सङ्गीतम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
भारतीयसङ्गितस्य रागाः
GClef.svg

सङ्गीतम् (Music) इत्येषा कला शब्दैः नादैः शक्त्या च सञ्चाल्यमाना सहजा क्रिया । भावः लयः मेलनं माधुर्यं च उत्तमसङ्गीतस्य मूलन्यासाः भवन्ति । सङ्गीतं मनसि उद्भूयमाना सहजा क्रिया । अतः केनापि नादेन विना अपि मनसि एव सङ्गीतस्य अनुभूतिं कर्तुं समर्थाः मानवाः । यदा एषा क्रिया शास्त्रीशैल्या वाद्यपरिकरैः विशेषकौशलेन प्रदर्शिता भवति तस्याः सङ्गीतकला इति व्यवहारः । सङ्गीतस्य मूलं वेदाः एव । ऋग्वेदादिषु मन्त्राः सस्वराः एव । सङ्गीतं तु स्वरेणनिबद्धम् एव । गानं तु मानवस्य भाषणम् इव स्वाभाविकं भवति । अतः मानवः कदारभ्य गातुम् आरब्धवान् इति निर्णयः दुस्साध्यः एव । किन्तु बहोः कालात् अनन्तरम् अस्य व्यवस्थितं रूपं प्राप्तम् अस्ति । यदा स्वरस्य लयस्य च व्यवस्थितं धारणं भवति तदा कलायाः प्रादुर्भावः भवति ।

इतिहासः[सम्पादयतु]

मानवः युद्धेषु उत्सवेषु प्रार्थनावसरे , भजनसमये च गानवादसस्य उपयोगं कुर्वन् आगतः । अस्मिन् प्रपञ्चे सर्वजनाङ्गेषु यस्य कस्यचिदपि वाद्योपकरणस्य उपयोगः प्रचलन् अस्ति । यथा वंशीत्यादीनि सुशिरवाद्यानि , कानिचन तन्त्रीवाद्यानि , कानिचन चर्मवाद्यानि , अथवा घनवाद्यानि च । भरतमुनेः पूर्वं भारते गानस्य गीतम् इति वदन्ति स्म । वाद्यैः सह साहित्यं न भवति स्म दाड् दिडदिड इत्यादीनि शुष्कपदानि एव उपयोजनयन्ति स्म । अस्य निर्गीतं अथवा बहिर्गीतं वेति वदन्ति स्म । गीतं वाद्यं तथा नृत्यं त्रयं सङ्गतमुच्यते । इति उक्त्यनुगुणं कालक्रमेण गीतं वाद्यं नृत्यम् इत्यादीनां समतोलितं मिश्रणं सङ्गीतम् इति अवदन् । भारतात् बहिः अन्यदेशेषु केवलं गीतवाद्ये सङ्गीतम् इति वदन्ति । तत्रं नृत्यं काचित् भिन्ना कला । भारते नृत्यं सङ्गीते एव अन्तर्नीतं यतः नृत्येन सह गीतं वद्यं च भवतः एव । स्वरः लयः च गीतन सह सम्मिलन्ति एव । किन्तु नृत्येन सह केवलं लयः एव भवति न तु स्वरः । अतः अत्र सङ्गीतं नाम गीतस्य वाद्यस्य च चिन्तनं क्रियते ।

परिभाषा[सम्पादयतु]

