धोण्डो केशव कर्वे

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
धोण्डो केशव कर्वे
जननम् क्रि.श. १८५८ तमवर्षस्य एप्रिल्मासस्य अष्टादशमदिनम् ।
मुरुड, शेरावाली, रत्नागिरीमण्डलम् महाराष्ट्रराज्यम्
मरणम् क्रि.श. १९६२तमवर्षस्य नवेम्बर्मासस्य नवमदिनम् ।
राष्ट्रियता भारतीयः
वृत्तिः समाजपरिवर्तकः
धर्मः हिन्दुधर्मः
मातपितरौ (माता)
(पिता)

महर्षिः डॉ. धोण्डो केशव कर्वे (जीवनकालः - क्रि.श. १८५८ तमवर्षस्य एप्रिल्मासस्य अष्टादशमदितः क्रि.श.१९६२तमवर्षस्य नवेम्बर्मासस्य नवमदिनपर्यन्तम् ) प्रसिद्धः समाजपरिवर्तकः । महिलाशिक्षा तथा विधवाविवाहः इत्यादिषु महत्वपूर्णविषयेषु अस्य योगदानं महत् अस्ति । स्वस्य जीवनमेव महिलासमुत्थानर्थमेव समर्पितवान् । अनेन मुम्बैनगरे प्रतिष्ठापितः एन्.एन्.डि.महिलाविश्वविद्यालयः भारतस्य सर्वप्रथमः महिलाविश्वविद्यालयः । एषः क्रि.श. १८९१तमवर्षतः १९१४पर्यन्तं पुण्यपत्तने (पुणेनगरे) फरगुस्स्न् महविद्यालये गणितविषयस्य प्रध्यापकः आसीत् । एषः क्रि.श. १९५८तमे वर्षे भारतरत्नप्रशस्त्या सम्मनितः ।

शिक्षा उद्योगः च[सम्पादयतु]

धोण्डो केशव कर्वे जन्म महाराष्ट्रराज्यस्य रत्नगिरिमण्डले मरुड(शेरावली)ग्रमे कस्मिंश्चित् दीनेकुटुम्बे अभवत् । पिता केशव पन्तः, माता लक्ष्मीबायी । अस्य प्राथमिकी शिक्षा मरुडग्रामे एव अभवत् । पश्चात् सतारानगरे सार्धद्विवर्षम् अध्ययनं कृत्वा मुम्बैनगरस्य राबर्टमानी इति शालायां प्रवेशं प्राप्तवान् । क्रि.श. १८८४तमे वर्षे एषः मुम्बैविश्वविद्यालयतः गणितविषये स्नातकपवीम् अवाप्नोत् । स्नातकः सन् एषः एल्फिस्ट्न् विद्यालये अध्यापकः अभवत् । कर्वेवर्यस्य विवाहः तस्य पञ्चदशमे वयसि अभवत् । स्नतकपदविसमापनकाले अस्य पुत्रस्य सार्धवर्षध्वयम् अभवत् । संसारस्य निर्वहणार्थं शालाकर्यम् अतिरिच्य बालिकानां शालाद्वये अल्पकालिककार्यं करोति स्म । गोपालकृष्णगोकलेवर्यस्य आमन्त्रणं पुरस्कृत्य क्रि.श. १८९१तमे वर्षे पुण्यपत्तनस्य (पुणेनगरस्य) प्रसिद्धे पर्ग्युसन् महाविद्यालये प्राध्यापकः अभवत् । अत्र निरन्तरं २३वर्षाणि सेवाम् अकरोत् ।

समाजमुखी[सम्पादयतु]

भारते विधवानां स्थितिः करुणापूर्णा शोचनीया च असीत् । मुम्बैनगरे अध्ययनावसरे एव एतत् दृष्ट्वा विधवाविवाहस्य समर्थनं करोति स्म । अस्य पत्न्याः मरणम् अपि अस्य मुम्बैप्रवासावरे एव अभवत् । अतः क्रि.श. १८९३तमे वर्षे मार्चमासस्य एकादशे दिने गोडबायी इति विधवां परिणीतवान् । विधवाविहास्य विरोधकाले तस्मिन् तेन अतीवकष्टम् अनुभूतम् । मरुडग्रामे एतं समाजबहिष्कृतम् अघोषयन् । अस्य कुटुम्बस्य अपि प्रतिबन्धकम् अकुर्वन् । तश्चात् कर्वेवर्यः विधवाविवाहसङ्घं स्थापितवान् । किन्तु शीघ्रमेव ज्ञातवान् यत् द्वित्राः विधवाः पुनर्विवाहिताः भवन्ति चेत् अथवा विधवाविवाहस्य प्रचारः क्रियते चेत् समस्यायाः परिहारः न भवति इति । अधिकाधिकाः विधवाः सुशिक्षिताः भूत्वा स्वपादभ्यां स्थिताः भवेयुः । येन ताः गौरवपूर्णजीवनं यापयितुं शक्नुवन्ति । अनेन समस्या परिहृता भविष्यति इति चिन्तितवान् । अतः क्रि.श. १८९६तमे वषे एषः अनाथभलिकाश्रमप्रतिष्ठानम् इति सङ्घटनं रूपितवान् । क्रि.श. १९००तमे वर्षे पुणेनगरे हिङ्गणे इति नामके स्थाने किञ्चित् लघुगृहं निर्मीय अनाथबालिकाश्रमं स्थापितवान् । क्रि.श. १९०७तमवर्षे मार्चमासस्य चतुर्थे दिने महिलाविद्यालयम् आरब्धवान् । अस्य स्वीयं भवनं क्रि.श. १९११तमे वर्षे निर्मितम् ।

