कला

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
यक्षगानकला
शिल्पकला

पीठिका[सम्पादयतु]

कला इति शब्दः अतिव्यापः अस्ति । विद्वासः अपि अस्य परिभाषां केवलं कस्मिंश्चित् एकस्मिन् दृष्टिकोणेन एव कुर्वन्ति । कलयति इति काला । कल् धातुः सङ्ख्याने+णिच् । इति अस्य पदस्य व्याकरणस्य परिभाषा । मनुष्यशरीरस्य सप्तकलाः, चन्द्रस्य षोडषकलाः, सूर्यस्य द्वादशकलाः, अग्निमण्डलस्य दश कलाः, चतुष्षष्ठि (६४) कुशलकलाः इति कलाभेदाः अस्य परिभाषाम् एव परिवर्तयन्ति । यद्यपि अस्य सहस्राधिकाः परिभाषाः भवन्ति । तथापि भारतीयपरम्परानुगुणं यस्यां क्रियायं कौशलम् अपेक्षितं भवति तस्य सर्वस्य कला इति अभिधानं युज्यते । यूरोपीयाः शस्त्रिणः अपि कलायां कौशलं महत्वपूर्णम् अस्ति इति मन्यन्ते ।

विस्तारः[सम्पादयतु]

मनुष्यस्य वैविध्यमयप्रक्रियाः कल्पनाविलासः भावाः इत्यादीनाम् अभिव्यक्तिः येन माध्यमेन भवति सा कला इति वक्तुं शक्यते । कलायाः अर्थः तत्त्वज्ञानस्य शाखायां सौन्दर्यमीमासां (एस्तेटिक्स्) परिभाषितः । विंशतिशकानन्तरं कलायाः निर्वचनम् अथवा अस्याः सामर्थ्यस्य निर्धारः कष्टसाध्यः अस्ति । रिचर्ड वोहिम् इति कश्चित् एतदर्थं मार्गत्रयं सूचयति । यथार्थवादः इति प्रथमस्य अनुगुणं सौन्दर्यास्वादनस्य गुणः स्वतन्त्रः मनुष्यस्य दृष्टिकोणम् अतिरिच्य स्वतन्त्रः भवति । चेदपि मनुष्याणाम् अनुभवानुगुणं भवति । द्वितीयः वास्तविकवादः अस्य वादानुगुणं सौन्दर्यास्वादनस्य गुणः स्वतन्त्रः चेदपि मनुष्याणाम् अनुभवानुगुणं भवति । तृतीयः सापेक्षतावादः अस्य वादानुगुणं गुणः नायं स्वतन्त्रः अयं मनुष्यस्य अनुभवम् अवलम्ब्य तिष्ठति । अपि च अन्यान्येषु विभिन्नः भवति ।[१] काचित् कलासृष्टिः सृष्टुः उद्देशं दर्शयेत् इति अग्रहः नास्ति । किन्तु कदाचित् तस्याः कलायाः उद्देशः बाह्यगोचरः भवेत् । कदाचित् सामान्यः चायकंसकः अपि सकलः इति परिगणीतः भवति । यदा चित्रलेखनं वर्णचित्ररचनम् इत्यादयः अधिकप्रमाणेन क्रियते तर्हि उद्योगः इति कथ्यते । भारतीयसाम्प्रदाये कला इति शब्दः कस्यचिदपि कौशल्यस्य अथवा नैपुण्यस्य विषये उपयोजयन्ति । अयं भावः रम्यपरिकल्पनायाः (रोम्याण्टिक्) अन्दोलनस्य कालखण्डे परिवर्तितः । तदा कला तु मनुष्यस्य बौद्धिकसामर्थ्यस्य विशेषः इति परिगणय्य धर्मविज्ञानाभ्यां पृथक् वर्गीकृता ।[२] सामान्यकला चिन्तनस्य भावनायाः च उत्तेजनार्थं कृता अस्ति । कलायाः लक्षणं रिचर्ड् वोलेहिम् एवमुक्तवान् मनुष्यसंस्कृतेः अत्यन्तं प्राचीनं भेदनदुस्साध्यं रहस्यम् इति वर्णितवान् ।[३] कला भावनायाः अभिव्यक्तेः वाहिनी अथवा भावस्य संवहनस्य माध्यमः इति वर्णितम् । लियो टाल् स्टाय् इत्येतस्य चिन्तनानुगुणं कला नाम मानवः अन्येन मनुष्येन सह संवहनर्थम् उपयुज्यमानः परोक्षः माध्यमः एव इति । किन्तु एतादृशी तु भाषा भवति