सङ्गीतस्य आदिमः स्त्रोतः प्राकृर्तिकरवः एव । प्राचीनयुगे मानवः प्रकृत्याः विविधनादान् श्रुण्वन् अवगन्तुं यतते स्म । प्रकृत्याः सर्वविधनादाः सङ्गीतस्य आधाराः भवितुं नार्हन्ति । अतः येन ध्वनिना भावः उत्पादितः भवति तादृशनादान् परिशील्य सङ्गीतस्य अधारं कुर्वन्तः तान् ध्वनीन् लयेन सह योजयितुं प्रयत्नं कृतवन्तः स्युः । प्रकृत्याः यः नादः मनुष्यस्य मनः संस्पृश्य उल्लासं जनयति सः एव मानवस्य सभ्यतायाः विकासेन सह सङ्गीतस्य साधनम् अभवत् । अस्मिन् चिन्तने मतभेदाः सन्ति एव । दार्शनिकाः परा, पश्यन्ती, मध्यमा, वैखरी इति चतृषु नादप्रकारेषु मध्यमा एव सङ्गीतोपयोगी स्वरः इति वदन्ति । नवदशशतकस्य उत्तररार्धे भरतेन्दुः हरिश्चन्द्रः इति विद्वान् " मानवस्य मानवीयसंवेदनया सह एव सङ्गीतस्य उत्पत्तिः अभवत् " इति अवदत् । अपि च सः सङ्गीतं गीतस्य वादनस्य नृत्यस्य अभिनयस्य समुच्चयः इति अवदत् ।

प्रादुर्भावः[सम्पादयतु]

प्राच्यशास्त्रेषु सङ्गीतस्य उत्पत्तेः विषये कौतुकयुताः कथाः सन्ति । देवेन्द्रस्य सभायां वादाकाः नर्तकाः गायकाः च आसन् । अप्सराः नर्तनं कुर्वन्ति स्म किन्नराः वाद्यं वादयन्ति स्म । अस्याः कलायाः गान्धर्वविद्या इति नाम । गान्धर्वकलायां गीतस्य अतीव प्राधान्यं भवति । आदौ गानम् आगतम् । तदनन्तरं वाद्यं, गीतायाः प्राधन्यं तु आसीदेव । अतः एव गितं नृत्यं वाद्यं वा भवतु तस्य सङ्गीतम् इति अभिधानं दत्तम् । भारतीयसर्वासु भाषासु सङ्गीतम् इति पदं गानम् इति अर्थे एव उपयुज्यते । सङ्गीतम् इति पदं सम् उपसर्गपूर्वकं गै धातुना निष्पन्नम् । ऐङ्ग्लोसैक्सन् भाषायाम् अस्य रूपान्तरम् 'सिङ्गन्'(singan) इति अस्ति । अधुनिकाङ्ग्लभाषायां 'सिङ्ग् ' (sing) इति रूपम् अवाप्नोत् । ऐस्लेण्ड् इति देशस्य भाषयां अस्य रूपं सिङ्गज(singja) इति, डैनिश् भाषयां सैञ्ज् इति, डच् भाषायां त्सिङ्गन् (Synge) इति, जर्मन्भाषायां सिङ्गन् (singen), अरब्बी भाषायां गाना इति वदन्ति । सर्वप्रथमः सङ्गीतग्रन्थए सङ्गीतरत्नाकरे गायनवदननृत्यानां सङ्गमम् एव सङ्गीतम् इति पदेन व्यवहारः कृतः । वस्तुतः गीतशब्देन सह सम् उपसर्गं योजयित्वा सङ्गीतम् इति पदं निष्पन्नं यस्य अर्थः सम्यक् गीतम् इति । नृत्यवादनैः सह कृतं गानं सङ्गीतं भवति । शास्त्रेषु सङ्गीतं साधना इति अपि उक्तम् । प्रामाणिकरूपेण अवलोकयामः चेत् प्राचीनसभ्यतायाः अवशेषेषु मूर्तिषु, भित्तिचित्रेषु दृश्यते यत् सहस्राधिकवर्षेभ्यः पूर्वम् एव सङ्गीतं परिचितम् आसीत् । देवदेवताः सङ्गीतस्य प्रेरकाः इति न केवलं भारतदेशे किन्तु पाश्चिमात्यदेशेषु अपि एतादृशः विश्वासः अस्ति । यूरोफ् अरब् फारस् इत्यादिषु देशेषु सङ्गितस्य विषये पदानि सन्ति । सङ्गीतार्थं युनानी भाषायां मौसिकी (musique), ल्याटिन् भाषायां मुसिका (musica), फ्रांसीसी भाषायां मुसीक् (musique), पोर्तुगीस् भाषायां मुसिका (musica), जर्मन् भाषायां मूसिक् (musik),इब्रानी, अरबी, फारसी भाषायां मोसीकी इति पदैः सङ्गीतपदस्य व्यवहारः । सर्वेषु पदेषु अवश्यं साम्यः अस्ति एव । ये सर्वे पश्चिमदेशीयाः शब्धाः युनानी भाषायाः म्यूज़् (muse) इति शब्देनैव निष्पन्नाः । युनानी परम्परयां म्यूज़् नाम कव्यसङ्गीतयोः दीवी इति विश्वासः । तेषां कोशे अस्य अर्थः दीपः इति । गनस्य प्रेरणादायिनी देवी इति अस्य विवरणम् । यूनानीजनाः म्यूज़् ज्यौस (zeus) कन्या इति भावयन्ति । ज्यौस् इति पदं तु संस्कृतभाषायाः द्यौः इत्यस्य रूपन्तरमेव यस्य अर्थः स्वर्गः इति । यूनान्याः ज्यौस्, म्यूज़् च शब्दौ ब्रह्मसरस्वत्योः सदृशौ स्तः ।

