जवाहरलाल नेहरू

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(जवाहरलाल नेह्रू इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
जवाहरलाल नेहरु
Jawaharlal Nehru in 1959
1st Prime Minister of India
कार्यालये
15 August 1947 – 27 May 1964
Monarch George VI
(until 26 January 1950)
राष्ट्रपतिः Rajendra Prasad
Sarvepalli Radhakrishnan
Governor General The Earl Mountbatten of Burma
Chakravarti Rajagopalachari
(until 26 January 1950)
Deputy Vallabhbhai Patel
पूर्वगमः Position established
पादानुध्यातः Gulzarilal Nanda (Acting)
Minister of Defence
कार्यालये
31 October 1962 – 14 November 1962
पूर्वगमः V. K. Krishna Menon
पादानुध्यातः Yashwantrao Chavan
कार्यालये
30 January 1957 – 17 April 1957
पूर्वगमः Kailash Nath Katju
पादानुध्यातः V. K. Krishna Menon
कार्यालये
10 February 1953 – 10 January 1955
पूर्वगमः N. Gopalaswami Ayyangar
पादानुध्यातः Kailash Nath Katju
Minister of Finance
कार्यालये
13 February 1958 – 13 March 1958
पूर्वगमः Tiruvellore Thattai Krishnamachariar
पादानुध्यातः Morarji Desai
कार्यालये
24 July 1956 – 30 August 1956
पूर्वगमः Chintaman Dwarakanath Deshmukh
पादानुध्यातः Tiruvellore Thattai Krishnamachariar
Minister of External Affairs
कार्यालये
15 August 1947 – 27 May 1964
पूर्वगमः Position established
पादानुध्यातः Gulzarilal Nanda
व्यक्तिगत विचाराः
जननम् 14 November 1889(1889-11-14)
Allahabad, North-Western Provinces, British India
मरणम् 27 May 1964(1964-05-27) (aged 74)
New Delhi, Delhi, India
राजनैतिकपक्षः Indian National Congress
पतिः/पत्नी Kamala Kaul
अपत्यानि Indira Gandhi
मुख्यशिक्षणम् Trinity College, Cambridge
Inns of Court
वृत्तिः Barrister
धर्मः Agnosticism[१][२][३][४]
हस्ताक्षरम्

जवाहरलाल नेहरुः (१८८९-१९६४) प्रयागे जात: ।

नेहरु जर्मनी देशे

१९४७तः-१९६४तमवर्षपर्यन्तं स: भारतस्य प्रधानमन्त्री आसीत्‌ ।

सः भारतवर्षस्य सर्वाधिककालपर्यन्तं नेतृत्वं कृतवान् तथा च प्रथमः प्रधानमन्त्री आसीत् ।

तस्य पितुः नाम मोतीलालनेहरुः । मातु: नाम स्‍वरूपरानी इति । केम्ब्रिजविश्‍वविद्यालये स्‍नातकपरीक्षाम्‌ उत्तीर्य स: विधिवेत्ता अभवत्‌। तस्य ब्राह्‍मणकुलोत्‍पन्‍नया कमलया सह विवाह: सम्पन्‍नः।

प्रारम्भिकजीवनं शैक्षणिकविषयः च[सम्पादयतु]

जवहरलाल् नेहरु महोदयस्य माता स्वरूपराणी पिता च मोतिलाल् नेहरु (१८६१-१९३१) कश्मीरपण्डित कुले जातः । तस्य विद्याभ्यासः भारते इङ्ग्लण्डदेशे च अभवत् । इङ्ग्लण्डदेशे इण्डिपेण्डेण्ट् बोय्स् स्कूल (अननुदानितबालकशालायां) तथा केम्ब्रिडज्प्रदेशे हेरो ट्रिनिटि कलाशालायां च पठितवान् । यदा इङ्ग्लण्डदेशे आसीत् तदा अयं जो नेहरु इति प्रसिद्धः । अयं ७-२-१९१६ दिनाङ्के षोडशवर्षीयां कमलाकौर इत्येतया सह विवाहं कृतवान् । तस्मिन् एव वर्षे तयोः पुत्री जाता तस्याः नाम इन्दिरा प्रियदर्शिनी इति ।

जीवनं तथा वृत्तिः[सम्पादयतु]

