असहकारान्दोलनम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

प्रस्तावः[सम्पादयतु]

”असहकारान्दोलनम्” समग्रे भारतदेशे आरब्धं प्रथमम् अहिंसात्मकम् आन्दोलनम् एतत् । एतत् आन्दोलनं महात्मागन्धिमहोदयस्य नायकत्वे भारतीयराष्ट्रियकाङ्ग्रेस्सङ्घटनम् आयोजयत् । एतस्मान् आन्दोलनेन भारतीयस्वातन्त्र्यसङ्ग्रामे गान्धियुगम् आरब्धम् ।

पृष्ठभूमिः[सम्पादयतु]

रौलत् एक्ट्स् कारणेण बिटिष् जनाः भारतीयाणाम् उपरि परमाधिकं प्राप्तवन्तः । ब्रिटिष् अधिकारिणां विना कारणं विना साक्ष्यं यं कमपि परीक्षितुं शोधयितुं च अवकाशः आसीत् । निराधारं सार्वजिकानां सम्पत्तिं बलात् ग्रहणं कुर्वन्ति स्म । एतानि शासनानि क्रि.श.१९१९तमे वर्षे एप्रिल् ६दिने बिटिश् संसत्तः प्रस्थाय भारते चालने आगन्तव्यम् आसीत् । अनेन सह प्रथममहायुद्धपूर्वं चर्चितुं भारतीयप्रतिनिधयः नाहूताः किन्तु भारतस्य सैनिकाः उपयुक्ताः । एतत् भारतीयैः सोढुम् अशक्यम् अभवत् । काङ्ग्रेस् सङ्घाटनस्य मोमम्मदलि जिन्ना अनीबेसेण्ट् बालगङ्गाधरतिलकः गोपालकृष्ण गोखले इत्यादिभिः सौम्यवादिनायकैः स्वातन्त्र्यस्य आक्रोशः कृतः । किन्तु अनेन क्षीणस्वरेण ब्रिटिष् सर्वकारः न जागरितः । तथापि ते लश्करि प्रशासनम् असृजन् ।

चम्पारणम्, खेडा आन्दोलनानि[सम्पादयतु]

माहात्मा गान्धिमहोदयः दक्षिण आफ्रिकायां तदनन्तरं क्रि.श.१९१८तमे वर्षे बिहारस्य चम्पारणे गुजरात्राज्यस्य खेडा प्रदेशेषु प्रदर्शितवान् यत् शासनभङ्गेन एव सर्वकारस्य विनयपूर्वकं विरोधः शक्यते । चम्पारणं खेडा प्रदेशयोः कृषकान् मेलयित्वा कार्यकर्तॄणां सहाय्येन कृषकपरिशोषणस्य विषयान् सङ्ग्रह्य वृत्तं निर्मितवान् । अनेन कृषकाः करविरोधस्य अन्दोलने भागम् ऊढवन्तः । तदा गान्धिमहोदयं ब्रिटिष् अधिकारिणः बन्धितवन्तः । तदा बिहारे गुजरातप्रान्ते च सहस्राधिकाः विरोधं प्राकटयन् । तदा गान्धेः विमोचनम् अभवत् । अस्याः घटनायाः अनन्तरम् उभयपक्षतः सन्धिपत्रस्य हस्तक्षरम् अभवत् । तदनुगुणं क्षामकालेषु अपि कृतः करभारः अपनीतः। सर्वेषां राजकीयबन्दिनां विमोचनम् अभवत् । आहृतकृषिभूमिः, सम्पत्तयः सर्वाः प्रत्यर्पिताः । अमेरिकस्य क्रान्तेः अन्तन्तरं ब्रिटिष् साम्राज्यं विरुध्य प्रप्तः विजयः एषः प्रथमः । युवनेतारः बाबू राजेन्द्रप्रसादः जवाहर लाल् नेह्रू सर्दार् पटेल् इत्यादयः गान्धिमहोदयस्य प्रोत्साहं दत्तवन्तः ।

सत्याग्रहः[सम्पादयतु]