सामाजिकपरिवर्तनस्य नेता[सम्पादयतु]

काशीनगरस्य बाबू शिवप्रसादगुप्तः जपान्देशं गतः तत्र विद्यमानेन महिलाविश्वविद्यालयेन बहुधा प्रभावितः अभवत् । जपान्देशस्य प्रत्यागमानस्य पश्चात् क्रि.श.१९१५तमे वर्षे गुप्तवर्यः महिलाविश्वविद्यलयेन सम्बद्धं कञ्चनग्रन्थं कर्वेवर्याय अयच्छत् । अस्मिन् एव वर्षे डिसेम्बर् मासे भारतीयराष्ट्रियकाङ्ग्रेस् इत्यस्य राजनीतिसङ्घटानस्य अधिवेशनं मुम्बैनगरे संवृत्तम् । अनेन सह राष्ट्रियसामाजिकसमावेशः (न्याशनल् सोशियल् कन्फरेन्स्) अपि सम्पन्नः यस्य अध्यक्षः महर्षिः कर्वेवर्यः चितः । गुप्तवर्येण दत्तपुस्तकस्य प्रेरणया स्वाध्यक्षीयभाषणस्य मुख्यविषयं महाराष्ट्रस्य महिलाविश्वविद्यालयस्य अकरोत् । महात्मा गान्धिः अपि महिलाशिक्षणस्य मातृभाषामाध्यमेन बोधनस्य च विषये सहमतं दर्शितवान् । अस्य फलरूपेण क्रि.श. १९१६तमे वर्षे कर्वेवर्यस्य निरन्तरप्रयासेन च पुणेनगरे महिलाविश्वविद्यालयस्य आधारशिला स्थापिता यस्य अग्रे महिलापाठशाला इति नाम्ना क्रि.श. १९१६तमवर्षस्य जुलै१६तमे दिने उद्घाटितम् । कर्वेवर्यः अस्य महाविद्यालयस्य प्रथमः प्रांशुपालः अभवत् । धनस्य आवश्यकतां मनसि निधाय तत्पदं त्यक्त्वा धनसङ्ग्रहार्थं प्रस्थितवान् । चतर्षुवर्षेषु एव सर्वव्ययं पूरयित्वा द्विलक्षषोडषसस्ररूप्यकाणि विश्वविद्यालयस्य कोशे पूरितवान् । तन्मध्ये मुम्बैनगर्याः ख्यतः उद्योगपतिः विठ्ठलदास दामोदर ठाकससी विश्वविद्यालयाय १५लक्षरूप्यकाणि दत्तवान् । अतः तस्य मातुः नाम्नि श्रीमती नत्थीबायी दामोदर ठाकससी (एस्.एन्.डी.टी.) महिलामहाविद्यालयः इत्येव प्रथितः । कतिपयवर्षाणां पश्चात् पुणेतः मुम्बैनगरं स्थानान्तरितः अयं विश्वविद्यालयः । स्वस्य ७०तमे वयसि विश्वविद्यालयार्थं धनसङ्ग्रहं कर्तुं यूरोप् अमेरिका आफ्रिका देशान् गतवान् ।

विद्याप्रसारविस्तारः[सम्पादयतु]

क्रि.श. १९३६तमे वर्षे गोवाराज्ये शिक्षणस्य प्रचारार्थं महाराष्ट्रग्रामप्राथमिकशिक्षासमितिः इति सङ्घटनं कृतवान् । अनेन सङ्घटनेन कालक्रमेण विविधेषु ग्रामेषु ४०प्राथमिकविद्यायाः समारब्धाः । भारतदेशसस्य स्वातन्त्र्योत्तरम् एताः शालाः राज्यसर्वकारस्य हस्तगताः अभवन् । क्रि.श. १९१५तमे वर्षे कर्वेवर्यः मराठीभाषया आत्मचरितं लिखितवान् । क्रि.. १९४२तमे वर्षे काशीहिन्दुविश्वविदियालयः अस्मै गौरवपूर्वकं डाक्टरेट् उपादिम् अयच्छात् । क्रि.श. १९५४तमे वर्षे तस्य महिलाविद्यालयेन तमै एल्.एल्.डि.उपाधिः प्रदत्ता । क्रि.श. १९५५तमे वर्षे भारतसर्वकारः एतं पद्मविभूषणप्रशस्त्या सममानयत् । अस्य वयः १००वर्षेषु जातेषु क्रि.श. १९५७तमे वर्षे मुम्बैविश्वविद्यालयः अस्मै एल्.एल्.डि.इति उपाधिना सममानयत् । क्रि.श. १९५८तमे वर्षे भारतस्य उपराष्ट्रपतिः देशस्य सरोच्चेन पुरस्कारेण भारतरत्नप्रशस्त्या समलङ्कृतवान् । भारतस्य पत्रालयतन्त्रीसन्देशविभागेन् अस्य गौरवरूपेण अस्यमूल्याङ्कः प्रकाशितः । देशवासिनः अस्य १०४तमे वर्षवयसि महर्षिः इति उपधिम् अयच्छान् ।


"http://sa.wikipedia.org/w/index.php?title=धोण्डो_केशव_कर्वे&oldid=258217" इत्यस्माद् पुनः प्राप्तिः