विजयनगरसाम्राज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

फलकम्:Infobox former country/autocat

विजयनगरसाम्राज्यम्
ವಿಜಯನಗರ ಸಾಮ್ರಾಜ್ಯ
విజయనగర సామ్రాజ్యము

 

 

 

1336–1646

Flag

Extent of Vijayanagara Empire, 1446, 1520 CE
राजधानी Vijayanagara
भाषाः Kannada, Telugu
धर्मः Hindu
Government Monarchy
King
 - 1336–1356 Harihara Raya I
 - 1642–1646 Sriranga III
हतिहासः
 - स्तम्भित 1336
 - Earliest records 1343
 - Disestablished 1646
Preceded by
Succeeded by
Hoysala Empire
Kakatiya dynasty
Pandyan Empire
Reddy dynasty
Mysore Kingdom
Keladi Nayaka
Nayaks of Tanjore
Nayaks of Madurai
Nayakas of Chitradurga
Bijapur Sultanate
Qutb Shahi dynasty

कर्णाटकराज्ये विजयनगरसाम्राज्यस्य स्थापना चतुर्दशशतकस्योत्तरार्धे अभवत्। कर्णाटकस्य इतिहासे अत्यन्तं प्रमुखघटना एषा इति इतिहासकाराः वदन्ति । विजयनगरसाम्राज्यं १३३६ तमे वर्षे हरिहरः (हक्क) तथा बुक्करायः इति सहोदराभ्यां संस्थापितम् । अस्य साम्राज्यस्य राजधानी आसीत् विजयनगरम् । विजयनगरम् इदानीन्तनस्य कर्णाटकस्य "हम्पी"प्रदेशः । कृष्णदेवरायस्य शासनावसरे एतत् साम्राज्यम् उत्तुङ्गस्थितिं प्राप्नोत् । यद्यपि १५६५ तमे वर्षे ताळीकोटेयुद्धे अस्य साम्राज्यस्य पराभवः जातः तथापि पुनरेकं शतकं यावत् लघुप्रमाणेन शासनम् अकरोत् । तदानीन्तनकालस्य दक्षिणभारतस्य राज्यानि इण्डोनेशियापर्यन्तम् अपि प्रभावस्य प्रसारम् अकुर्वन् । विशालः आग्नेय-एषिया-प्रदेशः अपि एतेषाम् अधीने आसन् । कालान्तरे हिन्दुराजवंशाणां बहमनिसुल्तानानां च परस्परं कलहः आरब्धः । तस्य परिणामरूपेण तावत्पर्यन्तं दूरे एव स्थितयोः हिन्दु-मुस्लिं-संस्कृत्योः परस्परं सम्पर्कः सञ्जातः । कला-शिल्पकलाक्षेत्रे विजयनगरसाम्राज्यस्य योगदानं महत् अस्ति । कन्नडं,तेलुगुभाषा, संस्कृतभाषायाःइत्यादिभाषासाहित्ये अपि तेषां योगदानम् अविस्मरणीयम् । अस्य साम्राज्यस्य पतनस्य कारणीभूताः उत्तरभारते साम्राज्यस्थापनं कृतवन्तः सुल्तानाः । एते सुल्तानाः रजपूतानां स्थानस्य देहल्याः समीपे एव प्रथमं राज्यस्थापनम् अकुर्वन् । विजयनगरसाम्राज्यस्य पतनेन सह २००० वर्षाणि यावत् पुरातनी भारतस्य अभिजातसंस्कृतिः ह्रासमार्गम् आप्नोत्, भारतीये इतिहासे नवः अध्यायः च आरब्धः । एतत् विजयनगरसाम्राज्यं मध्यकाले कर्णाटकस्य संस्कृतिपरम्परास्थिरतायाः आधारशिलाऽभवत् । विजयनगरराजाः द्विशतकपर्यन्तं वैभवोपतं प्रशासनं कृतवन्तः । दक्षिणभारते कर्णाटकस्य संस्कृतिं कलां वास्तुशिल्पं साहित्यं धर्मम् आर्थिकताम् अभिवृध्दिपथे आनेतुं विजयनगरराजाः बहुश्रेष्ठं कार्यं कृतवन्तः। हम्पिप्रदेशे अधुनापि वैभवोपेतसाम्राज्यस्य चिह्नानि दर्शनीयानि सन्ति । इदानीम् अवशेषाः एव प्राचीन साम्राज्यस्य लक्षणं प्रतिपादयन्ति । दक्षिणभारते सनातनधर्मस्य अवलम्बिनः राजानः देवगिरियादवाः वारङ्गल्प्रदेशीयाः काकतीयाः मधुरानगरे स्थिताः पाण्ड्यराजाः, दोरसमुद्रस्य होय्सळराजाः च अल्लावुध्दीनबादशहस्य आक्रमणेन अवनतिम् आपन्नाः। महम्मदबिन् तुघलकस्य काले पूर्णतया दक्षिण भारतीयाः राजानः विनष्टाः अभवन् । अस्मिन् समये उत्तरदक्षिणप्रान्तयोः मध्ये विजयनगरराजानः स्वसाम्राज्यस्थापने सफलाः अभवन् उत्तरतः देहली सुल्तानानाम् (बादशहमहोदयानाम् )आक्रमणेन दक्षिणभारते धार्मिकस्वातन्त्र्यम् राजकीयस्वातन्त्र्यम् इत्यादि च विधातिमनि अभवत् । विजयनगरसाम्राज्यस्य प्रतिष्ठापनस्य पश्चात् सामान्यानां, धार्मिकस्वातन्त्र्यं राजनैतिकस्वातन्त्र्यम् इत्यादीनि पुनः प्राप्तानि ।