गान्धिमहोदयस्य उद्देशः राष्ट्रे सर्वत्र रौलत् एक्ट् विरुध्य प्रदशनम् आसीत् । सः सर्वकार्यालयाः यन्त्रागाराणि पिहितं भवन्तु । भारतीयाः ब्रिटिष् अधिकारिणाम् आरक्षकविभागतः, सेनाविभागतः, नागरिकसेवाविभागतः कार्यं त्याक्त्वा आगच्छन्तु । ब्रिटिष् शालातः बालान् त्याजयन्तु । इति सूचनाः दत्तवान् । तस्य सङ्कल्पः न केवलं करविरोधः अथवा शीघ्रस्वातन्त्र्यप्राप्तये आग्रहः, हिंसा, शक्तिप्रदर्षनं वा नासीत् । प्रत्येकम् आन्दोलनकारिणः बन्धनं भवतु । आरक्षकपुरुषाणं दण्डान् सहताम् । प्रतिप्रहारं न कुर्वन्तु । हिन्दुमुसल्मनबान्धव्यं रक्षन्तु । इति गान्धिमहोदयस्य महदाशयः आसीत् । गान्धिनः एतदृशयोजनाः काङ्ग्रेस् पक्षस्य नायकः वोरोधितवन्तः । मुस्लिम् लीग् अपि स्वविरोधम् प्रादर्शयत् । किन्तु भारतस्य यूवानः पुलकिताः गान्धिमहोदयस्य प्रोत्साहनम् अकुर्वन् । अनेन प्रेरिताः काङ्ग्रेस् पक्षः मुस्लिम् लीग् च विरोधं विस्मृत्य समर्थनम् अकुर्वन् । गान्धिमहोदयं भारतीयकाङ्ग्रेस् पक्षस्य क्रि.श.१९१९-१९२० तमवर्षयोः अध्यक्षत्वेन निर्वाचितवन्तः ।

आन्दोलनस्य अपनयनम्[सम्पादयतु]

ब्रिटिष् सर्वकारेण अनिरीक्षितं सहासा कृतम् आन्दोलनम् आङ्ग्लानां मनस्थैर्यं कुण्ठितं, लक्षोपलक्ष भारतीयानां प्रेरणां च अकरोत् । ब्रिटिश् संस्थाः सम्पूर्णतया बहिष्कृताः । गान्धिना सह बहूनां नायकानां बन्धनम् अभवत् । देशे सर्वत्र लक्षाधिकान्दोलनकारिणाम् बन्धनम् अभवत् । बिर्टिष् संस्थाविरोधः प्रतिग्रामं व्याप्तः । ऐरोप्यवस्त्राणां सार्वजनिकं दहनं कृतम् । आरक्षकाः सैनिकाः च सहस्राधिकान्दोलनकारिणः घतितवन्तः हिंसितवन्तः च शाताधिकाः प्राणान् अत्यजन् । अन्दोलनानि वर्षत्रयं प्राचलन्। क्रि.श.१९२२तमे वर्षे चौरिचौर इति प्रदेशे केचन अन्दोलकर्तारः १५आरक्षकान् परावर्त्य मारितवन्तः । आरक्षकालयं दाहः कृतः । किन्तु हाताः आरक्षकाः सर्वे भारतीयाः एव । असहकारस्य अन्दोलनं हिंसामार्गगतं पश्यन् गान्धिमहोदयः आन्दोलनस्थगनस्य निर्णयमकरोत् । गान्धिमहोदयः अस्य हिंसाचारस्य दायित्वं स्वयं स्वीकृतवान् । एतं हिंसाचारं स्थागयितुं गान्धिमहोदयः आमरणातम् उपवासम् आरब्धवान् । २१दिनेषु लक्षाधिकाः राष्ट्रवदिनः निराशावन्तः कुपिताः अन्ते गान्धिमहोदयं रक्षितुं हिंसान्दालोनात् विरताः ।

परिणामाः[सम्पादयतु]

राष्ट्रीयान्दोलनं स्थगितं चेदपि महात्मागान्धिं राजद्रोहस्य आक्षेपेन वर्षद्वयकालं बन्धने स्थापितवन्तः । ब्रिटिष् न्यायाधीशः गन्धिमहोदयस्य विमोचनं कृतं चेत् मम सन्तोषः भवतीति उक्तवान् । बहवः काङ्ग्रेस् नायकाः गान्धिं समाधारितवन्तः चेदपि तस्य कारावारवासेन निराशाः भूत्वा तस्य साहचर्यं त्यक्तवन्तः । मोतिलाल् नेह्रू चित्तरञ्जनदासः च मिलित्वा स्वराज् इति पक्षं सृष्टवन्तौ । इतिहारकाराणां विमर्शकानाम् अभिप्रायेण एतत् आन्दोलनं ब्रिटिष् प्रशासनस्य अस्थिभङ्गे सपलम् अभवत् । महात्मागान्धिमहोदयस्य अहिंसावादं पुष्टीकृत्य लक्षाधिकाः भारतीयाः लवणसत्याग्रहे तस्य समालम्बनम् अकुर्वन् । तेन भारतस्य अहिंसान्दोलनं प्रपञ्चे एव ख्यातम् अभवत् । सत्याग्रहः यशस्वी अभवत् । भारतस्य स्वातन्त्र्यस्य अभ्यर्थनं सफलम् अपि अभवत् ।

"http://sa.wikipedia.org/w/index.php?title=असहकारान्दोलनम्&oldid=232741" इत्यस्माद् पुनः प्राप्तिः