतः वेङ्कटरमणय्यः त्यागराजस्य प्रतिभाविषये तञ्जावूरुराजम् उक्तवान् । सः राजा अनेकानि अमूल्यानि उपायनानि प्रेषयित्वा स्वीयम् आस्थानम् आगन्तुं त्यागराजम् आहूतवान् । किन्तु आस्थानजीवने अनासक्तः त्यागराजः सर्वाणि उपायनानि प्रत्यर्प्य राज्ञः आह्वानं निराकृतवान् । अस्मिन् काले एव अनेन जनप्रिया कृतिः कल्याणिरागे ‘निधि चाल सुखमा’ (‘हे मनः, सम्पद्भिः सुखं लभ्यते? उत श्रीरामस्य सन्निधौ सेवया?’ इति प्रश्नरूपा इयं कृतिः) विरचिता ।

कृतिरचना[सम्पादयतु]

त्यागराजस्य अग्रजः तस्य राजाश्रयनिराकरणेन क्रुद्धः । सः त्यागराजस्य पूजोपयुक्तं प्रीतिपात्रं श्रीरामस्य विग्रहं कावेरीनद्याम् अक्षिपत् । आराध्यदेवस्य विरहं सोढुम् अशक्तः त्यागराजः दक्षिणभारतस्य तीर्थयात्राम् अकरोत् । बहूनि पुण्यक्षेत्राणि अटित्वा तत्रत्यां देवताम् उद्दिश्य कृतीः अरचयत् । त्यागराजः पूर्णतया श्रीरामभक्तिसागरे निमग्नः आसीत् । तस्य जीवनशैली बहुसरला । प्रापञ्चिकभोगेषु तस्य ईषदपि आसक्तिः न आसीत् । सः स्वस्य रचनाः व्यवस्थिततया लेखयितुं पाठयितुं वा कमपि प्रयत्नं न अकरोत् । कर्णाटकसङ्गीते प्रसिद्धः संशोधकः दिवङ्गतः रङ्गरामानुज अय्यङ्गार्यः स्वीये "कृतिमणिमालै" ग्रन्थे त्यागराजस्य मरणसमये विद्यमानां स्थितिं वर्णयति । त्यागराजस्य पर्वतसदृशे कृतिभाण्डारे बहुभागः प्राकृतिकविकोपैः मनुष्यनिर्लक्ष्येण च नष्टः । प्रायेण त्यागराजः श्रीरामस्य सन्निधौ उपविश्य कृतीः विरचय्य गायति स्म । समीपे उपविष्टाः शिष्याः तालपत्रेषु ताः कृतीः लिखन्ति स्म । तस्य निधनानन्तरं विविधेषु शिष्येषु एतानि तालपत्राणि विभक्तानि । तत्तच्छिष्याणां कुटुम्बेषु शिष्यपरम्परासु च प्रचलितानि अभवन् । अतः एव त्यागराजकृतीनां पूर्णा आवलिः, संख्यादिकं वा कुत्रापि न लभ्यते ।

कृतीनां रक्षणम्[सम्पादयतु]