कलोद्दिष्टाः[सम्पादयतु]

कला नाम आधुनिके काले सर्जनात्मककला (क्रियेटिव् आर्ट्) अथवा ललितकला (फैन् आर्ट्) इत्येतयोः संक्षिप्तरूपम् अस्ति इति । विक्षकानां सौन्दर्यप्रज्ञायाः आकर्षणम् अथवा प्रेक्षकानां लक्ष्यं सूक्ष्मविषयस्य दिशायाम् अकर्षणम् । यदि कौशलं सामान्यतया अथवा व्यावहारिकरूपेण उपयोजयति तां कलां कौशलम् इति वदन्ति । एतत् कौशलं व्यापारार्थम् अथवा उद्योगार्थं वा उपयोजयति तदा तां ललितकलाम् एव वाणिज्यकला इति व्यवहरन्ति । हस्तकलां विन्यासकलां च कदाचित् अन्वयिककला इति व्यवहरन्ति । कलारसिकाः ललितकला अन्वयिककला एतयो मध्ये व्यत्यासं परिकल्पयन्ति । किन्तु अयं व्यत्यासः केवलं व्याख्यानदृष्ट्या भवति वास्तवरूपेण एतयोः मध्ये मूलभूतः भेदः नास्ति ।[४] किन्तु ललितकला अपि क्रियात्मकोद्देशयुक्ता स्वाभिव्यक्त्योद्देशयुता च भवति । कलायाः उद्देशः चिन्तनस्य संवहनं स्यात् । कित्नु राजकीयः तात्त्विकः उद्देशानां पूरणस्य कला सौन्दर्यप्रज्ञां जागर्ति । ग्रहणं (पर्सेप्शन्) गुणानां प्रदर्शनार्थं मनोरञ्जनार्थम् अथवा कदाचित् तीव्रभवनां प्रचोदनर्थं वा स्यात् । कदाचित् सामन्यावलोकनेन कश्चिदपि उद्देशः नास्ति इति भाति । किन्तु कला अनेकान् अंशान् स्वान्तरङ्गे सङ्गोपयति । कदाचित् कलानैपुण्यस्य अध्ययनां भवेत् कदाचित् कलानौपुण्ये प्रदर्शितं तन्त्रं भवतु, कलासृष्टिः स्यात्, अथवा वीक्षकानुभवः भवेत् । सर्जनात्मका कला अनेकपद्धतीनां समवायः भवति । अनियतपरिकल्पनाः अथवा चिन्तनानि क्रियात्मकरूपेण अभिव्यक्तिः अथवा स्वकल्पनाम् अन्येषां ज्ञापनम् एव कलासृष्टिः इति वक्तुं शक्यते । कलाकृतिः कदाचित् उद्देशं स्पष्टयेत् अथवा उपयुक्तरुपैः वस्तुभिः वा अवगन्तुं शक्येत । कला कस्यचित् जनस्य चिन्तनं भावं विश्वासम् अथवा कल्पनां संवेदनाशक्त्या (सेन्स्) उत्तेजयति । कला कस्याश्चित् कल्पनायाः अभिव्यक्तिः अपि भवितुमर्हति । अतः इयं रूपवैविध्यं प्राप्तुं शक्नोति । अपि च अनेकान् उद्देशान् पूरयति ।

इतिहासः[सम्पादयतु]

