प्लासीयुद्धम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Battle of Plassey
Part of the Seven Years' War
Clive.jpg
Lord Clive meeting with Mir Jafar after the Battle of Plassey, oil on canvas (Francis Hayman, c. 1762)
दिनाङ्कः 23 June 1757
स्थानम् Palashi, Bengal Subah
फलम् Decisive victory for the British East India Company
भूमिगत-
परिवर्तनम्
Bengal annexed by the East India Company
प्रतिद्वन्द्विनः
 Great Britain Nawab of Bengal
 France
नेतारः आज्ञाकारिणश्च
United Kingdom Colonel Robert Clive
  • Major Kilpatrick
  • Major Grant
  • Major Eyre Coote
  • Captain Gaupp
Siraj ud-Daulah

Kingdom of France Monsieur Sinfray

शक्तिः
750 European soldiers
100 Topasses
2,100 Indian sepoys
100 gunners
8 cannon (six 6-pounders and 2 howitzers)
7,000 infantry
5,000 cavalry
of Siraj ud-Daulah
35,000 infantry
15,000 cavalry
of Mir Jafar
53 field pieces (mostly 32, 24 and 18-pounders)
50 French artillerymen (6 field pieces)
total about 62,000
हताहतानां सङ्ख्या हानिश्च
22 killed
(5 Europeans, 13 Indians)
50 wounded
(15 Europeans and 30 Indians)[१]
500 killed and wounded
प्लासीयुद्धस्य दृश्यम्

पीठिका[सम्पादयतु]

ब्रीटीष् जनानां ईस्ट् इण्डिया समवयाः बङ्गाळस्य नवाबः अपि च तस्य फ्रेञ्च अनुयायी एतेषां प्लासी (प्लासी इति पदं बङ्गालीभाषायाः पलाशी इति कस्यचित् पुष्पस्य नाम्ना प्राप्तम्) स्थाने प्रचलिते निर्णायके युद्धे ब्रिटिष् जनाः विजयं प्राप्य अग्रे १९०वर्षाणि भारतं।भारतम् प्रशासितवन्तः । क्रि.श. १७५७तमवर्षसय जून् २३तमे दिने पश्चिमबङ्गालस्य भागीरथीनद्याः तटे विद्यमाने प्लासी इति स्थाने युद्धम् अभवत् । बङ्गालस्य अन्तिस्य स्वतन्त्रनवाबस्य सिराजुद्दौलस्य ब्रिटीष् साम्राज्यस्य ईस्ट् इण्डियासमवायस्य मध्ये घोरं युद्धं प्रावर्तत । अस्मिन् एव काले यूरोप् देशे सप्तवषाणि ब्रिटिष् प्रेञ्च् मध्ये युद्धं प्राचलत् । ब्रिटिष् जनैः विद्यमानवैरस्य कारणेन फ्रेञ्चजनाः भारतस्य प्लासीयुद्धे सहायरूपेण लघुसैन्यं प्रेषितवन्तः । सिराजुद्दौलस्य सैन्यं ब्रिटिष् सैन्यस्य अपेक्षया बलवत् आसीत् । परभवस्य शङ्कायां विद्यमानाः ब्रिटिष् अधिकारिणः सिराजुद्दौलस्य पदच्युतसेनापतिना मीर्जाफर् इत्यनेन सह जनद्वयं स्वपक्षे आकृष्टवन्तः । भ्रष्टः मीर्जाफर् सैन्यं रणक्षेत्रे आनीतवान् किन्तु युद्धे भागवहनस्य प्रयत्नमेव न कृतवान् । अतः सिराजुद्दौलस्य सैन्यं पराजयम् अवप्नोत् । आत्मरक्षणार्थं रहसि प्रच्छन्नं सिराजुद्दौलं बिटिश् जनाः अन्विष्य अमारयन् । अस्य पराजयस्य परिणामात् बङ्गालः पूर्णतया ब्रिटिष् हस्तगतः । मीर्जाफर् ब्रिटिष् अधिकारिणां गुलामः भूत्वा नवाबः अभवत् । ब्रिटिष् साम्राज्य भारते प्रतिष्ठापनस्य निर्णायकघटनासु प्लासीयुद्धम् अपि प्रधानम्। बङ्गालराज्यस्य कोशः धनकनकैः समृद्धम् आसीत् । आहारधान्यानि यथेष्टम् आसन् । एतानि सर्वाणि उपयुज्य ब्रिटिष् जनाः स्वस्य सैन्यबलं गणनीयप्रमाणेन समवर्धयन् । अनेन ते भारते सुदृढं रूढमूलाः अभवन् । दशवर्षानन्तरं सम्भूतं बक्सार्युद्धम् ईस्ट् इण्डिया समवायं इतोऽपि बलवत् अकरोत् ।

