चक्रवर्ती राजगोपालाचारी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Chakravarti Rajagopalachari
C. Rajagopalachari
Governor-General of India
कार्यालये
21 June 1948 – 26 January 1950
Monarch George VI
प्रधानमन्त्री Jawaharlal Nehru
पूर्वगमः The Earl Mountbatten of Burma
पादानुध्यातः Position abolished
Chief Minister of Madras
कार्यालये
10 April 1952 – 13 April 1954
Governor Sri Prakasa
पूर्वगमः P. S. Kumaraswamy Raja
पादानुध्यातः K. Kamaraj
Minister of Home Affairs
कार्यालये
26 December 1950 – 25 October 1951
प्रधानमन्त्री Jawaharlal Nehru
पूर्वगमः Vallabhbhai Patel
पादानुध्यातः Kailash Nath Katju
Governor of West Bengal
कार्यालये
15 August 1947 – 21 June 1948
Premier Prafulla Chandra Ghosh
Bidhan Chandra Roy
पूर्वगमः Frederick Burrows
पादानुध्यातः Kailash Nath Katju
Premier of Madras
कार्यालये
14 July 1937 – 9 October 1939
Governor The Lord Erskine
पूर्वगमः Kurma Venkata Reddy Naidu
पादानुध्यातः Tanguturi Prakasam
व्यक्तिगत विचाराः
जननम् 10 December 1878(1878-12-10)
Thorapalli, Madras Presidency of British India (now in Tamil Nadu)
मरणम् 25 December 1972(1972-12-25) (aged 94)
Madras, India
राजनैतिकपक्षः Swatantra Party (1959–1972)
अन्यराजनैतिक-
सम्बन्धः
Indian National Congress (Before 1957)
Indian National Democratic Congress (1957–1959)
पतिः/पत्नी Alamelu Mangalamma (1897–1916)
मुख्यशिक्षणम् Central College
Presidency College, Madras
वृत्तिः Lawyer
Writer
Statesman
धर्मः Hinduism
हस्ताक्षरम् चक्रवर्ती राजगोपालाचारी's signature

'राजाजी' इति प्रसिद्धः चक्रवर्ती राजागोपालाचार्यः (Tamil: சக்ரவர்த்தி ராஜகோபாலாச்சாரி Cakravartī Rācakōpālācārī) (डिसेम्बर् १०, १८७८ - डिसेम्बर् २५, १९७२) कश्चन भारतीयन्यायवदी, स्वातन्त्रसेनानी, राजनीतिज्ञः, लेखकश्च । अयं भारतस्य अन्तिमः राज्यपालः (गवर्नर्-जेनेरल्) आसीत् । भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य नायकत्वेन, मड्रास्प्रेसिडेन्सि-प्रीमियर्रूपेण, पश्चिमवङ्गस्य राज्यपालत्वेन, इण्डियन्-यूनियन्-मन्त्री, मड्रास्-राज्यस्य मुख्यमन्त्री च आसीत् । स्वतन्त्रपक्षस्य संस्थापकः सः । भारतरत्नस्य प्रथमः पुरस्कारभाक् अयम् । अण्वस्त्रप्रयोगस्य परमविरोधी सः जगतः शान्तेः तीव्रः प्रतिपादकः आसीत् । सेलमस्य आम्रम् इति तेन उपनाम प्राप्तम् आसीत् ।

अयं तमिलुनाडुराज्यस्य सेलम्जनपदे तोरपल्लिग्रामे जन्म प्राप्नोत् । बेङ्गलूरुनगरस्थे सेण्ट्रल्-महाविद्यालये, मड्रास्नगरस्थे प्रेसिडेन्सि-महाविद्यालये च सः शिक्षणं प्राप्तवान् [१]। १९०० तमे वर्षे सः न्यायवादीरूपेण कार्यम् आरब्धवान् [२]। राजनैतिकक्षेत्रं प्रविष्टवता तेन आदौ सेलम्-मुनिसिपालिटि-मध्ये अध्यक्षत्वं गृहीतम् [३]। राष्ट्रियकाङ्ग्रेस्पक्षं प्रविष्टवता तेन रावल्ट्-क्रिया, असहकारान्दोलनम्, वैकोम्-सत्याग्रहः इत्यादिषु भागः गृहीतः । दण्डीसत्याग्रहस्य प्रतिस्पन्दरूपेण वेदारण्यं लवणसत्याग्रहः तेन निरूढः इत्यनेन सः कारागारे स्थापितः [४]। मड्रासे-प्रेसिडेन्सि-प्रीमियर्रूपेण चितः सः १९४० पर्यन्तं कार्यं निरवहत् । ततः जर्मनीदेशेन ब्रिटन्देशः युद्धार्थं सन्नद्धः जातः इत्यतः सः स्वस्य त्यागपत्रम् अयच्छत् । क्विट्-इण्डिया-आन्दोलनस्य विरोधं कृतवान् अयं मुहम्मद् आलि जिन्नेन मुस्लीम् लीग् नायकेन च सह वार्तालापं कृत्वा समानसूत्रताम् आनयत् । १९४६ तमे वर्षे सः भारतसर्कारस्य उद्योग-वितरण-शिक्षण-आर्थिकमन्त्रित्वेन दायित्वं प्राप्नोत् । १९४७-४८ अवधौ पश्चिमवङ्गस्य राज्यपालत्वेन, १९४८-५० भारतस्य राज्यपालत्वेन, केन्द्रगृहमन्त्रिरूपेण १९५१-५२, मड्रास्-मुख्यमन्त्रित्वेन १९५२-५४ वर्षे च कार्यम् अकरोत् । १९५९ तमे वर्षे सः काङ्ग्रेस्पक्षसदस्यत्वाय त्यागपत्रं दत्त्व स्वर्णतन्त्रनामकं नूतनं पक्षं समस्थापयत् । सि एन् अण्णादोरैवर्येण सह मड्रासराज्ये काङ्ग्रेस्विरोधपक्षस्य संस्थापने सहकारम् अयच्छत् । १९६७ तमे वर्षे तेन पक्षेण विजयः प्राप्तः ।

अयं कश्चन प्रबुद्धः लेखकः आसीत् । भारतीय-आङ्ग्ल-साहित्याय तदीयं योगदानम् अस्ति अपूर्वम् । सः देवालय-प्रवेशान्दोलने भागम् अवहत् । निम्नजनानाम् उन्नत्यर्थं सः प्रोत्साहम् अयच्छत् । अनिवार्यरूपेण हिन्दीभाषायाः आनयने अस्य प्रयासः वर्तते इति विमर्शकानाम् अभिप्रायः [५]

बाह्यसम्पर्कतन्तु[सम्पादयतु]

आकराः[सम्पादयतु]

  1. Hopley, Antony R. H. (2004). Chakravarti Rajagopalachari. Oxford Dictionary of National Biography.. http://www.oxforddnb.com/index/31/101031579/. 
  2. Famous Indians of the 21st Century. Pustak Mahal. 2007. pp. p. 42.. ISBN 978-81-223-0829-7.. 
  3. Bakshi, Shri Ram (1990). C. Rajagopalachari.. Anmol Publications. pp. p. 399.. ISBN ISBN 81-7041-313-3, ISBN 978-81-7041-313-4. 
  4. Mahmud, Syed Jafar ((1994)). Pillars of Modern India, 1757–1947. APH Publishing.. pp. p. 88. ISBN ISBN 81-7024-586-9,. 
  5. "Anti-Hindi sentiments still alive in TN", Kumar, P. C. Vinoj, 10 September 2003. Retrieved on 24 मार्च 2014. 

फलकम्:आधार