वात्सायनस्य कामसूत्रस्य जयमङ्गलस्य व्याख्यायां कलायाः द्वैविध्यम् अस्ति इति उक्तवान् । एका कामसूत्र सम्बद्धा कला अपरा तन्त्रसम्बद्धा कला इति । द्वयोः प्रत्येकताया सङ्ख्या६४भवति । कामसम्बद्धाः कलाः २४ यस्य सम्मन्धः सम्भोगस्य आसनेन भवति । द्यूतसम्बद्धाः २०, कामसुखसम्बद्धाः कलाः१६ अपि च ४उच्चतरकलाः । सर्वान् योजयित्वा ६४ कलाः भवन्ति । एतदतिरिच्य अन्याः काश्चन सामान्यकलाः उक्ताः सन्ति । गुहासु शिलासु रचितानि शिल्पकलाः सामान्यतः ४०००० वर्षेभ्यः पुरातनानि इति अपर् पालियोलिथिक् कालस्य पेट्रोग्लिप् साक्ष्यानि प्राप्तानि । किन्तु अस्याः कलायाः विषये निखरव्याख्यानं कर्तुं न शक्यते । यतः अस्याः कलायाः रचनस्य कालस्य संस्कृतेः च विषये विशेषज्ञानं न प्राप्तम् । प्रपञ्चे एतावता कलेन प्राप्ता प्राचीनतमा कलाकृतिः(आर्ट् आब्जिक्ट्) इत्युक्ते ७५०००वर्षेभ्यः प्राचीना दक्षिणाफ्रिकागुहासु प्राप्ता उत्कीर्णा शम्बूकस्य शुक्तिः । .[५] कला स्वस्य अनेकानि साम्प्रदायिकमूलानि प्राचीनसंस्कृतौ सन्ति । मेसोपोटमिया पर्शिया भारतम् चीना प्राचीन् ग्रीक् रोम् इङ्का माया ओलेमेक् इत्यादयः प्राचीनसंस्कृतिषु कलामूलानि सन्ति । प्रत्येकं प्राचीनसंस्कारे अपि स्वस्य काञ्चित् कलाशैलीं पोषितवती । प्राचीना इस्लामिक् (मुसल्मानानाम्) कला मूर्तिचित्रणं तिरस्कृतवती अतः जियोमेट्रिकल् विन्यासः क्यालिग्राफी वास्तुशिल्पः इत्यादीनां विषये अदरः प्रदर्शितः । पूर्वस्यां दिशि कलासु मतस्य प्रभावः अधिकः आसीत् । भारतम् टिबेट् च देशभ्यां शिल्पेषु नृत्यकलायै प्राधान्यं दत्तम् । धार्मिकवर्णचित्राणि शिल्पकलाकृतिभिः प्रभावितानि आसन्त् । चीनादेशे अपि अनेकाः कलाप्रकारः प्रवर्धमानाः अभवन् । जेड् कार्विङ्ग् कांस्यशिल्पाः मृत्कलाकृतयः पद्यानि क्यालिगृफि सङ्गीतं च अनेकै राजवंशीयैः पोषितानि आसन् । जपानदेशः अपि स्वस्याः कलशैल्याः राजवंशस्य नाम एव अङ्कितवान् । अत्र क्यलिग्रफिवर्णचित्रयोः मिश्रणं दृष्टुं शक्यते । अस्मिन् देशे १७शतकस्य अनन्तरकाले वुड् ब्लाङ्क् प्रिण्टिङ्ग् प्रसिद्धम् अभवत् ।

गुणलक्षणानि[सम्पादयतु]

कला सामान्यतः बाह्यचक्षुषाम् अवलोकनापेक्षया अन्तरङ्गग्राहणम् इच्छति । कलायाः सृष्टिः निर्दुष्टेन निर्दिष्टेन उद्देशेन च भवति । ललितकला किमपि अन्यं लक्ष्यं साधयति । एतादृशचिन्तनस्य परिणमेन कलासृष्टिः ऊहातीतम् । विभागनिश्चयः दुस्साध्यः अभवत् । कलासृष्टिं अनेकैः विधैः आस्वादयितुं शक्यते । अनेन कारणेन एव अस्याः नानाविधानि विवरणानि प्रस्तूयन्ते । कलायाः महोपलब्धिः नाम कस्मिंश्चित् एकस्मिन् कौशले नैपुणप्राप्तिः । अतवा कस्यचित् एकस्य माध्यमे नियन्त्रणप्राप्तिः । बहुशः आधुनिकाः कलाविदः केवलं कलाकृतेः दर्शनेन सर्वं ज्ञतं भवति तादृशकलाकृतीः न रचयन्ति । कलायाः परिवर्तनस्य गुणः भवति ।

वैविध्यम्[सम्पादयतु]