पृष्ठभूमिः[सम्पादयतु]

प्लासीयुद्धस्य सामान्यकारणं तु सिराजुद्दौलः क्रि.श.१७५६तमे जून् मासे पोर्ट् विलिय्म् इति प्रदेशम् आक्रान्तवान् इति । किन्तु प्रधानहेतुः तु ईस्ट् इणिया समवायस्य भूविस्तारस्य महाकाङ्क्षा एव । अस्य युद्धस्य कारणानि कानिचन अन्यकलहानि अपि ।

  • क्रि.श.१७१७तमे वर्षे मुघल् राज्ञा अनुग्रहीतनिर्यातानुमतिः ब्रिटिष् जनैः दुरुपयुक्तः । भारतस्य अन्तः एव व्यवाहारं कर्तुं दत्तम् अनुमतिं करापकर्षस्य अनुमतिः इति परिगणय्य ब्रिटिश् अधिकारिणः बङ्गालस्य राज्ञे करं दातुं निराकृतवन्तः ।
  • नवाबस्य आन्तरिके व्यवाहारे ब्रिटिश् जनानां हस्तक्षेपः आसीत् । तत्रापि नवाबस्य पितृव्यायाः घसेटि बेगम् इत्यस्याः ब्रिटिश् जनाः प्रोत्साहं दत्तवन्तः ।
  • नवाबस्य अनुमतिं विना पोर्ट् विलियम् दुर्गे ब्रिटिश् जनैः शतघ्नी स्थापिता ।
  • जगत् सेथ् इति कस्यचित् हैन्दस्य अपि च मारवाडीवणिजां बिटिष् ईस्ट् इण्दिया समवायस्य पक्षपातनीतिः ।
  • युद्धार्थं उभयपक्षयोः सैन्यसम्मेलने आरब्धे ब्रिटिष् जनाः मद्रास् फोर्ट् सेयिण्ट् जार्ज् इत्यस्य ब्रिटिष् प्रेसिडेन्सि इति समवायस्य सहाय्यम् अयाचन्त । तदनुगुणं मद्रास्तः कर्नल् राबर्ट् क्लैव अड्मिरल् चार्ल्स् व्याट्सन् च सहायार्थम् आगच्छताम् । क्रि.श.१७५७तमे जनवरि द्वितीये दिने तौ कोल्कतायाः दुर्गं वशीकृतवन्तौ । नवाबः फेब्रवरि पञ्चमे दिने आक्रमणं क्रुतवान् चेदपि प्रयोजनं नाभवत् । फेब्रवरि सप्तमे दिने अलिनगरे सन्धिः अभवत् ।

संवृद्धः फ्रेञ्चप्रभावः[सम्पादयतु]

फ्रेञ्च गवर्नर जनरल् जोसेफ् फ्राङ्कोयि डूप्ले इत्यस्य अनधिकृतानुमत्या नवाबस्य आस्थाने फ्रेञ्च् जनानां प्रभावः संवर्धितः । बङ्गालराज्ये फेञ्च् जनानां वाणिज्यव्यवहारः अपि अधिकः अभवत् । फ्रेञ्च् अधिकारिणः नवाबस्य अधिकप्रमाणस्य शस्त्रात्राणि निर्वोढुं स्वसैनिकान् ऋणरूपेण प्रायच्छन् ।

अहमद् शहा अब्दालि[सम्पादयतु]

सिराजुद्दौलस्य उभयतः सङ्कटः आगतः । ब्रिटिष् जनानाम् ईस्ट् इण्डियासमवायः एकत्र अन्यत्र तस्य पश्चिमसीमायाम् अफघनस्य अहमद् शहा अब्दालि इत्यस्य सैन्येन अक्रमणम् कृतम् । अब्दालि सैन्यं क्रि.श.१७५६तमे वर्षे देहलीम् आक्रम्य अलुण्ठत् । सिराजुद्दौलः स्वसैन्यस्य बृहद्भागं स्वप्रियमित्रस्य अपि च प्रोत्साहकस्य पाट्नायाः दिवानस्य रामनारायणस्य नेतृत्वे अब्दालि सैन्येन सह योद्धुं प्रेषितवान् ।

आस्थाकापाट्यम्[सम्पादयतु]

एतन्मध्ये सिराजुद्दौलस्य मुर्शिदाबाद् नगरस्य आथाने अपि कापट्यम् आरब्धम् । सः तादृशः जनप्रियः राजा नासीत् । स्वस्य पितामहस्य अनन्तरं सिंहासनमागतस्य तस्य वयः २३वर्षाणि । स्वस्य शीघ्रकोपस्य कारणात् शत्रून् वर्धयति स्म । तस्य अरिषु अन्यतमा धनिका अपायकारिणी घसेटि बेगम् इत्येषा अस्य पितृव्या । अन्यः कश्चित् सहोदरबन्धुः राजा भवेत् इति अस्याः आशयः आस्तीत् । अपि च कोल्कतायाम् आक्रमणेन कुपितः अहम्मद् शहा, सेनामुख्यस्थानत् च्युतः मीर् जाफर् च सिराजुद्दौलस्य प्रबलाः श्त्रवः अभवन् ।

