मङ्गल पाण्डेयः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

मङ्गल पाण्डेयः भारतस्य प्रथम स्वातन्त्र्यसङ्ग्रामस्य हुतात्मा इत्येव प्रथितः। अयं ईस्ट इण्डिया समवायस्य ब्रिटिश सैन्ये सेनानी आसीत । क्रि.श.१८५७ तमे वर्षे ब्रिटिश अधिकारिणः विरुध्य कृतम् आक्रमणं प्रथमस्वातन्त्र्यसङ्ग्रामः इति रूपम् अवाप्नोत । भारतसर्वकारेण प्रथमस्वातन्त्र्योद्धॄणां स्मरणार्थं तेषां भावचित्रसहिताः पत्रचीटिकाः प्रचारे आनीताः। तेषां जीवनगाथाः चलचित्ररूपेण लोकार्पिताः।

मङ्गलस्य जीवनम्[सम्पादयतु]

अयं मङ्गल पाण्डेयः भारतस्य उत्तम प्रदेश किंवा उत्तर प्रदेश राज्यस्य बलिया जनपदे नागव ग्रामे क्रि.श.१८२७ तमे वर्षे जुलै मासस्य १९ दिनाङ्के भूमिहार् विप्रकुटुम्बे सञ्जातः । तस्य पिता दिवाकर पाण्डेयः मध्यमस्तरस्य कृषकः। क्रि.श.१८३० तमे वर्षे यदा मङ्गलः वर्ष त्रयस्य आसीत तदा एव तस्य पिता दिवाकर पाण्डेयः दिवङ्गतः। तस्य सहोदर्या सह एतम अपि माता प्रेम्णा अपोषयत । स्वस्य २२ तमे वयसि ईस्ट इण्डिया समवायस्य सेनां प्रविष्टवान । पाण्डेयः ३४ तमे बङ्गाल स्थलीयस्य पदाति दलस्य षष्टदलस्य सदस्य अभवत ।

क्रि.श.१८५७तमस्य घटना[सम्पादयतु]

एन्फील्ड् रैफल् (सामान्यभुशुण्डिः)

क्रि.शा. १८५७तमे वर्षे मार्चमासस्य २९तमे दिने मध्याह्ने बरक्पुरे लेप्टिनेण्ट् बाघ् ३४तमे बङ्गालस्य स्थलीयस्य इन्फेण्ट्रिन् सहायकः स्वसर्वकारस्य अनेकजनाः आक्रमणं कुर्वन्ति इति वार्ता आगता । अपि च तत्र मङ्गल पाण्डेयः विक्षिप्तसैनिकैः सह सेनाप्रकोष्टतः ये बहिरागच्छन्ति तेषाम् अधिकारिणाम् उपरि आक्रमणं कर्तुं सिद्धः भवति । बाघ् तत्तक्षणे एव बुशुण्डीं खड्गं च स्वीकृत्य अश्वमारुह्य पुरो गतवान् । मङ्गलः ३४तमे क्वार्टर् सेनाप्रकोष्ट्स्य पुरतः स्थित्वा बाघ् उपरि गोलिकाप्रहारं कृतवान् । किन्तु गोलिका लक्ष्यभ्रषा अभवत् । तदनन्तरम् आङ्ग्लसार्जेण्ट् मेजर् ह्युसन् इत्याख्यः स्थलीयान् अधिकारिणः आहूय, जेमदर् ईश्वरीप्रसाद्, क्वार्टर् कर्मचारिकमाण्ड् भारतीयः अधिकारी मङ्गल पाण्डेयस्य बन्धनार्थम् आदिशत् । जेमदर् एकेन पण्डेयं नियन्त्रितुम् असाध्यम् अभवत् । तस्मिन् काले एव सः बाघ् कुत्र सः कुत्रेति अक्रोशयन् तत्रागतः । तदा ह्युसन् उक्तवान् बाघ् महिदय भवान् आत्मानं रक्षतु यतः सैनिकः भवतामुपरि गोलिकाप्रहारं करोति इति । पाण्डेयः गोलिकाप्रहरं कृतवान् पुनः लक्ष्यभ्रष्टा गोलिका । ह्युसन् पाण्डेयं भुतले शायितवान् । अन्यसैनिकाः मूकप्रेक्षकाः अभवन् । तदा शेख् पल्टु, आङ्ग्लसैनिकान् नियन्त्रियितुं भारतीयसैनिकानां सहाय्यम् अपेक्षित्वान् । किन्तु ते भारतीयसैनिकाः ह्युसन् उपरि शिलाखण्डानि प्रक्षेपितुम् आरब्धवन्तः । पण्डेयं त्यजतु नो चेत् गोलिकाप्रहारं कुर्मः इति उक्तवन्तः । तदा वार्तां श्रुत्वा कमाण्डिग् अधिकारी जनरल् हर्से तत्र आगत्य पाण्डियस्य बन्धनम् आदिष्टवान् । तदा पाण्डेयः तीव्रतया अभिघातितः आसीत् । सप्ताहानन्तरं यदा पाण्डेयः क्षेमम् अवप्नोत् विचारणार्थं न्यायालयम् आनीतवन्तः । किन्तु तदा मङ्गल पण्डेयः अहं किं कृतवान् इति अहमेव न जानामि । कः व्रणितः इत्यपि न जानामि । पुनः मया वक्तव्यं किमपि नास्ति इति अवदत् । एप्रेल् २१तमे दिनाङ्के अन्यैः त्रिभिः सिख्खसैनिकैः सह पाण्डेयः शूपमारोपितः ।