सर्जनात्मककालानं विभागः तस्याः उपयुत्कतन्त्राणाम् आधारेण क्रियते । अलङ्कारस्य कला (डेकोरेटिव्) रूपशिल्पकला (प्ल्यास्टिक् आर्ट्) प्रदर्शनकला (पर्फार्मिङ्ग् आर्ट्) इति विभगः क्रियते । अथवा साहित्यक्षेत्रं विज्ञानक्षेत्रम् इव न भूत्वा तन्त्रानुसारं शैक्षणिकरीत्या विभक्तेषु विषयेषु कला अपि काचित् भवति ।[१] कला माध्यमः नाम कलकृतिः केन वस्तुना रचिता भवति सः । उदाहरणार्थं वर्णचित्रकलायाः माध्यमः कागदं वर्णा च । कलारुपम् नाम कलाप्रकारः इत्युक्ते काचित् कलात्मका अभिव्यक्तिः । उपयुक्तः माध्यमः प्रकारस्य उपरि प्रभावं करोति एव । शिल्पकृतेः आकारः त्रिमुखयुक्तं भवेत् यतः गुरुत्वस्य कारणेन सा आकृतिः न पतेत् । यस्य कस्यापि निर्दिष्टस्य माध्यमस्य किञ्चित् वैशिष्ट्यं निर्बन्धः नियति च भवन्ति एव । अस्य सम्प्रदायबद्धलक्षणम् इति व्यवहारः (फार्मल क्वालिटी) अस्य कश्चित् दृष्टन्तः एव भवति । वर्णचित्रकलायाः सम्प्रादायबद्धलक्षणानि नाम स्थूलपटः, वर्णानि, कूर्चः इत्यादयः । यस्याः कस्याः अपि कलकृतेः रूपं सम्प्रदायबद्धः माध्यमः कलाविदः उद्देशः च निर्धारयन्ति । कलाकृतेः शैली नाम कलाविदः कलाकृतेः विशिष्टं रूपं विशिष्टा पद्धति च ।

नैपुण्यम्[सम्पादयतु]

कला इति पदम् एवम् उपयोजयन्ति यत् प्रशिक्षया प्राप्तं सामर्थ्यम् अथवा माध्यमे प्राप्तं नियन्त्रणम् इति । भाषां योग्यरीत्या प्रयोजयति चेत् सापि कला इत्युच्यते । भवः चिन्तनं ग्रहणं च या अभिव्यञ्जयति सा कला इति सरलतया वक्तुं शक्यते । कश्चित् सामान्यः जनः कालावित् भवितुं तस्य विशेषः परिश्रमः परिणतिः च आवश्यकी इति जनसामान्यः अभिप्रायः । साम्प्रदायिकं नैपुण्यं कलातः पृथक्कर्तुम् अश्कयं गुणलक्षणं इति परिगणीतम् आसीत् । अतः कलायाः साफल्यं नैपुण्याधीनं भवति । किन्तु लियनार्डो डा विङ्कि इत्यस्यानुगुणं नैपुण्यस्य अभिव्यक्तिः तस्य प्रयत्नात् अधिकं न भवति इति । विंशतशतकस्य आरम्भे जान् सिंगर् सार्जेण्ट् करचतुर्यिन कृतप्रदर्शनानि जनप्रशंसाम् अवप्नोत् । किन्तु केचन शङ्कया पश्यन्ति स्म । तस्मिन् एव काले सुप्रसिद्धः कलाकारः पाब्लो पिकासो इत्येषः स्वस्य साम्प्रदायिकशैक्षिकप्रणालीं समाप्यमाणः आसीत् । आधुनिककलायाः विषये सर्वसामान्यः आक्षेपः इत्युक्ते सर्जनात्मककलाकृतिं सृष्टुम् आवश्यकस्य कौशलस्य अभावः सर्वदा अस्ति । कल्पनात्मकासु कलासु (कन्सेप्ट्युवल् आर्ट्स्) मार्सेल् डुचाम्प् इत्य्स्य फौण्टेन् इति नामान्वितः कलाकारः सिद्धवस्तूनि (फौण्ड् आब्जेक्ट्) उपयुज्य साम्प्रदायिककलाकौशलानि उत्सृज्य कलाकृतिं सृष्टवान् । हिर्स्टन् इति कश्चित् किमर्थं जनप्रियः कलाकारः अभवत् इत्युक्ते तस्य अगाधा कल्पनाशक्तिः जनान् मन्त्रमुग्धान् करोति स्म । कल्पनात्मकां समकालीनां च कलाकृतीनां रचनं सिद्धवस्तूनां संयोजनम् एव अस्ति । इदानीमपि अधुनिककलाकारः समकालीनाः च चित्ररचने वर्णविन्यासे च कुशलाः सन्ति । अपि च कलाकृतिनिर्माणे सिद्धहस्ताः सन्ति ।

