खान् अब्दुल् गफार् खान्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
खान् अब्दुल् गफार् खान्

खान् अब्दुल् गफार् खान्
जननम् क्रि.श.१८९०तमवर्षम् ।
पेशावर पाकिस्तानम्
मरणम् क्रि.श. १९८८तमवर्षस्य जनवरी मासस्य विंशतितमदिनम् ।
राष्ट्रियता भारतीयः
धर्मः इस्लाम्
मातपितरौ (माता)
(पिता)

ख़ान् अब्दुल् ग़फ़्फ़ार् ख़ान् भारतपाकिस्तानयोः सीमाप्रान्ते बलूचिस्तानस्य महाराजनीतिनेता यः स्वातन्त्रसङ्ग्रामे भागम् अवहत् । स्वकार्यनिष्ठया सीमागान्धिः, बच्चाखान्, बादशहखान् इति उपाधीः प्राप्तवान् । एषः भारतस्य उपमहाद्वीपे अङ्ग्लशासनं विरुध्य अहिंसापूर्वकम् आन्दोलनेन प्रसिद्ध्ः अभवत् । कदाचित् अस्य लक्ष्यं संयुक्तं मतनिरपेक्षं भारतम् आसीत् । क्रि.श. १९२०तमे वर्षे खुदायी खिदमतगार इति नाम्ना सङ्घटनम् अकरोत् । एतत्सङ्घटनं सुर्ख पोश इति नाम्ना अपि सम्बोध्यते ।

क्रान्तिकारिवंशः[सम्पादयतु]

खान् अब्दुल् गफ्फार् खान् इत्यस्य जन्म पाकिस्तानदेशस्य पेशावर इति स्थाने अभवत् । अस्य प्रपितामहः आबेदुल्ला खान् सत्यवादी तथा युद्धरती आसीत् । पठानानां स्वातन्त्र्यार्थं अपि च भारतस्य स्वातन्त्र्यता प्राप्तये एषः महायुद्धानि कृतवान् । स्वतन्त्रतायाः सङ्घर्षे एषः प्राणत्यागं कृतवान् । यथा सः बलशाली आसित् तथैव चतुरः अपि आसीत् । एवमेव अस्य पितामहः सैफुल्ला खान् अपि सङ्घर्षकारी आसीत् । सः सम्पूर्णं जीवनम् आङ्ग्लान् विरुध्य सङ्घर्षे एव व्यतीतवान् । यत्र कुत्रापि आङ्ग्लाः पठाणानाम् उपरि आक्रमणं कुर्वन्ति तत्र सैफुल्ला पठाणानां साहाय्यार्थं गच्छति स्म । स्वतन्त्रतायाः युद्धस्य नीतिं पितामहात् अब्दुल् गफर् खान् प्राप्तवान् । किन्तु अस्य पिता बैराम खान् शान्तस्वभावी आसीत् । भगवति विशेषभक्तियुक्तः आसीत् । यद्यपि पठाणानां विरोधः आसीत् तथापि सः पुत्रम् अब्दुल् गफार् खानं सुशिक्षितं कर्तुं मिशन् शालां प्रवेशितवान् । मिशनरीशालायां विद्यार्जनसमाप्तेः पश्चात् एषः अलीगढं गतवान् । किन्तु तत्र वासव्यवस्थायाः कष्टमनुभूय स्वग्रामं प्रतिनिवृत्तवान् । ग्रीष्मकालस्य विरामावसरे निरर्थकं कालयापनम् अकुर्वाणः समाजसेवां करोति स्म ।

स्वातन्त्र्यसङ्घर्षः[सम्पादयतु]