ईस्ट् इण्डिया समवायनीतिः[सम्पादयतु]

ब्रिटिष् समवायस्य पूर्वनिर्धारः आसीत् यत् राज्यस्य नायकत्वपरिवर्तनं स्वहिताय आवश्यकम् । क्रि.श.१७५२तमवर्षात् पूर्वमेव राबर्ट् ओर्मे इति कश्चित् राबर्ट् क्लैव् इत्यस्य लिखिते पत्रे सिराजुद्दौलस्य पितामहस्य पदच्युतिः समवायस्य अभिवृद्ध्यर्थे आवश्यकी इति लिखितवान् । क्रि.श.१७५६तमे वर्षे अलिवर्दि खानस्य अकालमृत्योः अनन्तरं तस्य उत्तराधिकारीत्वेन सिरजुद्दौलस्य नाम आसीत् । अयं अलिवर्दि खनस्य दत्तकपुत्रः अपि आसीत् । एतन्मध्ये अन्याः काश्चन घटनाः अमभवन् । अवकाशवादिनः ब्रिटिष् जनाः सिराजुद्दौलं विरुद्ध्य अलिवर्दि खनस्य पुत्रीं घसेटि बेगम् इत्येनां प्रेरेपितवन्तः ।

सैन्यानि[सम्पादयतु]

प्राचीनभारतस्य इतिहासः
दक्षिणेशियाखण्डस्य इतिहासः
पाषाणयुगः ७०,०००-३३०० क्रैस्तपूर्वः
कांस्ययुगः • ७०००-३३०० क्रैस्तपूर्वः
हरप्पा महेञ्जोदरो संस्कृतिः ३३०० -१७०० क्रैस्तपूर्वः
वैदिकयुगः १५००-५०० क्रैस्तपूर्वः
लौहयुगः १२००-३०० क्रैस्तपूर्वः
षोडशमहाजनपदाः • ७००-३०० क्रैस्तपूर्वः
मगधसाम्राज्यम् • ५४५ क्रैस्तपूर्वः
मौर्यसाम्रज्यम् • ३२१-१८४ क्रैस्तपूर्वः
चोलसाम्राज्यम् • २५० क्रैस्तपूर्वः
सातवाहनसाम्राज्यम् • २३० क्रैस्तपूर्वः
कुषाणसाम्राज्यम् • ६०-२४० क्रैस्ताब्दः
गुप्तसाम्राज्यम् • २८०-५५० क्रैस्ताब्दः
पालसाम्राज्यम् • ७५०- ११७४ क्रैस्ताब्दः
राष्ट्रकुटसाम्राज्यम् • ७५३ -९८२ क्रैस्ताब्दः
सुलतानसाम्राज्यम् • १२०६-१५९६ क्रैस्ताब्दः
होय्सळसाम्राज्यम् १०४०-१३४६ क्रैस्ताब्दः
विजयनगरसाम्राज्यम् १३३६-१६४६ क्रैस्ताब्दः
मुघलसाम्राज्यम् १५२६-१८५८ क्रैस्ताब्दः
माराठासाम्राज्यम् १६७४-१८१८ क्रैस्ताब्दः
शिक्खसाम्राज्यम् १७९९-१८४९ क्रैस्ताब्दः
ब्रिटिशभारतम् १८५८–१९४७ क्रैस्ताब्दः
भारतगणराज्यम् १९४७–वर्तमानकालः
राष्ट्रियः इतिहासः
भारतम्भूटानदेशःबाङ्गलादेशः
नेपालदेशःपाकिस्तान्श्रीलङ्कादेशः
प्रादेशिकेतिहासः
असमवङ्गः
हिमाचलप्रदेशः
पाञ्जाबराज्यम्दक्षिणभारतम्तिब्बतदेशः
अस्य फलकस्य: पश्यतु  चर्चा  सम्पादनम्