तथापि, तस्य कृतयः अत्यन्तं जनप्रियाः सन्ति । प्रसिद्धाः सङ्गीतविद्वांसः काञ्चीपुरं नायनापिळ्ळै, सिमिळि सुन्दरम् ऐयर्, वीणा धनम्माळ् प्रभृतयः त्यागराजस्य कृतीनां महत्त्वम् आकलय्य स्वैः अधिगताः कृतीः व्यवस्थिततया विलिख्य रक्षितवन्तः । पश्चात् के.वी.श्रीनिवास अय्यङ्गार्, रङ्गरामानुज अय्यङ्गार् प्रभृतयः संशोधकाः महता प्रयासेन विविधानां सङ्गीतविदुषां, गुरूणां, कुटुम्बानां च सम्पर्कं कृतवन्तः । तेषां समीपे उपलभ्यानि तालपत्राणि सम्पाद्य, अधीत्य, ग्रन्थेषु प्रकाशितवन्तः । के.वी.श्रीनिवास अय्यङ्गार्यः आदि सङ्गीत रत्नावळी, तथा आदि त्यागराज हृदयम् (भागत्रयम्) इति ग्रन्थद्वयं सम्पादितवान् । रङ्गरामानुज अय्यङ्गार्यः भागचतुष्टये ’कृतिमणिमालै’ इति ग्रन्थं प्रकाशितवान् । एतेषु भागद्वयेषु त्यागराजकृतय: सन्ति । कृतिमणिमालै इत्ययं महत्तमः संशोधनग्रन्थः ।
भावसङ्गीतस्य अग्रगण्यस्य मुसिरी सुब्रह्मण्य अय्यरस्य गृहे बृहत् ग्रन्थालये बहूनां पुस्तकानां सङ्ग्रहः आसीत् । तस्य शिष्यः टी.के.गोविन्दरावः सम्यक् परिशोध्य आङ्ग्ललिप्यां देवनागरीलिप्यां च त्यागराजकृतीनां सङ्ग्रहं प्रकाशितवान् । त्यागराजसम्बद्धेषु विषयेषु कृतपरिश्रमः टी.एस्.पार्थसारथिः त्यागराजकृतीनां साहित्यम् अर्थसहितं प्रकाशितवान् । अयं ग्रन्थः सङ्गीताध्यापकानां छात्राणां च आदरपात्रं वर्तते ।
तेलुगुभाषायामपि त्यागराजसम्बद्धाः बहवः ग्रन्थाः प्रकाशिताः । किन्तु एते ग्रन्थाः रङ्गरामानुज अय्यङ्गारस्य, टी.के.गोविन्दरावस्य च ग्रन्थसमं समग्राः न सन्ति ।
एवं बहूनां सङ्गीतज्ञानां संशोधकानां च परिश्रमेण अधुना त्यागराजकृतीनां समग्रः कश्चन सङ्ग्रहः वर्तते । त्यागराजस्वामिन: वाल्मीकिमहर्षे: अवतार: इति मान्यते । त्रीणि कारणानि प्रमुखानि वदन्ति स्म । प्रथमम् - रामायणे २४,००० अधिकानि श्लोकानि सन्ति, अत: कीर्तनानि अपि त्यागराजेन २४००० विरचिताः इति । द्वितीयम् - त्यागराज: एकमपि सरस्वति स्तुति न रचितवन्त: - वाल्मीकि महर्षॆ: जिह्वा मध्यॆ स्थिता सरस्वती आसीत् - माता स्वीय स्तुति न करोति एव । तृतीयम् - वाल्मीकि महर्षै: उपयोगमाना शैली इव त्यागराजेन कीर्तनानि विरचितानि । किन्तु अधुना सम्प्रति प्रायः ७०० कृतयः एव उपलभ्यन्ते ।

गेयनाटकरचना[सम्पादयतु]

त्यागराजः न केवलं कृतीः, किन्तु गेयनाटकद्वयम् अपि रचितवान् । एते प्रह्लादभक्तिविजयम्, नौकाचरित्रं च । प्रह्लादभक्तिविजये पञ्च अङ्काः, २८ रागेषु ४५ कृतयः, भिन्नेषु वृत्तेषु १३८ श्लोकाः च सन्ति । इदं नाटकं तेलुगुभाषायां विद्यते । नौकाचरितं तु एकाङ्कयुक्तं लघुनाटकम् । अस्मिन् १३ रागेषु २१ कृतयः, ४३ श्लोकाः च सन्ति । इदं नाटकं बहु जनप्रियम् अस्ति । अस्य कथा कविकल्पिता । कृष्णसम्बद्धा कथा, किन्तु भागवतपुराणे क्वापि एषा कथा न दृश्यते ।
त्यागराजस्य कृतिषु उपयुक्ता तेलुगुभाषा अत्यन्तं मनोहरा । वाल्मीकिः २४००० श्लोकैः रामायणं रचितवान् । त्यागराजः अपि भगवतः स्तुतिपराः २४००० कृतीः अरचयत् इति प्रतीतिः ।
त्यागराजस्य सङ्गीतं सर्वलघुप्रधानम् । तस्य कृतिषु रागस्य लयस्य च सुन्दरः समागमः दृश्यते । तस्य कृतीः बालानां सुलभाः, पण्डितानां स्फूर्तिप्रदाः, मेधाविनाम् आश्चर्यजनकाः च सन्ति ।

स्मरणम्[सम्पादयतु]

त्यागराजस्य स्मृतौ प्रतिवर्षं ’त्यागराजाराधना’ इति स्मृतिसमारोहः आयोज्यते । तस्य वासस्थले तिरुवैयारुग्रामे अयम् उत्सवः जनवरी-फेब्रवरी मासयोः भवति । सप्ताहात्मके कार्यक्रमे विश्वस्य विभिन्नेभ्यः प्रदेशेभ्यः आगताः सङ्गीतविद्वांसः त्यागराजस्य समाधिस्थले भक्तिपूर्वकं गानाञ्जलिं समर्पयन्ति । तस्य पुण्यतिथौ पुष्यबहुलपञ्चम्यां सर्वे मिलित्वा एककण्ठेन पञ्चरत्नकृतीः गायन्ति । गानेन सह वीणावेणुमृदङ्गनागस्वरमद्दळघटादीनां वाद्यानाम् अपि नादः एतत् स्थलं पूरयति ।