भारतदेशस्य स्वातन्त्र्यम् आगस्ट १५ दिनाङ्के १९४७ वर्षे अभवत् । तदा नेहरु ध्वजारोहणम् अकरोत् । प्रजाप्रभुत्वविषये नेहरु गुणत्वम् अपश्यत् इष्टवान् च। सः सेक्यूलरिसं, लिबरलिसं च इष्टवान् । दरिद्रेभ्यः दीनेभ्यः च साहाय्यकरणं तस्य प्रवृत्तिः आसीत् । नेहरुमहोदयस्य एतादृशाः गुणाः अस्माकं देशस्य संविधानरचनायां सहकरिणः अभवन् । देशस्य औन्नत्यर्थं प्रपञ्चे ये हितकारिणः गुणाः आसन् तान् अत्र स्थापितवान् । तस्य पुत्री इन्दिरा तथा दौहित्रः राजीवः स्वयं देशसेवां कर्तुकामौ देशस्य प्रधानमन्त्रिणौ अभवताम् ।

गान्धीमहाभागस्य उत्तराधिकारी[सम्पादयतु]

१९४१ जनवरी १५ दिनाङ्के गान्धी अवदत् । "मम तथा नेहरुवर्यस्य मध्ये भिन्नाभिप्रायाः सन्ति इति जनाः वदन्तः सन्ति । परन्तु आवयोः मध्ये .क्षुल्लककारणेन मनोभेदःन भवेत् आवयोः लक्ष्यं सर्वदा एकमेव भवति । यत् किमपि भवतु ममोत्तरं नेहरु एव अधिकारी भवति, न तु राजाजी इति बहुकालात् वदन् अस्मि" इति।."[५]

राजकीयपूर्वभागः[सम्पादयतु]

नेहरु महाभागः तथा तेन साकं ये कारागृहे आसन् तेषां मोचनम् अभवत् । ब्रिटिश्जनाः राजकीयप्रभुत्वं भारतीयानां कृते ह्स्तान्तरितं कर्तुं निश्चितवन्तः। तदर्थं ब्रिटिश् केबिनेट् मुख्यस्थाः भारतमागताः ।[६] यदा नेहरुमहाभागः प्रधानमन्त्रित्वेन कार्यभारम् ऊढवान् तदा भारते हिन्दूमुस्लिं कलहः तस्य कार्ये प्रत्यूहवत् अभवत् । महमदाली जिन्ना मुस्लिमजनानां कृते स्वतन्त्र्यदेशः आवश्यकः इति आग्रहं कृतवान् । अत एव एताद्दशविघ्नानां मध्ये तस्य कार्यम् अग्रे न गतम् । मुस्लिं जनानां तथा हिन्दूनां सहयोगेन भारते यदा प्रजाप्रभुत्वराज्यं कर्तुं न शक्तः तदा नेहरु भारतस्य विभजनं कर्तुं अनिच्छया अङ्गीकृतवान् । विभागः तु यथा ब्रिटिश्जानानां योजनानुसारम् अभवत् । अयं विभागः तु जून् ३ दिनाङ्के १९४७ वर्षे अभवत् । तदा आग्स्ट १५ दिनाङ्के सः प्रधानमन्त्रिरुपेण प्रमाणवचनं स्वीकृतवान् । तदनन्तरं तस्य प्रथमभाषणं Tryst with Destiny इति प्रसिद्धम् । तस्य भाषणस्य सारांशः एवम् आसीत्- 'अस्माकं लक्ष्यं प्रति गन्तुं सन्धानं कृतम् । इदानीं सन्धानस्य फलप्राप्त्यर्थं समयः आगतः । पूर्णतया कर्तुं न शक्यते चेदपि किञ्चिद् वा कर्तु प्रयतनीयम् । मध्यरात्रे १२ वादने यदा सर्वे सुप्ताः आसन् तदा अस्माकं देशः जागरितः आसीत्। स्वातन्त्र्यं तु प्राप्नोत् । दुर्लभं तादृशं क्षणं सर्वदा न लभ्यते। प्राचीनं सन्त्यज्य अस्माभिः नावीन्यं प्राप्तम् अस्ति। देशस्य चरिते ईद्दशं क्षणं पुनः न आगच्छति । एतावत् पर्यन्तं येषां वाक्, मनः सर्वं निगूढे आसीत् इदानीम् तेषां स्वातन्त्र्यम् आगतम् । अस्मिन् सन्दर्भे भारतस्य तथा भारतीयतायाः च सेवां कर्तुं वयं प्रतिज्ञां कुर्मः मानवतां च न त्यजाम ’ इति। तस्मिन् काले मतान्तरकलहाः बहुत्र वर्धन्ते स्म । अयं कलहः पञ्जाब् देहली बङ्गाल् इत्यत्र सर्वत्र प्रसारितः आसीत् । नेहरु मुस्लिम् नेतृभिः साकं आभारतं सञ्चरन् सर्वत्र देशे शान्तिस्थापनाय तथा शरणार्थिनां मनः प्रसादनार्थं प्रायतत । सः मौलाना आजाद तथा अन्यैः नेतृभिः साकं मुस्लिमबान्धवानां भारते स्थातुं तथा योगक्षेमं वोढुं च वार्तालापं कृतवान् । देशस्थितिं वीक्ष्य तस्य मनोवेदना सञ्जाता।