मौल्यनिर्णयः[सम्पादयतु]

कला इति पदं कदाचित् योग्यतायाः निर्णयर्थमपि उपयोजयन्ति । अतः तद्भक्ष्यम् अपि काचित् कलासृष्टिः पाचकः कलाकारः इति वक्तुं शक्यते । वञ्चनमपि कला भवति । तस्य कूटस्य चातुर्यं कला इति परिगण्यते । मौल्यं निर्णेतुं विमर्शात्मकः मनोभावः आवश्यकः भवति । प्राथमिके स्तरे कस्याश्चिदपि कलाकृतेः श्रेष्ठतायाः परिगणनावसरे तस्यां तिरस्कारयोग्यः अथवा पुरस्कारयोगः गुणः अस्तिवा नेति परिक्षा सामर्थ्यम् आवश्यकं भवति । तस्य ग्रहणं सदापि अनुभवानाम् आधारेण एव भवति । तद्ग्रहणं व्यक्तेः व्यक्तिः भिन्नं भवति । या मनसः उल्लासं न जनयति तां कला इति न परिगणयेत् इति सामान्यः अभिप्रायः । किन्तु काचित् उत्तमा कला कदाचित् प्रेक्षकाणां श्रोतॄणां मोदं न जनयेत् अथवा सुन्दरा इति अभिप्रायं न कारयेत् । कस्यचित् कलाकारस्य प्रधानः उद्देशः न केवलं सौन्दर्यप्रज्ञायाः जागृतिः प्रत्युत सामाजिकप्रज्ञायाः, नैतिकप्रज्ञायाः, अथवा सच्चिन्तनस्य जागृतिः भवति । एतावदेव स्थापितस्य सुन्दरं सर्वं श्रेष्ठम् इति भावं विरुद्ध्य अभिप्रायभेदः आरब्धः एव । सदभिरुचियुक्ताम् आकर्षिकां सम्पूर्णतया त्यजेत् इति भावः अपि न । वास्तवेन अस्याः विरुद्धा अपि कदाचित् प्रकृता भवति । नैकाः कलाशालाः कलायाः श्रेष्ठतां विमर्शयितुं स्वमानदण्डं प्राप्नुवन् । कलायाः मौल्याङ्कनं कालधर्मानुगुणं भवति इति निश्चयः ।

उद्देशः[सम्पादयतु]

विश्वस्य दीर्घेतिहासस्य पुटेषु कलायाः वैविध्यमयोद्देशाः दृश्यन्ते । अतः कलां निर्दिष्टस्य कस्यचिदपि उद्देशस्य नियतं कर्तुं न शक्यते । इत्युक्ते कलायाः उद्देशः अस्पष्टः इत्यपि न । कलासृष्टौ अनन्यानि विविधानि कारणानि भवन्ति । कलायाः उद्देशः चित्ताकर्षणं मनुष्यस्य मानवसहजभावानां स्पन्दनम् च । कला नैतिकां प्रज्ञा अथवा सौन्दर्याभिलाषां च जागरयति । अथावा तादृशभावानां संवहनार्थमपि उपयुक्ता भवेत् । कलावित् स्वभावं प्रकटयति । अतः प्रेक्षकाः श्रोतारः वा स्वभावान् अपि जगरयेयुः । परिणामकारिणी कला मनुष्यस्य स्थिते विषये नवज्ञानं व्यक्तेः अथवा समुदायस्य विषये ददाति । एतत् चिन्तनं सर्वदा सकारात्मकम् एव भवेत् इति आशयः नास्ति । कलालारस्य कौशलं तेन उप्ताद्यमानस्य परिणामे प्रभावं करोति । अनेन नूतना काचित् अन्तर्दृष्टिः उन्मीलिता भवति । एकवक्येन वदमः चेत् कलायाः उद्देशः कलाकारस्य भावाभिव्यञ्जनं लोकस्य मनोरञ्जनम् च ।

कलाभेदाः[सम्पादयतु]