त्यागराजसम्बद्धानि चलच्चित्राणि[सम्पादयतु]

तेलुगुभाषायाः वाग्गेयकारेषु त्यागराजः श्रेष्ठः । प्रीत्या आदरेण च जनैः ‘त्यागय्य’ इति आहूतस्य अस्य जीवनकथा तेलुगुचलच्चित्रवलये बहूनां स्फूर्तिदायकम् । बहुषु चलच्चित्रेषु अस्य कृतयः गीतरूपेण योजिताः । अस्य जीवनकथायाः आधारेण चलच्चित्रद्वयम् अपि निर्मितम् अस्ति । प्रख्यातः निर्देशकः चित्तूरु वि नागय्यः १९४६तमे वर्षे ’त्यागय्य’ इति चलच्चित्रं कृतवान् । अद्यापि तेलुगुचित्ररङ्गे इदं चित्रम् अत्युत्तमम् इति समाद्रियते । अस्मिन् चित्रे ‘एन्दरो महानुभावुलु’ गीतस्य चित्रीकरणशैली, गानं च बहु प्रशंसापात्रम् अभवत् । पश्चात्, १९८१ तमे वर्षे बापु-रमणाभ्याम् अपि ‘त्यागय्य’ इति चित्रं कृतम्, यत्र जे.वी.सोमयाजुलु प्रधानं पात्रम् अवहत् । अधुना सिङ्गीतं श्रीनिवासरावेण त्यागराजस्य जीवनं चित्रीकर्तुं प्रयत्नः प्रचलति ।

त्यागराजस्य कृतयः[सम्पादयतु]

समुदायकृतयः घनरागपञ्चरत्नकृतयः

कृतिः रागः तालः भाषा ध्वनिमुद्रिकाः
जगदानन्दकारक नाट आदि संस्कृतम् एम् एस् सुब्बुलक्ष्मीः - http://www.youtube.com/watch?v=voyxn7zsvGE

एम् बालमुरळीकृष्णः - http://www.youtube.com/watch?v=IUdls4HJ6Wo

दुडुकुगल नन्नेदोरा गौळ आदि तेलुगु मल्लाडि सहोदरौ - http://www.youtube.com/watch?v=LvCQ1UNztKU
साधिञ्चेने ओ मनसा आरभि आदि तेलुगु एम् बालमुरळीकृष्णः - http://www.youtube.com/watch?v=BqopEZLe13A
कनकनरुचिरा वराळि आदि तेलुगु हैदराबाद् सहोदरौ - http://www.youtube.com/watch?v=OHitPjnim6g
एन्दरो महानुभावुलु श्री आदि तेलुगु एम् एस् सुब्बुलक्ष्मीः - http://www.youtube.com/watch?v=98vu-xKuLRU

प्रिया सहोदर्यौ - http://www.youtube.com/watch?v=Q7u7VBhMwZA

एताः कृतयः कर्णाटकसङ्गीतलोके रत्नप्रायाः सन्ति । सर्वाः पञ्चरत्नकृतयः आदिताले निबद्धाः । सर्वासु सर्वलघुस्वरप्रस्तारः दृश्यते । रागस्य लयस्य च दृष्ट्या कर्णाटकसङ्गीतस्य यद्यद् वैशिष्ट्यं तत् सर्वम् आसु कृतिषु विद्यते । अदृष्टवशात् त्यागराजस्य शिष्यपरम्परायाम् एताः कृतयः सुरक्षिताः । बहुभिः विद्वद्भिः पञ्चरत्नकृतीनां स्वरप्रस्तारः अर्थसहितं प्रकाशितः । त्यागराजस्य सर्वासु कृतिषु रागवर्धनस्य मार्गः प्रदर्शितः । विशिष्य पञ्चरत्नकृतिषु तत्तद्रागस्य पूर्णं चित्रणं दत्तम्, रागवैभवं च आविष्कृतं त्यागराजेन ।


"http://sa.wikipedia.org/w/index.php?title=त्यागराजः&oldid=277704" इत्यस्माद् पुनः प्राप्तिः