विद्यार्जनस्य समाप्तेः पश्चात् देशसेवायां निरतः अभवत् । क्रि.श. १९१९तमे वर्षे मार्शल् ला अनुष्ठानस्य काले एषः शान्तेः प्रस्तावम् उपस्थापितवान् । तथापि एषः ब्रिटिश् आरक्षकैः बद्धः । ब्रिटिश् सर्वकारः विद्रोहस्य आक्षेपं निरन्तरम् आरोपयन् कारागारे तं सदा विनिवेशयितुम् इच्छति स्म । अब्दुल् गफारस्य प्रेरणया एव जनाः सम्पर्कतन्त्रीः कर्तितवन्तः इति साक्षिणं निर्मातुं ब्रिटिश् सर्वकारः प्रायतत । किन्तु सर्वकारपक्षेण मिथ्यासाक्षी भवितुं कोऽपि जनः सिद्धः नाभवत् । तथा गफ्फर्खानस्य षण्मासानां कारागारवासस्य दण्डः विहितः । खुदायी खिदमतगार् इति यत् सङ्घटनं तेन रचितं तस्य कार्यं शीघ्रमेव राजनैतिककार्ये परिवर्तितम् अभवत् । तस्य सङ्घटनस्य प्रत्येकं सदस्यस्य एषा प्रतिज्ञा अस्ति । ते सर्वे भगवतः प्रतिनिधयः । तथा सम्पत्तेः अथवा विपत्तेः विषये तेषां समभावः । सर्वदा नेता अग्रेसरः भवति । मृत्युम् आलिङ्गितुं ते सिद्धाः सन्ति । क्रि.श. १९३०तमे वर्षे सत्याग्रहं कुर्वाणाः ते पुनः पञ्जाबस्य कारागारं प्रेषिताः । तत्र अन्येषां पञ्जाबबन्धिनां परिचयः प्राप्तः । कारागारे एते सर्वे सिखमतग्रन्थस्य ग्रन्थसाहीबस्य अध्ययनम् अकुर्वन् । भगवद्गीतापाठकः संस्कृतज्ञः अपि तत्र लब्धः। एवं हिन्दुनां महमदीयानां सिख्खानां च परस्परं मेलनम् अभवत् । एवं तत्र सर्वे गीतां, ग्रन्थसाहीबं, कुरानं च पठन्ति स्म । क्रि.श. १९३१तमवर्षस्य मार्चमासस्य २९तमे दिने लण्डन् नगरे सञ्चालिते वर्तुलोत्पीठिकासभायाः पूर्वं महात्मा गान्धिः तत्कालीनः वैसरायः लार्ड् इरविनः एतयोः मध्ये राजनैतिकसन्धानम् अभवत् । इतिहासे अस्य गान्धि-इर्विन् सन्धानम् (Gandhi–Irwin Pact) इत्येव प्रसिद्धिः । एतस्य पश्चात् अब्दुल् गफर् खान् बन्धमुक्तः सामजिककार्ये निमग्नः अभवत् । यदा महात्मा गान्धिः इङ्ग्लेण्ड्तः आगतवान् तदा ब्रिटिश् सर्वकारः पुनः काङ्गेस् उपरि निर्बन्धम् अकरोत् । अतः दायित्वं स्वीकृत्य व्यक्तिगतावज्ञायाः आन्दोलनम् आरब्धवान् । सीमाप्रान्ते अपि सर्वकारस्य दुर्व्यवहारं विरुध्य आन्दोलनम् आरब्धम् । अतः सर्वकारः आन्दोलनस्य सूत्रधारः इति निश्चित्य गफारस्य समग्रकुटुम्बस्य बन्धनम् अकरोत् । क्रि.शा. १९३४तमेवर्षे कारागारात् विमोचस्य पश्चात् गफार् खान् सहोदरेण सह वर्धानगरे अवसत् । अत्रान्तरे एषः समग्रदेशस्य पर्यटनं कृतवान् । काङ्गेस् पक्षस्य निश्चयानुसारं क्रि.श. १९३९तमे वर्षे प्रान्तीयपरिषदि अधिकारः प्राप्तः । सीमाप्रान्ते अपि काङ्ग्रेस् मन्त्रिमण्डलम् अस्य सहोदरस्य डा.खानस्य नेतृत्वेन रचितम् । किन्तु सः तस्मात् पृथक् सन् जनानां सेवामकरोत् । क्रि.श. १९४२तमे वर्षे अगस्ट् मासस्य आन्दोलनस्य कारणेन पुनः बद्धः क्रि.श. १९४७तमे वर्षे विनिर्मुक्तः । देशस्य द्विभागावसरे अस्य सम्बन्धः भारतम्।भारतेन सह भग्नः इव अभवत् । किन्तु एषः देशविभाजनविषये सहमतः नासीत् । क्रि.श. १९७०तमे वर्षे समग्रं भारतम् अटितवान् । क्रि.श. १९८७तमे वर्षे एषः भारतसर्वकारः सर्वोत्कृष्टपुरस्कारेण भारतरत्नप्रशस्त्या भूषितः ।

मृत्युः[सम्पादयतु]

क्रि.श. १९८८तमे वर्षे पाकिस्तानसर्वकारः तं गृहबन्धने अस्थापयत् । क्रि.श. १९८८तमवर्षस्य जनवरीमासस्य २०तमे दिनाङ्के अब्दुल् गफर् खान् इहलोकं त्यक्तवान् । तस्य अन्तिमेच्छानुसारम् अफघानिस्तानस्य जलालाबाद् पत्तने भूसमाधिम् अकुर्वन् ।

बाह्यानुबन्धाः[सम्पादयतु]

चित्रसञ्चयः[सम्पादयतु]