सामान्याः[सम्पादयतु]

७ शरीरकलाः[सम्पादयतु]

  • मांसधरा
  • रक्तधरा
  • मेदोधरा
  • श्लेष्मधरा
  • मलधरा
  • पित्तधरा
  • रेतोधरा

१६ चन्द्रकलाः[सम्पादयतु]

  • अमृता
  • मानदा
  • पूषा
  • तुष्टिः
  • पुष्टिः
  • रतिः
  • धृतिः
  • शशिनी
  • चन्द्रिका
  • कान्ति
  • ज्योत्स्ना
  • श्रीः
  • प्रीतिः
  • अङ्गदा
  • पूर्णा
  • पूर्णामृता

१२सूर्यकलाः[सम्पादयतु]

  • तपिनी
  • तापिनी
  • धूम्रा
  • मरीचिः
  • ज्वालिनी
  • रुचिः
  • सुषुम्णा
  • भोगदा
  • विश्वा
  • बोधिनी
  • धारिणी
  • क्षमा

१०अग्निमण्डलकलाः[सम्पादयतु]

  • धूम्राचिः
  • ऊष्मा
  • ज्वलिनी
  • ज्वालिनी
  • विस्फुलिङ्गिनी
  • सुश्रीः
  • सुरूपा
  • कपिला
  • हव्यम्
  • कव्याम्

६४कुशलकलाः[सम्पादयतु]