वंशोदयः कालनिर्णयः च[सम्पादयतु]

विजयनगरसाम्राज्यस्य विषये विविधाः आधारग्रन्थाः शिलाभिलेखाः च लभान्ते । कन्नडभाषाया संस्कृतेन च ग्रन्थाः विजयनगरेतिहासस्य वैभवं च स्पष्टीकुर्वन्ति । अनेके विदेशीयात्रिकाः हम्पीनगरमागताः विजयनगरसाम्राज्यस्य वैभावयुतकालं ज्ञात्वा प्रवासकथनग्रन्थेषु लिखितवन्तः । विजयनगरराजाः अनेकान् शिलाभिलेखान् कृतवन्तः येषु तेषां साम्राज्यस्य नाणकानां वास्तुशिल्पानां विषये उल्लिखिताः । विजयनगरसाम्राज्यस्य स्थापकानां विषये सर्वेषाम् एकाभिप्रायः नास्ति शबर्टसेवेल् इत्येषः श्रेष्ठेतिहासकारः स्वीये ए फारगाटन् एम्पैर इति ग्रन्थे सप्तविधान् अभिप्रायान् प्रकटितवान् । एषा कृतिः क्रि.श. १९०१तमे वर्षे मुद्रिताभवत् । तदनन्तरं सिध्दान्तद्वयम् अत्यन्तम् प्रचलितम् अस्ति । कश्चन सिध्दान्तः कन्नडमूलसिध्दान्तः अपरः तेलगुमूलसिध्दान्तः इति वदन्ति । विजयनगरसाम्राज्यस्य प्रतिष्ठापकेषु एकः हरिहरः । वादङ्गलप्रदेशस्य काकतीयानां सम्बन्धी आसीत् अतः हरिहरः तेलगुदेशमूलः आसीत् इति आन्ध्रेतिहासकाराणाम् अभिप्रायः । किन्तु कर्णाटकस्य इतिहासकाराः पाश्चात्त्यविद्वांसः च एतम् अभिप्रायम् नाङ्गीकुर्वन्ति । पञ्चसहस्त्रादधिकाः शिलाभिलेखाः विजयनगरसाम्राज्यस्य स्थापकाः कर्णाटकीयाः एव इति समर्थयन्ति । प्रथमः बुक्कराजः कर्णाटकक्षितिजः इति उपाधिं प्राप्तवान् आसीत् । एषः विषयः परिगण्यः अस्ति । विजयनगरराजाः स्वयम् कर्णाटकसिंहासनाधीश्वराः इति घोषितवन्तः । हम्पी, आनेगोन्दि, कामिलि प्रदेशेषु च विजयनगरसाम्राज्यस्य आरम्भिकप्रदेशाः इति ज्ञातुम् साक्षिणः अंशाः लभन्ते । विजयनगरसाम्रज्यस्य उदयात् पूर्वम् एते प्रदेशाः होय्सळराजानाम् अधीनाः आसन् । बुक्कराजस्य पुत्राः विजयनगरसाम्राज्यं प्रतिष्ठापितवन्तः इत्यत्र संशयः नास्ति । होय्सळराजानाम् अधीनः सङ्गमः राजा कर्णाटकीयः आसीत् । विजयनगरसाम्राज्यस्य स्थापनं विद्यारण्यस्य मार्गदर्शनेन क्रि.श.१३३६ तमेवर्षे आरब्धम् । क्रि.श.१५६५तमवर्षपर्यन्तम् एतेषाम् प्रशासनम् आसीत् । चत्वारः राजवंशीयाः प्रशासनम् कृतवन्तः ते वंशाः सङ्गमः, साळुवः तुळुवः अरवीडुः च । हरिहरः, बुक्कः, कम्पणः, मारप्पः, मुद्दप्पः, एते सङ्गमराजस्य पुत्राः आसन् । अतः विजयनगरसाम्राज्यसंस्थापकाः सङ्गमवंशीयाः इति स्पष्टम् भवति ।