परिणामः[सम्पादयतु]

सर्वकारस्य विचारणस्य अनन्तरं कर्तव्यभ्रष्टतायाः कारणेन ३४तमः बि.एन्.ऐ. रेजिमेण्ट् (सैन्यगणस्य) विसर्जनं कृतम् । जनरल् हर्से वर्यः शेट् पल्टु इत्यस्मै ’हवल्दार्’स्थानं दत्तवान् । भारतीयेतिहासकारस्य सुरेन्द्रनाथस्य अभिप्रायानुगुणं ३४तमः बि.एन्.ऐ.रेजिमेण्ट् उत्तमसेवाभिलेखयुक्तः आसीत् । विचारणान्यायालः १९तमः बि.एन्.ऐ.बेर्हाम्बर् नगरे आद्यचत्वारसप्ताहेषु अशन्तेः किमपि साक्ष्यं न दृश्यते इति निर्णयं दत्तवान् । मङ्गल पाण्डेयः द्वारा ज्वालितः विरोधस्य विस्फूलिङ्गः सर्वत्र व्याप्तः अभवत् । क्रि.श.१८४७तमे वर्षे मे मासस्य दशमे दिने मेरट् नगरे विरोधान्दोलनम् आरब्धम् । अयं विप्लवः पश्यतः एव समग्रम् उत्तरभारते व्याप्तः येन आङ्ग्लाः स्पष्टं सन्देशं प्राप्तवन्तः यत् इदानीं भारते राज्यभारं सुकरं न इति । किन्तु ते ब्रिटिश् अधिकारिणः विक्टोरियायाः अनुज्ञया भारते अग्रे न कोपि सैनिकः मङ्गलपाण्डियः इव विद्रोहं नकुर्यात् इति ३४७००शासनानि अनुष्ठानितानि । अद्यापि भारते इयमेव परम्परा चलन्ती अस्ति । वक्तुं भारतदेशः क्रि.श.१९४७तमे वर्षे अगस्ट् १५ (आषाढामावास्यायाम्) स्वतन्त्रः अभवत् किन्तु नियन्त्रणं सूत्रं तु कस्याश्चित् विदेशीयमहिलायाः हस्ते एव अस्ति । मङ्गल पाण्डेयसदृशस्य कस्यचित् निरीक्षा अस्ति । कोऽपि सैनिकः तादृशं विद्रोहम् आरप्स्यते उत न इत्यस्य उत्तरं कालगर्भे निगूहितम् अस्ति । यतः कालः तु बलवान् भवति । सः स्वपरिकल्पनया स्वस्य आकलनं पूर्णयति । यावदपि सुरक्षां कुर्वन्तु किन्तु सः न त्यजति एव ।

विद्रोहस्य प्रेरणा[सम्पादयतु]

मङ्गल पाण्डेयस्य अन्यसैनिकानां च विद्रोहस्य मूलं कारणं तु ब्रिटिष् सेनाधिकारिणां विचेष्टा एव । बङ्गालस्य सैन्ये एन्फील्ड् पि-५२ गोलिकास्त्रं नूतनतया प्रत्याकलितम् । तस्मिन् नूतनशैल्याः गोलिकावेष्टाः आसन् । एते वेष्टाः सूकराणां गवां वा मेधसा वेष्टिताः इति किंवदन्तिः प्रसारिता । वेष्टानां मूलानि दन्तैः दष्ट्वा तदनन्तरं नालिकां अधोमुखं कृत्वा गोलिकाः पूरयित्वा अवशिष्टकागदं छित्वा गोलिकाप्रहारं करणीयम् आसीत् । धेनुः हैन्दवानां पवित्रप्राणी, सूकरः मुसल्मानां पवित्रजन्तुः । हिन्दुमुसल्मानसैनिकाः एतेषां जन्तूनां मेधांसि मुखेन दष्टुम् अनुत्साहं प्रकटितवन्तः । भारतीयसैन्यदलानि अस्माकं मतधर्मविरुद्धं ब्रिटिष् अधिकारिणां दुःशासनम् इति अचिन्तयन् । ५६तमः बि.एन्.ऐ.क्याप्टन् विलियम् ह्याल्लिडे इत्यस्य पत्नी बैबल् ग्रन्थं देवनागरीलिप्यां मुद्राप्य सैनिकेभ्यः दत्तवती । अतः ब्रिटिष् अधिकारिणः मतान्तरम् कुर्वन्ति इति वार्ता प्रसृता । अपि च १९,२४ तमः बङ्गालस्थलीयपदातयः क्रि.श.१८५६तमे वर्षे फेब्रवरि सप्तमे दिने औद्दस्य नवाबस्य अधीने दुःशासनस्य काले लक्नौ निस्थानके विशान्ताः अभवन् ।

"http://sa.wikipedia.org/w/index.php?title=मङ्गल_पाण्डेयः&oldid=234239" इत्यस्माद् पुनः प्राप्तिः