कामसूत्रम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

कामसूत्रम् (Kamasutra) इति ग्रन्थः वात्स्यायनमुनिप्रणीतः, कामकलासम्बद्धः ग्रन्थः एषः । स्त्री-पुरुषयोः शारीरकसम्बन्धः एव कामः इति नास्ति । काम कः? इति यदि ज्ञातुम् इच्छन्ति तर्हि सम्यग् रीत्या अवश्यमेव पठितव्याः कामसूत्रम्, अनङ्गरागः, रतिरहस्येत्यादयः अमरग्रन्थाः।

मूलकर्ता कः[सम्पादयतु]

कामशास्त्रं प्रजापतेः एव आगतम् । अत्र प्रमाणमेवमस्ति

प्रजापतिर्हि प्रजाः सृष्ट्वा तासां स्थितिनिबन्धनं त्रिवर्गस्य साधन मध्यायानां

शतसहस्रेणाऽग्रे प्रोवाच - वात्स्यायनकामसूत्राणि------१.१.५
त्रिवर्गो नाम धर्मार्थकामाः । एषु त्रिषु कामस्यैव प्राधान्यम् । कामं विना सृष्टिरेव न भवति । "स एकाकी न रमते । स द्वितीयमैच्छत्, बहु स्यां प्रजायेयेति, इच्छामात्रं प्रभोस्सृष्टिः" इत्याद्युपनिषत्सूक्तयोऽपि कामस्यैव प्राधान्यं सूचयन्ति । धर्माविरुद्धावेव अर्थकामौ सेवेतेति ज्ञापयितुं धर्मस्य प्राधान्यं दत्तम् । कामसूत्राणि वात्स्यायननाम्ना प्रसिद्धानि । सः न कर्ता । मल्लनागाचार्य इति कश्चित् विद्वान् वत्सराजस्य पुत्रान् संस्कृतवानिति कारणतः तस्येव वात्स्यायन इति नामागतमिति कथ्यते । मल्लनागः स्वस्मात्प्राक् स्थितान् कामशास्त्रग्रन्थान् उत्सन्नप्रायान् सङ्गृहीतवानिति कथ्यते । दत्तकः बाभ्रव्यः चारायणः सुवर्णनाभः औद्दालकिः घोटकमुखः गोनर्दीयः गोणिकापुत्रः कूचुमारः इत्यादि कामशास्त्रविस्तारकाः आसन् । एतेषां पुस्तकानि सर्वाण्यपि वात्स्यायनबिरुदभाक् मल्लनागाचार्यः सङ्गृहीतवान् । अतः मल्लनागाचार्योऽपि सङ्ग्रहकर्तेति सन्धातेति ज्ञातव्यं भवति । कामसूत्राणि तु वात्स्यायननाम्ना प्रसिद्धिङ्गतानि ।

वात्स्यायनस्य कालः[सम्पादयतु]

क्रीस्तोः प्राक् १५० वत्सरकालीनस्य पतञ्जलिमहर्षेः महाभाष्यस्थितव्याकरणशास्त्ररचनावश्यकतादिविषयाः वात्स्यायनकामसूत्रग्रन्थे त्रिवर्गप्रतिपत्त्यध्याये दृश्यन्ते । अतः वात्स्यायनोऽयं पतञ्जलिसमीपकालीनत्वेन क्रीस्तोः प्रागेव द्वितीयशताब्दीय इति निश्चीयते प्रसिद्धविद्वद्भिः श्री पञ्चाग्नुल आदिनारायणशास्त्रिमहोदयैः स्वकीये यशोधरीयजयमङ्गळव्याख्यानस्य आन्ध्रविवरणग्रन्थे । वात्स्यायनकामसूत्राणां "जयमङ्गळ"मिति नाम्ना यशोधरपण्डितः व्याख्यामकरोत् । तद्व्याख्यानस्य आन्ध्रविवरणम् पञ्चाग्नुल आदिनारायणशास्त्रिमहोदयाः कृतवन्तः । तद्ग्रन्थादेव उद्धृत्य एष लघुपरिचयः क्रियते । अस्मिन्ग्रन्थे साङ्घिक, राजकीय, आर्थिक, सांस्कृतिक, विविधशास्त्रीयविषयाः बहवः सन्ति ।

कामसूत्रग्रन्थस्य विभागाः[सम्पादयतु]

१. साधारणाधिकरणम्----अस्मिन्नध्यायाः सूत्राणि च एवं सन्ति------- -
१. शास्त्रसङ्ग्रहाध्यायः-----सूत्राणि--१ तः ८७ ।
२.त्रिवर्गप्रतिपत्त्यध्यायः (सूत्राणि---८८ तः १३९),
३.विद्यासमुद्देशाध्यायः--(सूत्राणि--१४० तः १६४),
४.कामसूत्रं--नागरकवृत्ताध्यायः-(सूत्राणि--१६५ तः २१६),
५. नायकसहायदूतीकर्मविमर्शाध्यायः--(सूत्राणि--२१७ तः २५७)
२.साम्प्रयोगिकाधिकरणम्---अत्र
१.रतावस्थापनाध्यायः--(सूत्राणि--२५८ तः ३३४),
२.आलिङ्गनविचाराध्यायः--(सूत्राणि--३३५ तः ३६६),
३.चुम्बनविकल्पाद्यध्यायः---सूत्राणि---३६७ तः ४००),
४.नखजात्यध्यायः--(सूत्राणि---४०१ तः ४३२),
५.दशनच्छेद्याद्यध्यायः(सू ४३३ तः ४७५),
६.संवेशनचित्ररताध्यायः-(सू--४७६ तः ५२४),
७.प्रहणनयोगाः--सीत्कृतक्रमाः-(सूत्राणि--५२५ तः ५५६),
८.पुरुषोपसृप्ताध्यायः-(सू-५५७ तः ५५८),
९.औपरिष्टकाद्यध्यायः--(सू ५८९ तः ६२९),
१०.रतारम्भावसानिकाध्यायः-(सू ६३२ तः ६८५)

ग्रन्थे ७२८ पृष्ठानि १७०० सूत्राणि, विषयास्तु प्रत्यध्याये बहवस्सन्ति ।

"http://sa.wikipedia.org/w/index.php?title=कामसूत्रम्&oldid=252739" इत्यस्माद् पुनः प्राप्तिः