साम्राज्यविस्तारः[सम्पादयतु]

होय्सळवंशीयाना साम्राज्यस्य अवनतेः यवनराजानाम् आक्रमणम् अन्तःकलहः च कारणानि आसन् । अस्मिन् समये सङ्गमसहोदरौ साम्राज्यस्य स्थापनार्थं योजनाः कृत्वा क्रि.श.१३३६ तमे वर्षे कार्यानुष्ठाने आनीतवन्तौ । विजयनगरसाम्राज्यस्य स्थापनकार्ये श्रृङ्गेरीपीठाधिपतयः अपि साहाय्यं कृतवन्तः इत्यत्र आधारः अस्ति । क्रि.श.१३३६ तमे वर्षे श्रृङ्गेरीपीठाधितेः श्री विद्यातीर्थस्य गौरवार्थं राजधान्याः नाम विद्यानगरमिति अकुर्वन् । हरिहरेण बुक्कराजः च स्थापितं विजयनगरसाम्राज्यम् उत्तरकर्णाटकप्रदेशे उत्तरान्ध्रप्रदेशे च व्याप्तम् आसीत् । क्रि.श.१३४३ तमे वर्षे होय्सळराजः वीरबल्लाळः मृतः अभवत् । तदा विजयनगरसाम्राज्यस्य विस्तारः अभवत् । कर्णाटकस्य दक्षिणभागः आन्ध्रप्रदेशस्यान्यभागाः तमीळुनाडुप्रदेशभागाः च सम्मिमिलिताः अभवन् । क्रि.श.१३४७ तमे वर्षे गुलबर्गाप्रदेशे बहमनीवंशीयाः साम्राज्यं प्रत्यष्ठापयन् । अतः बहमनीविजयनगरसाम्राज्ययोः परमाधिकारविषये सदा कलहाः आसन् हरिहरः उत्तरभागे सीमाम् सुरक्षितवान् । उत्तरदिभागे एव् अधिकम् लक्ष्यम् दत्तवान् । अतः दक्षिणभागे राज्यविस्तारस्य कार्यम् स्थगितवान् आसीत् । हरिहरः समर्थः राजासीत् अतः राज्ये शान्तिं सौहार्दं च स्थपितवान् । पूर्वपश्चिमसमुद्राधिपतिः भाषेगे तप्पद रायरगण्ड्’ इति च नाम प्राप्तवान् ‘एषः क्रि.श.१३५६ तमे वर्षे मृतः। अस्य मरणानन्तरम् विजयनगरसाम्राज्ये बुक्कराजः सिंहासनम् आरोहत् । बुक्कराजः क्रि.श.१३५६ तः १३६६ वर्ष पर्यन्तम् स्वसहोदरस्य कार्याणि एव पूर्णानि कृतवान् । बुक्कराजः समर्थराजः योध्दा प्रतिभावान् चासीत् । अस्य प्रशासनकाले तुङ्गभद्रानदीतीरतः दक्षिणप्रदेशस्य बहुभागाः विजयनगरसाम्राज्ये विलीनाः अभवन् । क्रि.श.१३६०तमवर्षे तमिळ्नाडुप्रदेशस्य अनेके भागाः जिताः अभवन् । क्रि.श. १३७०तमवर्षे मधुरानगरे स्थितान् सुल्तानान् जित्वा तस्य राज्यमपि विजयनगरसाम्राज्ये हरिहरः विलीनं कृतवान् । बुक्कराजस्य स्नुषा गङ्गाम्बिका स्वीये मधुराविजयकाव्ये एतत् युध्दम् वर्णितवती । एतत्समये तुङ्गभद्रा कृष्णानद्योः मध्यप्रदेशेषु अनेकवारम् बहुमनीराजानाम् विजयनगरराजानाम् मध्ये सङ्घर्षाः अभवन् बुक्कराजः विजयी अभवत् अथापि पूर्णतया बहमनीराजान् न पराजितुम् शक्तः अभवत् । एषः विजयनगरस्य निर्माणकार्यम् पूर्णम् कृतवान् । अग्रे