भारतीयसङ्गीतम्[सम्पादयतु]

भारतीयसङ्गीतस्य जन्म वेदमन्त्राणाम् उच्चारणेन एव ज्ञातुं शक्यते । सङ्गीतस्य प्राचीनतमः ग्रन्थः भरतमुनेः नाट्यशास्त्रं भवति । अन्ये सङ्गीतसम्बद्धाः ग्रन्थाः नाम बृहद्देशी, दत्तिलम्, सङ्गीतरत्नाकरः च भवन्ति ।

  • भारतीयसङ्गीतस्य सप्तस्वराः...

एतेषां शुद्धस्वराणाम् उपरि अथवा अधः विकृतस्वरः आगच्छाति । स , प स्वरयोः विकृतस्वरः न भवति । रे,ग,द, नी स्वराः यदा अधः भवन्ति तस्य कोमलस्वराः इति कथयन्ति । म स्वरस्य विकृतस्वरः उच्चः भवति तस्य तीव्रस्वरः इति वदन्ति । समकालीनभारतीये शास्त्रीयसङ्गीते शुद्धाः विकृताः चेति १२ स्वराणाम् उपयोगः भवति । पुरातनकालादेव भारतीयस्वरसप्तकानां संवादसिद्धिः अस्ति एव । महर्षेः भरतस्य एतेषां स्वराणाम् आधारेण २२श्रुतयः प्रतिपादिताः । एषः तु केवलं भारतीयसङ्गीतस्य विशेषः एव ।

भारतीयसङ्गीतस्य प्रकाराः[सम्पादयतु]

भारतीये सङ्गीते प्रथानतयाः त्रयः भेदाः सन्ति ।

अस्मिन् पुनः उपभेदाः भवन्ति एव । भारतीयशास्त्रीये सङ्गीते प्रधानौ भेदौ स्तः ।

हिन्दुस्तानीसङ्गीतं मुगल् राज्ञां छत्रछायायां विकसितम् । कर्णाटकसङ्गीतं तु मन्दिराणाम् अश्रयेण विवृद्धम् । अतः एव दक्षिणभारतस्य कृतिषु भक्तिरसः अधिकः, हिन्दुस्तानीसङ्गीते शृङ्गारः अधिकः दृश्यते । उपशास्त्रीयसङ्गीते ठुमरि, टप्पा, होरी, कजरी, लावणि, सोभाने, इत्यादयः भावन्ति ।

सुगमसङ्गीते जनसाधारणेषु प्रचलितानि एतानि भवन्ति ।

ख्याताः सङ्गीतकाराः[सम्पादयतु]

वीथिका[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=सङ्गीतम्&oldid=239082" इत्यस्माद् पुनः प्राप्तिः