गोपालकृष्ण गोखले

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गोपालकृष्ण गोखले
जननम् 9 May 1866(1866-05-09)
कोत्लुक्, रत्नगिरिमण्डलम्,
बाम्बे प्रेसिडेन्सि, ब्रिटिश्-भारतम्
मरणम् 19 February 1915(1915-02-19) (aged 48)
बाम्बे, बाम्बे प्रेसिडेन्सि,
ब्रिटिश्-भारतम्
संस्था भारतीयराष्ट्रियकाङ्ग्रेस्,
डेक्कन्-एजुकेशन्-सोसैटि
राजनैतिक आन्दोलनम् भारतस्य स्वातन्त्र्यसङ्ग्रामः

बाल्यम्, शिक्षणञ्च[सम्पादयतु]

गोपालकृष्णगोखले महाशयः ज्येष्ठो देशभक्तः । महात्मगान्धि-महाभागस्यापि राजनैतिकक्षेत्रे गुरुः । एषः नीति-संयम-सहनानां संगमभूमिः आसीत् । अयं महाराष्ट्रे कोतलूकग्रामे षट्षष्ट्यधिकाष्टादशशततमे (१८६६) क्रिस्ताब्दे अजायत । तस्य पिता कृष्णरायगोखलेमहाशयः । त्रयोदशे वयसि गोपालः पितृवियोगं प्राप्तवान् । तथापि तस्य विद्यार्जने आसक्तिः कुण्ठिता न जाता । रात्रौ वीथीदीपर्प्रकाशे एव सः अध्ययनं कुर्वन् आसीत् । एकदा शालायां गुरुः शिष्येभ्यः गणीतप्रश्नमेकं दत्त्वा गृहे तस्य उत्तरं ज्ञात्वा आगच्छन्तु इति आदिशत । समीचीनमुत्तरं गोपाल एव विलिख्य आनीतवान् । नान्ये छात्राः । अतो गुरुः गोपालम् एवं प्राशंसत् - "गोपाल ! बुद्धिमत्तायां त्वं सर्वप्रथमोऽसि । एहि, प्रथमं स्थानं स्वीकुरु" इति। एवमुक्तोऽपि गुरुणा गोपालः तूष्णीम् अवनतवदनः अतिष्ठत् । वस्तुतः गोपालोऽपि प्रश्नस्योत्तरं ज्येष्ठछात्राणां साहाय्येन अकरोत्, न स्वबुदध्या । अतः स्वप्रशंसां शृत्वा अपराधिभावेन लज्जित अभवत् । अवदच्च सर्वं यथार्थम् । गुरुः गोपालस्य आर्जवं ज्ञात्वा अतुष्यत् । गोपालः अष्टादशे वयसि मुम्बय्यां ‘एलफिन्स्ट्न्’ महाविद्यालये बि.ए. पदवीं प्राप्तवान् ।

उद्योगः[सम्पादयतु]

अनन्तरम् उन्नतन्यायशास्राध्ययनं कर्तुम् उद्युक्तः अभवत् । तदध्ययनसमकालमेव बालागङ्गधरतिलकमहोदयेन स्थापितायां "न्यू इंग्लीष् पाठशालायाम् अध्यापनवृत्तिम् अङ्गीचकार। तिलकमहाभागस्य मराठपत्रिकायां विचारोद्वोधकानि लेखनान्यपि प्रकटयामास । "डेककन् एजुकेशन् सोसैटि" इति ख्यातायाः संस्थायाः स्थायिकार्यकर्ताऽपि भूत्वा पञ्चसप्तत्यनधिकेन मासिकवेतनेन जीवननिर्वाहमकरोत् । गोपालः गाम्भीर्यं, सेवातत्परता इत्यादिभिः सद्गुणैः सर्वमान्योऽभवत् । अत एव तदानीन्तनेन आङ्ग्लसर्वकारेण मुम्बयीविश्वविद्यालयस्य गौरवसदस्यस्थानं तस्मै प्रदत्तम् । पूनापुरसभाद्यक्षः अभवत् ।

राजनैतिकक्षेत्रे परिश्रमः[सम्पादयतु]