विजयनगरम् राजधानि भूत्वा दक्षिणाभारतस्य सांस्कृतिकं प्राशासनिकं च केन्द्रम् इति प्रख्यातम् अभवत् । मधुरानगरे स्थितान् सुल्तानवंशीयान् जित्वा श्रीरङ्गम् काञ्ची मधुरै प्रदेशेषु स्थितान् देवालयान् जीर्णोध्दारम् विजयनगर राजाः कृतवन्तः । अतः हिन्दूराय सुरगाण इति नाम प्राप्तवान् । सायणाथार्य माधवाचार्य इति संस्कृतपाण्डितद्वयानाम् राजाश्रयम् दत्तवान् । बुक्कराजस्य सुतः कम्परायः वीरः युध्दे जयम् लब्धवान् । ‘वीरकम्परायचरितम्’ ‘मधुराविजयम्’ इति च काव्यद्वयम् एतस्य काले निर्मितम अभवत् । धार्मिकविचारेषु परमतसहिष्णवः विजयनगरराजाः जैन वैष्णवधर्माणामपि दानम् दत्तवन्तः । विजयनगर साम्राज्यस्य स्थापकः बुक्कराजः क्रिस्ताब्दे १३७७ तमे वर्षे दिवम् गतः । बुक्कराजस्य मरणानन्तरम् द्वितीयः हरिहरः सिंहासनारुढः अभवत् । अस्य प्रशासनकालः क्रि.श.१३७७ तः २४०४ पर्यन्तमासीत् । एष बहमनीसुल्तान् जनानाम् आक्रमणम् सम्यक् नियन्त्रितवान् । आन्ध्रप्रदेशस्य कर्नूल् गुण्टूरु नेल्लूरुपर्यन्तमपि राज्यसीनां वर्धितवान् एषः राजाधिराजः इति नाम प्राप्तवान् ‘अस्य प्रशासनकाले श्रीविद्यारण्यस्वामिनः श्रृङ्गेरी पीठाधिपतयः प्रख्याताः आसन् हरिहरस्य प्रशासनकाले एव सामणाचार्यैः वेदानां टीकालेखनकार्यम् सम्पूर्णमभवत् । एतेन हरिहराः वैदिकमार्ग स्थापनाचार्यः इति नाम प्राप्तवान् । क्रि.श.१४०४ तमे वर्षे हरिहरः मृतः अभवत् तदा सिंहासनाय राजवंशीयेषु अन्तः कलहः आरब्धः अभवत् । अन्तिमतया देवरायः क्रिस्ताब्दे २४०६ तमे वर्षे सिंहासनप्राप्तिविषये यशस्वी अभवत् । देवरायः क्रि.श.१४०६ तः १४२२ वर्षपर्यन्तम् प्रशासनम् कृतवान् । अस्य प्रशासनकालेऽपि पूर्ववत् बहमनि सुल्तान जनैः साकम् सदा सङ्घर्षः प्रचलतिस्म । चतुरान् मुस्लिम सैनिकान् सैन्ये स्वीकृतवान ’निकालोकोण्टि इत्येषः इटली देशस्य यात्रिकः विजयनारम् आगत्य क्रि.श.२४२० तः १४२२ वर्षपर्यन्तम् स्थितवान् । सः स्वप्रवासकथने विजयनगर साम्राज्यवैभवम सविवरम् स्पष्टीकृतवान् । देवराय स्थानन्तरम् तस्य पुत्रः रामचन्द्रः बहुकाल पर्यन्तम् प्रशासनम् न कृतवान् । क्रि.श.