  • गीतम् - गानस्य कौशलम् ।
  • वाद्यम् - वेणुः वीणा मृदङ्गादीनां वादनकौशलम् ।
  • नृत्यम् - भरतनृत्यादिनाट्यकौशलम् ।
  • आलेख्यम् - चित्ररचनकौशलम् ।
  • विशेषकच्छेद्यम् - ललाटतिलकस्य रचनकौशलम् ।
  • तण्डुलकुसुमबलिविकाराः - बहुवर्णिततण्डुलैः देवस्य पुरतः पद्मादिरङ्गवल्लिरचनकौशलम् ।
  • पुष्पास्तरणम् - पुष्पाणि विकीर्य अलङ्करणकौशलम् ।
  • दशनवसनाङ्गरागः - देहस्य दन्दानां वस्त्राणां च वर्णसंयोजनकौशलम् ।
  • मणीभूमिकाकर्म - रत्नालङ्कारकौशलम् ।
  • शयनरचनम् - शय्यायाः अलङ्कारकौशलम् ।
  • उदकवादम्- जलतरङ्गवादनकौशलम् ।
  • उदकाघातः - नालिकया जलसेचनम् ।
  • चित्राश्च योगाः - अनेककष्टदानेन इन्द्रियनिस्तेजकरणम् ।
  • माल्यग्रथनविकल्पाः -विविधहाराणां निर्माणम् ।
  • शेखरकापीडयोजनम् - केशग्रन्थिं विरचय्य अलङ्करणम् ।
  • नेपथ्यप्रयोगः - नाट्यादीनां वेषभूषादिप्रसाधनम्।
  • कर्णपत्रभङ्गाः - रत्नखचितपत्राकारस्य आभरणैः कर्णयोः अलङ्करणम् ।
  • गन्धयुक्तिः - सुगन्धद्रव्यानां निर्माणम् ।
  • भूषणयोजनम् - देहावयवानुगुणम् आभूषणयोजनम् ।
  • ऐन्दजालाः कौचुमाराश्च योगाः - यक्षविद्या अपिच शरीरसम्बद्धलोपान् दुरीकृत्य सौभाग्ययोगनिर्माणम् ।
  • हस्तलाघवम् - हस्तचालनकौशलम् ।
  • विचित्रशकयूषभक्ष्यविकारक्रिया - विविधैः शकैः भक्ष्यभोज्यनिर्माणम् ।
  • पानकरसरागासवयोजनम् - पनकेत्यादीनां पानीयनिर्माणम् ।
  • सूचीवानकर्माणि - सूचीतन्तुभिः वस्त्रचित्रविन्यासः ।
  • सूत्रक्रीडा - सूत्रेण विविधेन्द्रजालप्रदर्शनम्।
  • वीनाडमरुकवाद्यानि - वीणाडमरुगेत्यादिवादानां वादनकौशलम् ।
  • प्रहेलिका - गूढार्थयुक्तचातुश्लोकानां निर्माणम् ।
  • प्रतिमाला - अन्त्याक्षरीपठनकौशलम् ।
  • दुर्वाचकयोगः - वादार्थं वा विनोदार्थं वा दुरुच्चारयुक्तशब्दनिर्माणम् ।
  • पुस्तकवाचनम् - अधिकपुस्तकानां पठनकौशलम् ।
  • नाटकाख्यायिकादर्शनम् - रूपकाणाम् आभिनयकौशलम् ।
  • कव्यसमस्यापूर्णम् - पद्यरूपसमस्यानां पूरणस्य कौशलम् ।
  • पट्टिकावेत्रवानविकल्पाः - वेत्रदण्डैः करण्डिका स्थाली इत्यादीनां ग्रथनम् ।
  • तक्षककर्माणि - दारुकर्म ।
  • तक्षणम् - काष्ठशिल्परचनम् ।
  • वास्तुविद्या - गृहनिर्माणकौशलम् ।
  • रूप्यरत्नपरीक्षा - रजतसुवर्णेत्यादीनां सुलोहानां परीक्षणम् ।
  • धातुवादः - सिला मृत्तिका लोहः रत्नम् इत्यादीनां धातूनां शोधनं परिशीलनम् च।
  • मणिरागकारज्ञानम् - रत्नानां वर्णाकारादीनां ज्ञानम् ।
  • वृक्षायुर्वेदयोगाः - वृक्षकानाम् अरोपेन वाटिकानिर्माणम् ।
  • मेषकुक्कुटलषकयुद्धविधिः - मेषकुक्कुटेत्यादीनाम् कदनसंयोजनम् ।
  • शुकशारिकाप्रलापनम् - कीरेत्यादिपक्षीणां वगभ्यासकरणम् ।
  • उत्सादने संवहने केशमर्दने च कौशलम् - पादाघातने अङ्गमर्धने केशतैलाभ्यङ्गे नैपुण्यसम्पादनम् ।
  • अक्षरमुष्टिकाकथनम् - अङ्गुलिमुद्राभिः विविधविषयानां निरूपणकौशलम् ।
  • म्लेच्छितविकल्पाः - रहस्यविषयानां ज्ञापने युक्तियुक्तपदानां प्रयोगकौशलम् ।
  • देशभाषाविज्ञानम् - विविधदेशभाषाकौशलम् ।
  • निमित्तज्ञानम् - शकुनविज्ञानम् ।
  • पुष्पशकटिका - जलयुद्धारथं सजीवनिर्जीवयन्त्राणां संयोजनम् ।
  • धारणमातृका - अधीतशास्त्राणां दृढीकरणशास्त्राभ्यासः ।
  • सम्पाठ्यम् - सम्यक पठनम् ।
  • मानसी - दृश्यानाम् अदृश्यानां वस्तूनां भेदविषयचिन्तनम् ।
  • काव्यक्रिया - काव्यादीनां रचनम् ।
  • अभिधानकोशः - निघण्टुनिर्माणम् ।
  • छन्दोविज्ञानम् - वृत्तादीनां ज्ञानम् ।
  • क्रियाकल्पः - कार्यविधानस्य कौशलम् ।
  • छलितकयोगः - द्यूतेत्यादिभिः जनसम्मोहनम् ।
  • वस्त्रगोपनानि - विविधवस्त्राणां संरक्षणम् ।
  • द्यूतविशेषाः - विविधद्यूतक्रीडाः ।
  • आकर्षक्रीडा - चतुरङ्गक्रीडकौशलम् ।
  • बालक्रीडनकानि - बाललीलार्थं विविधाः खेलनज्ञानम् ।
  • वैनयिकीनाम् - विनयबोधनविद्या ।
  • वैजयिकीनाम् - विजयप्राप्तेः विधानबोधनज्ञानम् ।
  • व्यायामिकीनां च विद्या - व्यायमस्य विदिबोधनस्य विद्याज्ञानम् ।

वीथिका[सम्पादयतु]

टीकाः[सम्पादयतु]