गोपालकृष्ण गोखले

अनन्तरं सः नवनवत्यधिकष्टादशशततमे(१८९९) क्रिस्ताब्दे मुम्बयीशासनसभायां निर्वाचितसदस्योऽभवत् । प्रमाणिकैः तर्कबद्धैश्च रागद्वेषरहितैश्च विचारैः काले काले आङ्ग्लशासनमबोधयत् । सर्वाः अपि समस्याः सामोपायेन परिहर्तुं शक्याः इति तस्य अभिप्रायः आसीत् । अतः सः प्रजानां तथा शासनस्य च प्रेमादरपात्रमभवत् । भारतराष्ट्रीयकाङ्ग्रेस्-संस्थायाः चतुर्थादारभ्य दशमपर्यन्तं सर्वेषु अधिवेशनेषु अविरतं भागमवहत् । काङ्गेस् पक्षस्य कार्यदर्शिपदम् अध्यक्षपदं च प्राप्तवान् । तदानीं देशे सर्वत्र स्वातन्त्र्यसंग्रामः आरब्धः आसीत् । तत्र गोखलेमहोदयस्य नेतृत्वे काङ्ग्रेस् -पक्षसदस्याः प्रधानं भागमवहन् । गोखले-महोदयः सौम्यवादी आसीत् । तिलकमहाभागस्तु उग्रवादी आसीत् । तथपि तयोः मनोज्ञं सौहार्दमासीत् । गोपालः भारतसेवकसङ्घ्ं संस्थाप्या हिंसामार्गं विनैव मातृभूमिसेवां शिक्षणप्रसारं लोकजागरणं च सम्पादयितुं प्रायतत । महादेवगोविन्दरानडेमहाशयः गोपालस्य राजनैतिकक्षेत्रे गुरुः आसीत् । रानडे-गोखलेसम्बन्ध इव गोखले-गान्धीसंबन्धोऽपि गुरुशिष्यभावात्मकः आसीत् । महात्मा गान्धिमहोदयः दक्षिणाफ्रिकादेशे भारतीयानाम् उपरि क्रियमाणस्य अन्याय्यस्य विरुद्धम् आन्दोलनं प्रारभत । एतद्विषये भारते सहानुभूतिसम्पादनाय गान्धिमहोदयः भारतम् आगच्छत् । गोखलेसमीपे किञ्चित्काले वसन् तस्य सरलजीवनेन अविरतकार्यपरतया वात्सल्यभावेन च बलादाकृष्टः अभवत् । ततः गान्धिवर्यस्य मनोरथं ज्ञात्वा गोखलेमहोदयः दक्षिणाफ्रिकादेशं गत्वा गान्धिवर्येण कृतम् आन्दोलनं भारतीयानां परिस्थितिं च साक्षात् अपश्यत् ।

विनोदप्रसङ्गः[सम्पादयतु]

तत्र एकदा स्वारस्यकरः कश्चन विनोदप्रसङ्गः समभवत् । गोखलेवर्यस्य सम्माननार्थं भारतीयैः कश्चन समारम्भः आयोजितः । तदर्थं तेन तत्र गन्तव्यम् आसीत् । गमनावसरे धर्तुं गोखलेमहोदयः स्वीयम् उत्तरीयम् अपश्यत् । परन्तु तत् असमीकृतम् आसीत् । अतः स्वयं समीकरेण समीकर्तुम् आरभत । गान्धिमहाभागः विलम्बो भवतीति स्वयमेव समीकर्तुं प्रावर्तत । तदा गोखलेमहोदयः "महाशय ! न्यायालये वादसामर्थ्यं भवतः अस्तीति मे विश्वासः वर्तते । परन्तु वस्त्रसमीकरणे भवतः सामर्थ्यं कथमहं विश्वासिमि । अमूल्यमेतद्वस्त्रं रानडेमहाशयेन प्रीत्या मे उपायनीकृतम् ! समीकरणावसरे त्वया माभूदिदं दग्धम् " इति सपरिहासम् अवदत् । गान्धिमहाभागः बहुजागरूकतया समीकरोमीति वदन् कथमपि गोखले-हस्तात् उत्तरीयं गृहीत्वा समीकरणमकरोत् । गोखलेमहभागात् प्रशंसामपि अलभत ।

मरणम्[सम्पादयतु]

पञ्चदशाधिकनवदशशततमे (१९१५) क्रिस्ताब्दे गान्धिमहाशयः दक्षिणाफ्रिकादेशे स्वीये आन्दोलने विजयी भूत्वा भारतं प्रत्यागच्छत् । तदा गोखलेमहोदयः भारतसेवकसन्घे तं सम्मानयितुं सभाम् आयोजयत् । किन्तु तस्मिन्नेव दिने मूर्च्छां गतः गोखलेमहोदयः सप्ताहानन्तरं पञ्चत्वम् अगच्छत् । गान्धीमहाभागः तस्य संस्मरणार्थम् एकवर्षं यावत् पादरक्षां विना सञ्चरणव्रतं स्वीचकार ।

अग्रिमाध्ययनाय[सम्पादयतु]

  • S. Wolpert, Bal Gangadhar Tilak and Gopal Krishna Gokhale (1962)
  • J. S. Hoyland, Gopal Krishna Gokhale (1933)
"http://sa.wikipedia.org/w/index.php?title=गोपालकृष्ण_गोखले&oldid=277364" इत्यस्माद् पुनः प्राप्तिः