१४२४ तमे वर्षे रामचन्द्रस्य पुत्रः द्वितीयः देवरायः विजयनगर साम्राज्यस्य सिंहासनारुढः अभवत् । सङ्गमवैशीय महाराजेषु द्वितीयः देवरायः इतीव प्रासिध्दः आसीत् । एषः गोवाप्रदेशे राजमहेन्द्रिप्रदेशे दक्षिणे रामेश्वरपर्यन्तम् चे स्वीयं साम्राज्यम् विस्तरितवान् । बहमनी सुलतानजनानां विरुध्दम् त्रिवारम् युध्दम् कृत्वा जयम् प्राप्तवान् सेनायाम् च बहुजनान् मुस्लिमजनान् नियुक्तवान् । पर्शियादेशस्य यात्रिकः अब्दुलरजाकइत्येषः द्वितीयदेवरायस्य प्रशासनसमये विजयनगरम् आगतवान् । सः विजयनगरसाम्राज्यस्य वैभवम् सम्पदभिवृध्दिं च सुन्दरतया निरुपितवान् । द्वितीयदेवरायःओरिस्सादेशस्य प्रशासकस्य गणपतेः आक्रमणम् सम्यक् नियान्त्रितवान् । स्वसाम्राज्यस्य समग्रतां च रक्षितवान् । उत्तमां प्रबलां च नौकासेनाम् द्वितीयदेवरायः स्थापितवान् आसीत् । श्रीलङ्कादेशम् आक्रम्य तत्रतः उपायनम् स्वीकृतवान । केरळराज्यस्य दक्षिणभागः अस्य समये विजयनगरसाम्राज्ये मिलितः अभवत् । एषः स्वयम् विद्वानासीत् महानाटक सुधानिधि इति संस्कृतकृतिम् रचितवान् । अस्य प्रशासनकाले वीरशैवसाहित्येअपि विफुला सृष्टिः दृष्टाऽभवम् ‘द्वितीयदेवरायस्य मरणेन साकम् विजयनगर साम्राज्यस्यापि महत्वम् स्वल्पकालम् यावत् विनष्टमिव अभवत् । विजयनगर साम्राज्ये क्रि.श.१४४६ तम वर्षादनन्तरम् चत्वारिंशत वर्षपर्यन्तम् दुर्दशा प्रत्यक्षाभवत् । असमर्थाः राजानः सिंहासनार्थम् अन्तः कलहः एतस्याः दुर्दशायाः कारणनि अभवन् । विजयनगरसाम्राज्यस्य सीमापि लध्वी अभवत् । वैभवस्य स्थितिः विनष्टाभवत् । क्रि.श.१४५५ वर्षसमये राजमहेन्द्री, क्रि.श.१४६३ वर्षसमये उदयगिरि, कोण्डवीडुप्रदेशाः ओरिस्सा राज्यस्थाधिपतेः गणपतेः अधीनाः अभवन् । क्रि.श.१४७० वर्षसमये गोवा उत्तरकोङ्कण बेळगाविप्रदेशाः बहमनी सुल्तानजनानाम् अधीनाः अभवन् । सङ्गमवंशियराजानां एतेषां आक्रमणं नियान्तितुम् शक्तिः नासीत् । विनष्टम् विभक्तं च साम्राज्यम् पुनः सळुववंशीयः नरसिंहः राजा पुनरेकवारम् सुस्थितम् कृतवान् । विजयनगर साम्राज्यस्य संरक्षणं च कृतवान् । साळुवनरसिंहः क्रि.श.१४८५ तः क्रि.श.१४९१ वर्षपर्यन्तम् विजयनगर साम्राज्यस्य वैभवम् पुनः स्थापितवान् । एषः समर्थः राजा पराक्रमी चासीत् ।शत्रृन् दमयित्वा राज्ये शान्तिस्यापनं कृतवान् । बहमनीजनान् पराजित्य साम्राज्यात् विगतान् भागान् पुनः वशीकृतवान् । सेनाधिकारिणाम् साहाय्येन कोण्डवीडुमछलीपत्तन प्रदेशानपि जितवान् । दक्षिणकर्णाटके नागामङ्गल श्रीरङ्गपत्तन इत्यादि वशीकृतवान् । सेनाबलं विस्तारयन्नेव एषः नरसिंहः मृतः अभवत् । अस्य पुत्रौ बालकौ स्तःअतः सेनानी तुळुवंशीयः नरसनायकः राज्यभारम् सञ्चालितवान् नरसिंहस्यैकः पुत्रः हतः अभवत् । द्वितीयम् पुत्रम् बन्धने स्थापयित्वा नरसनायकः एव प्रशासनकार्यम् कृतवान् । क्रि.