१९४७ तमे वर्षे -भारत-पाकीस्तानयुद्धं रोद्धुं युनैटेड नेशन्स् साहाय्यं प्रार्थितवान्। पाकिस्तानदेशस्य तथा भारतस्य च मध्ये स्थितं हैदराबाद् इति प्रान्तं भारतस्य इति उद्धोषयितुं नेहरु मनः न चकार। यतः मतीयकलहः भवेदिति। बि.जे.पी नायकः जस्वन्तसिङ्गः एवं वदति " नेहरुमहोदयस्य चिन्तनानि एव अस्माकं भारतस्य विभजने कारणीभूतानि अभवन्। यतः सः एकत्र प्रभुत्वम् इच्छति जिन्ना तु विभागीयप्रभुत्वम् इच्छति। एतयोः मध्ये मनस्तापः एव विभजनस्य अन्यतमं कारणमभवत् । भारतस्वातन्त्र्यानन्तरं नेहरु तस्य पुत्रीम् इन्दिराम् एव तस्य तथा तस्य कार्यकलापस्य पर्यवेक्षिकारूपेण आयोजयामास । तस्य नेतृत्वे १९५२ निर्वाचने काङ्ग्रेस् पक्षः बहुमतं प्राप्नोत्। ततः इन्दिरा नेहरुगृहमेव आगत्य तस्य सर्वाङ्गीणकार्यं पश्यन् तेन साकं स्वदेशविदेशपर्यटनं कृतवती । एषा तस्य कार्यकर्तृषु प्रमुखा अभवत् ।

तेन इतिहासविषये " द डिस्कवरी ऑफ इन्डिआ" अपि च " ग्लिंप्सेस ऑफ वर्ल्ड हिस्टरी" इति अभ्यासपूर्णौ ग्रन्थद्वयं लिखितम् ।

तस्य जन्मदिनं नवेम्बरमासस्य चतुर्दशदिनाङ्कम् अखिले भारतवर्षे बालदिनत्वेन उत्साहपूर्वकम् आचर्यते ।

महात्‍मनः गान्धे: सम्पर्के आगते स: स्‍वातन्‍त्रसङ्‍ग्रामे सन्‍नद्घ: अभवत्‌ ।

टिप्पणी[सम्पादयतु]

  1. The Spirit of the School – Julian Stern – Google Boeken. Books.google.com. 25 April 2009. http://books.google.com/books?id=zoQUqJZgjgYC&pg=PA54. Retrieved 10 July 2013. 
  2. "Mob Scenes Mar Last Nehru Rites", The Gazette, Google News Archive, 9 June 1964, p. 4. 
  3. Ramachandra Guha. "Inter-faith Harmony: Where Nehru and Gandhi Meet Times of India", The Times of India, 23 September 2003. 
  4. In Jawaharlal Nehru's autobiography, An Autobiography (1936), and in the Last Will & Testament of Jawaharlal Nehru, in Selected Works of Jawaharlal Nehru, 2nd series, vol. 26, p. 612,
  5. Gandhi, Gopalkrishna. "The Great Dandi March — eighty years after", The Hindu, 5 April 2010
  6. "Declaration of independence". Archived from the original on 17 May 2013. Retrieved 14 August 2012. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=जवाहरलाल_नेहरू&oldid=280999" इत्यस्माद् पुनः प्राप्तिः