राबर्ट क्लैवस्य सैन्ये केवलं १९५० युरोपियन् सैनिकाः आसन् । २१००भारतीयाः सैनिकाः कानिचन गिलिकास्त्राणि एव आसन् । किन्तु नवावस्य सैन्ये ५००००० सैनिकाः महाशतघ्न्यः तन्निर्वहणर्थं परिणिताः ४० फ्रेञ्च् सैनिकाः आसन् । तेषु १६००० सैनिकाः ब्रिटिष् अधिकारिभिः रहस्यसन्धितस्य मीर् जाफर् अधीनाः युद्धे भागं न अवहन् । अन्ते केवलं ५०००सैनिकाः युद्धम् अकुर्वन् । तथापि ब्रिटिष् सैन्यात् बलवत्तरम् एव आसीत् । किन्तु सेनापतिः मीर् मदन् इति जनः गोलिकाघातितः तस्मादेव मृतः । अतः नवाबस्य सैन्यः वैकल्पे पतितः । तेन युद्धस्य परिणामः एव व्यतिरिक्तः । युद्धस्यान्ते केवलं २०तः अपि न्यूनाः ब्रिटिष् सैनिकाः मृताः दृष्टाः ।

युद्धोत्तरम्[सम्पादयतु]

ब्रिटिष् अधिकारिणः सिराजुद्दौलस्य विद्रोहिनं मीर् जाफरं बङ्गालस्य नवाबम् अकुर्वन् । आत्मानं रक्षितुं रहसि सञ्चरन्तं सिराजुद्दौलम् अन्विष्य बन्धयित्वा अन्ते वधम् अकुर्वन् । घसेटि बेगम् इत्यादीः प्रबलमहिलाः निग्रह्य ढाकानगरस्य कारावारे अस्थापयन् । ब्रिटिष् जनानां व्यवहारेण असन्तुष्टः मीर् जफरः डच् जनान् सहायार्थं याचितवान् । तैः प्रेषिताः सप्त नावः ७००नाविकाः बिटिष् सैन्येन युद्धे पराजिताः । तदनन्तरं मीर् जाफरं सिंहासनात् अवतीर्य तस्य स्थाने तस्य जामातरं मीर् कासीम् इत्येनम् समारोपयन् । अयं स्वतन्त्रमनोवृत्तिं प्रदर्शितवान् इति क्रि.श.१७६४तमे वर्षे बक्सार् युद्धे तं जित्वा बङ्गालराज्यं पूर्णतया वशीकृत्य मीर् जाफरं पुनः अधीनराजम् अकुर्वन् ।

युद्धलाभः[सम्पादयतु]

एतस्मात् प्लासीयुद्धत् ब्रिटिष् समवायस्य अधिकलाभः अभवत् । भारते देशे अनेन एव ईस्ट् इण्डिया समवायस्य मूलं सुदृढम् अभवत् । राबर्ट् क्लैव् इत्येषः समवायस्य कृते २.५दशलक्ष पौण्ड् स्वहिताय २,२४०००पौण्ड् धनं नवाबस्य कोशतः सङ्ग्रहीतवान् । करसङ्ग्रहेषु ३००००पौण्ड् धनं क्लैव् हिताय तस्मै समर्पितम् । तस्मिन् काले ८००पौण्ड् धनेन आढ्यब्रिटष् जनद्वयस्य विलासिजीवनं निर्वोढुं शक्यते स्म । इत्युक्ते राबर्ट् क्लैव् कियान् धनवान् आसीदिति ज्ञायते । क्रि.श. १७७६तमे वर्षे क्लैव् बङ्गलस्य गवर्नर् अभवत् । दुर्व्यसनासक्तः सः क्रि.श.१७७४तमे वार्षे अत्मघातं कृतवान् ।

केचन कौतूहलवदंशाः[सम्पादयतु]

  • राबर्ट् क्लैव् इत्यस्य कर्मचारिवर्गे वारन् हेश्टिङ्ग्स् कश्चित् तरुणः आसीत् । क्रि.श.१७५७तमे वर्षे नवाबस्य आस्थाने रेसिड्ण्ट् इति नियुक्तः । अग्रे सः भारतस्य प्रथमः गवर्नर् जनरल् अभवत् ।
  • राबर्ट् क्लैव् अग्रे ”प्लास्याः बेरन्” इति उपदिं प्राप्तवान् । सः ऐर्लेण्डदेशे क्षेत्रं क्रीत्वा तस्य कस्यचित् भागस्य प्लासी इत्येव नाम अकरोत् । अद्यापि तेन नाम्ना एव तत् स्थानं लिमरिक्न् विश्वविद्यालयस्य आवरणे अस्ति ।
  • अस्मिन् युद्धे फ्रेञ्ज् सैनिकेभ्यः वशीकृताः शतघ्न्यः कोलकतानगरस्य विक्टोरिया संस्मरणालये अद्यापि सन्ति ।
  • मुर्शियाबादस्य समीपे जाफर् गञ्ज् इति स्थाने मीर् जाफरस्य गृहस्य भग्नावशेषाः सन्ति ।

टिप्पणी[सम्पादयतु]

  1. Harrington, pp. 81–82
"http://sa.wikipedia.org/w/index.php?title=प्लासीयुद्धम्&oldid=277379" इत्यस्माद् पुनः प्राप्तिः