नरेन्द्र मोदी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
भाषणे निरतः नरेन्द्रमोदी

नरेन्द्रमोदी भारतदेशे सततं तृतीयवारं गुजरातराज्यस्य मुख्यमन्त्री अस्ति।

जीवनं कर्मपथः च [सम्पादयतु]

नरेन्द्रमोदिनः जन्म १७ सेप्टेम्बर्, १९५० तमे वर्षे मेहसाणामण्डलस्य वडनगरग्रामे अभवत्। समाजसेवा औदार्यं परोपकारः च इत्येतेषां मूल्यानां पोषके माध्यमे तस्य संवर्धनम् जातम् ।अतः बाल्यात् प्रारभ्य तद्गुणानां सेचनं तस्मिन् अभवत् । भारतपाकिस्थानयोः युद्धसमये (१९६०) सः पञ्चदशवर्षीयः आसीत् । एतावति वयसि सः सैनिकानां साहाय्यार्थं रेलस्थानकं गतवान् । मनोवृतिज्ञता सङ्घटनशक्तिः चेति गुणद्वयस्य कारणात् सः भारतीय-विद्यार्थि-परिषदा आल् इण्डिया कौन्सिलनेतृत्वेन चितः आसीत् । न तावत्, तस्मिन् काले गुर्जरप्रदेशे राजनीतिक्षेत्रे-सामाजिकस्तरे तस्य भूमिका अपि गौरवास्पदा आसीत् ।

नरेन्द्रमोदिनः जीवनं बाल्यकालात् सङ्घर्षमयम् आसीत् । विशेषतः महाविद्यालये विश्वविद्यालये च । सः आत्मबलेन साहसेन च प्रत्येकेषु सङ्घर्षेषु सैनिकः इव प्रतीकारम् अकरोत् । तथैव प्रतिकूलासु परिस्थितिषु अनुकूलतां साधयन् जीवनपथे पदम् अकरोत् । पदस्य प्रतिष्ठा मोदिनः गुरुमन्त्रः अस्ति। न्यस्ते पदे अप्रतिगमनं प्रारब्धस्य अत्यागश्चेति दृढस्य मनोबलद्वयस्य कारणात् सः राज्यशास्त्रम् अधिकृत्य अनुस्नातकस्य पदं प्राप्य राष्ट्रियस्वयंसेवकसङ्घे प्रवृत्तोऽभवत् । रा.स्व. सङ्घे सः निःस्वार्थतां, सामाजिकीं निष्ठां देशभक्तिं च साक्षात्कृतवान् ।

मोदिनः महत्तमः स्वप्नः अस्ति – गुर्जरेयकायकल्पः.... पुनरुत्थानं... मातृभूमेः भारतस्य विश्वे प्रतिष्ठापनम् । तस्य स्वप्नसृष्टिः विशाला अस्ति । तां साकारीकर्तुं सः पर्यावरणस्य रक्षणं, कृषिसंशोधनम्, औद्योगिकं विकासं, वैदेशिकेन अर्थन्यासेन तान्त्रिकीं व्यवस्थां च लक्षीकृत्य आनन्दमयं गुर्जरं निर्मातुम् आकाङ्क्षते।

नरेन्द्रमोदी दृढानुशासनस्य आग्रही अस्ति इति तस्य प्रसिद्धिः वर्तते । वस्तुतः तस्मिन् श्रीफलस्य कठोरता मृदुता च इति गुणद्वयस्य समन्वयः वर्तते । सः दृढं मन्यते यत् शिक्षणम् एव समाजं दरिद्रतायाः अज्ञानस्य च अन्धकारात् प्रकाशं प्रति सर्वाङ्गं विकासं प्रति नेतुं शक्तनोति । एतस्याः आस्थायाः कारणात् सः शिक्षणं विशेषतः कन्याविनयनं पुरस्करोति।

शिक्षणे तस्य अनुरागस्य प्रतीतिः द्विधा दृश्यते – (१) शिक्षकान् प्रति आदरभावः (२) कन्याविनयनं प्रति अभिनिवेशः । सः कन्याविनयनस्य प्रोत्साहनेन महिलाजागरणं स्त्रीशक्तेः बीजारोपणं च कृत्वा शिक्षणं मूलतः संस्कर्तुम् इच्छति । कन्याशिक्षणं प्रति प्रसक्तेः कारणात् एव सः सर्वेषां ऋतूनां क्लेशं सहमानः सुदूरस्थान् ग्रामान् गत्वा कन्याम् अध्यापयितुं पितरौ प्रेरयति । ग्रामात् ग्रामं गत्वा कन्याविनयनस्य अभियानं कुर्वाणः मुख्यमन्त्री विरलः एव!

विज्ञानतन्त्रज्ञानयोः रसज्ञः मोदी नानायन्त्राणाम् उपयोगेन राज्यतन्त्रे ‘ई-गवर्नेन्स्’ प्रक्षिप्तवान् । ‘स्वागत् आन्लैन्’, ‘टेली फरियाद’ चेति अन्तर्जालेन गुर्जराः नागरिकाः उच्चतन्त्राधिकारिणां सम्पर्कं साधयित्वा स्वीयं व्यवहारं कर्तुं शक्नुवन्ति । मुख्यमन्त्री प्रजायाः व्यवहारं श्रृणोति इति विरलमेव ।

"कर्मयोगी" अभियानेन सः पञ्चलक्षम् अधिकारिणः सक्रियान् कृतवान् । अनेन अभियानेन सः सर्वकारस्य अधिकारिणः कर्मठान् कर्तुम् इच्छति ।

नरेन्द्रमोदी श्रद्धालुः, आदर्शदर्शी, तत्त्वदर्शी च नेता वर्तते । सः स्खलनं सोढुं शक्नोति, प्रतिगमनं न । तस्य कथनम् अस्ति यत् जीवनम् उन्नतं कर्तुं त्रिविधं कार्यम् अपेक्ष्यते - (१) वैचारिकी स्पष्टता (२) निश्चितं ध्येयम् (३) परिश्रमः । मोदिनः हृदि देशः देशबान्धवाश्च आद्याः सन्ति ।

सन्दर्भाः [सम्पादयतु]

बाह्यसम्पर्कतन्तुः [सम्पादयतु]