श.१५०३ तमे वर्षे नरसनायकस्यमरणानन्तरम् तस्य सुतः तुळुवनरसिंह प्रशासकः अभवत् बन्धने स्थितस्य द्वितीयनरसिंहस्य मरणानन्तरम् तुळुवनैसिंह एव विजयनगर साम्राज्यस्य सम्राट इति घोषितः अभवत् । विणयनगरप्रदेशे तुळुववंशीयानाम् प्रशासनस्यरम्भः अभवत् । एषः क्रि.श.१५०५ तः १५०९ तमवर्षपर्यन्तम् वीरनरसिंहः इति ख्यातः सन् प्रशासनम् कृतवान् । अस्य समये माण्डलिकाः क्रान्तिम् कृतवन्तः । बहमनी सुल्तानजनानाम् राज्ये पञ्चधा विभागशङ्काऽभवत् । विजयनगरस्योत्तरभागे सीमाप्रदेशे बुजापुरनगरे आदिलषही वंशीयानां राज्यम् स्थापितम् आसीत् । बहमनी राज्यं आदिलषाहिराज्यानि च विजयनगरसाम्राज्यस्य समग्रतायै बाधकौ स्तः । अस्मिन् समये वीरनरसिंहः दो अब् प्रदेशे अनेकदुर्गान वशीकृतवान् । आदिलशाही आक्रमणम् नियन्त्रितवान् किन्तु आक्रान्तप्रदेशान् पुनः वशीकर्तुम् असमर्थः अभवत् । उम्मत्तूरु सागरतीरप्रदेशेषु माण्डलिकाः विदोहम् कृतवन्तः तान् नियान्त्रितुम् प्रयत्नम् कुर्वन् वीरनरसिंहः मृतः अभवत् । पश्चिम सागरतीरे पोर्चुगीस् जनाः प्रबल्यः भवन्ति स्म । वीरनरसिंहः पोर्चुगीस् जनैः उत्तमसम्बन्धम् स्थापितवान् आसीत् । तैः उत्तमवंशीयान् अह्वान् स्वीकृतवान् । भारते उत्तमकुल्यध्वान् क्रीतवान् । अस्य वीरनरसिंहस्य मरणानन्तरम् तस्य सहोदरः कृष्णदेवरायः सिंहासनारुढः अभवत् । कृष्णदेवरायः दक्शिणभारते प्रख्यातेषु सम्राट्सु एकः अभवत् । तुळुव वंशीयः कृष्णदेवरायः क्रि.श.१५०९ तः १५२९ पर्यन्तम् प्रशासनम् कृतवान् । विंशतिवर्षपर्यन्तम् विजयनगरसाम्राज्यस्य सिंहासनारुढः श्रीकृष्णदेवरायः दक्षिणभारतीयाम् विषमां राजकीयस्थितिम् ज्ञातवान् । महाराजानाम् दैर्बल्यात् विजयनगरसाम्राज्यम् अतन्त्रस्थित्यामासीत् । अनेक माण्डलिकाः स्वतन्त्राः आसन् । ओरिस्सा राज्यस्य राजा गजपतिः विजयनगर साम्राज्यस्य अनेकभागान् वशीकृत्य स्वाधिकारे स्थापितवान् बिजापुर आधिलाशही विजयनगरम् आक्रमितुम् प्रयत्नम् कृतवान् । पोर्चुगीसजनाः सागरतीरप्रदेशे प्रबलाः आसन् । एतस्मिन् विषये समये श्रीकृष्णदेवरायस्यसाम्राज्य स्योन्नतिकार्यम् कर्तुम समर्थ नायकत्वम् अनिवार्यमासीत् । अतीव बृहती समस्या इत्यपि ज्ञातवान् कृष्णदेवरायः सिंहासनारोहणानन्तरम् कतिपथेष्वेव वर्षेषु सर्वां समस्याम् परिहत्य विजयनगरसाम्राज्योन्नतिम् कृतवान् । पूर्ववैभवम् पुनरानीतवान् । श्रीकृष्णदेवरायः सिंहासनारुढः एव प्रथमम् बहमनी सुल्तानजनानाम् आक्रमणम् विरुध्दं कार्यं कृतवान् । सुल्तानमहम्मदषा इतरै मुस्लिम् राजैः साकम् क्रि.