  1. ವೊಲೆಹಿಮ್ 1980, op. cit. ಎಸ್ಸೇ VI. pp. 231-39.
  2. Gombrich, Ernst. (2005). "Press statement on The Story of Art". The Gombrich Archive. Retrieved 18 November 2008. 
  3. रिचर्ड् वोलेहिम् रिचर्ड् वोलिहिम् एण्ड् इट्स् आब्जेक्ट्स् p.1, 2nd edn, 1980, केम्ब्रिज् युनिवर्सिटि प्रेस् ISBN 0-521-29706-0
  4. देविड् नोविट्स् "दि बौण्डरीस् आफ् आर्ट्स् ", 1992
  5. ರಾಡ್‌ಫೋರ್ಡ್, ಟಿಮ್. "World's Oldest Jewellery Found in Cave"गार्डियन् अन्लिमिटेड् क्रि.श.२००४तमवर्षः एप्रिल् मासस्य १६

आधारग्रन्थाः[सम्पादयतु]

  • ಆರ್ಥರ್ ಡಾನ್ಟೊ, ದಿ ಅಬ್ಯುಸ್ ಆಫ್ ಬ್ಯೂಟಿ: ಎಸ್ತೆಟಿಕ್ಸ್ ಅಂಡ್ ದಿ ಕಾನ್ಸೆಪ್ಟ್ ಆಫ್ ಆರ್ಟ್. 2003
  • ಡಾನ ಅರ್ನಾಲ್ಡ್ ಮತ್ತು ಮಾರ್ಗರೇಟ್ ಇವೆರ್ಸನ್ (eds.) ಆರ್ಟ್ ಅಂಡ್ ಥಾಟ್ . ಆಕ್ಸ್‌ಫರ್ಡ್: ಬೇಸಿಲ್ ಬ್ಲ್ಯಾಕ್‌ವೆಲ್, 2003.
  • ಮೈಕಲ್ ಆನ್ ಹೋಲಿ ಮತ್ತು ಕೀತ್ ಮೋಕ್ಸಿ(eds.) ಆರ್ಟ್ ಹಿಸ್ಟರಿ ಅಂಡ್ ವಿಷ್ಯುಯಲ್ ಸ್ಟಡಿಸ್ . ಯೇಲ್ ಯುನಿವರ್ಸಿಟಿ ಪ್ರೆಸ್, 2002.
  • ಜಾನ್ ವೈಟ್‌ಹೆಡ್. ಗ್ರಾಸ್ಪಿಂಗ್‌ ಫಾರ್‌ ದಿ ವಿಂಡ್. 2001
  • ನೋಯಲ್ ಕಾರೊಲ್, ಥಿಯರಿಸ್ ಆಫ್ ಆರ್ಟ್ ಟುಡೆ. 2000
  • ಎವೆಲಿನ್ ಹಾಚರ್, ed. ಆರ್ಟ್ ಆಸ್ ಕಲ್ಚರ್: ಆನ್ ಇನ್ಟ್ರಡಕ್ಷನ್ ಟು ದಿ ಅಂತ್ರೊಪಾಲಜಿ ಆಫ್ ಆರ್ಟ್. 1999
  • ಕಾಥರೀನ್ ಡಿ ಸೆಗೆರ್(ed.). ಇನ್‌ಸೈಡ್‌ ದಿ ವಿಸಿಬಲ್ . MIT ಪ್ರೆಸ್, 1996.
  • ನೀನಾ, ಫೆಲ್ಶಿನ್, ed. ಬಟ್ ಇಸ್ ಇಟ್ ಆರ್ಟ್? 1995).
  • ಸ್ಟೀಪನ್ ಡೇವಿಸ್, ಡೆಫನಿಷನ್ಸ್ ಆಫ್ ಆರ್ಟ್. 1991
  • ಆಸ್ಕರ್ ವೈಲ್ಡ್, "ಇನ್‌ಟೆನ್ಷನ್ಸ್".
  • ಜಿಯಾನ್ ರಾಬರ್ಟ್‌ಸನ್ ಮತ್ತು ಕ್ರೇಗ್ ಮಾಕ್‌ಡೇನಿಯಲ್, "ಥೀಮ್ಸ್ ಆಫ್‌ ಕಾಂಟೆಂಪರರರಿ ಆರ್ಟ್, ವಿಷ್ಯುಯಲ್ ಆರ್ಟ್ ಆಫ್ಟರ್ 1980." 2005

विशेषावलोकनम्[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कला&oldid=266289" इत्यस्माद् पुनः प्राप्तिः