श.१५०९ तमे वर्षे युध्दम् घोषितवान् । विजयनगरसाम्राज्यस्य सीमाप्रदेशे स्थिते दोसस्थले घोरयुध्दम भवत् । अस्मिन् काले कृष्णदेवरायः मुस्लिमसेनाम् पराजितवान् । यदा शत्रवः पराजिताः तान् अनुरुरन् पुनः कोबिल् कोण्डप्रदेशे पुनः पराजितवान् । अस्मिन् युध्दे बिजापुर सुल्तानइत्येषः युसुप् आदिल् खान् मृतः अभवत् । कृष्णदेवरायः दो अब् प्रदेशे आक्रमणम् कृत्वा रायचूरु प्रदेशम् विजयनगर साम्राज्ये भागम् कृतवान् पराजितम् बहमनीसुल्तान महम्मदषा महोदयम् पुनः तस्य राज्ये स्थापयित्वा यवनराज्य प्रतिष्ठापनाचार्य इति बिरुदम् प्राप्तवान् । अस्मिन् समये विदोहनिरतान् श्रीरङ्गपत्तनस्य माण्डल्किम् शिवनसमुद्रप्रद्शीयम् उम्मत्तूरु ग्रामरक्षाकान् पराजित्य विजयनगरसाम्राज्ये तान् माण्डलिकान् कृतवान् । मुस्लिम् राज्यम् पराजित्य अनन्तरम् कृष्णदेवरायः आन्ध्र ओरिस्सा प्रदेशेषु क्रि.श.१५१३ तमे वर्षे आक्रमणं कृत्वा क्रि.श.१५१५ वर्ष समये उदमागिरि, कुन्दुकूरु विनुकोण्ड नागार्जुनकोण्ड बेल्लमकोण्ड कोण्डवीडु प्रदेशान् जितवान् । राजमहेन्द्रम् जित्वा ओरिस्साराज्यस्य गणपतेः कटकनगरम् आक्रान्तवान् । क्रि.श.१५१८ तमे वर्षे गजपतिः पराणिः श्री कृष्णदेवरायेन साकम् शान्तिसन्धानम् कृत्वा स्वसुताम् कृष्णदेवरायाय दत्वा विवाहम् कारितवान् । एतेन श्रीकृष्णदेवरायः आन्ध्र ओरिस्सा दण्डयात्रायाम् यदा स्थितवान् तदा बिजापुरस्य आदिलषा रायचूरु प्रदेशम् वशीकृतवान् । क्रि.श.१५२० तमे वर्षे कृष्णदेवरायः पुनः रायचूरु प्रदेशम् आक्रम्य वशीकृतवान् । बिजापुरम च आक्रम्य जितवान् । अनन्तरम् श्रीकृष्णदेवरायः प्रमुखम् युध्दम् न कृतवान् । एतैः असामान्य कार्यैः श्रीकृष्णदेवरायः दक्षिण भारते प्रख्यातः इतिहासे नूतनम् अध्यायम् आरब्धवान् । दक्षिणभारते व्यापकम् साम्राज्यम् निर्माय शतृन् पराजित्य साम्राज्ये शान्ति सुव्यवस्थाम् च स्थापितवान् । सामाजिक धार्मिक साहित्यिकक्षेत्रेषु विजय नगरसाम्राज्यकाले नूतनायामः सृष्टः अभवत् । श्रीकृष्णदेवरायः कन्नड संस्कृततेलुगु भाषानाम् कवीनाम् साहित्यकाराणां च प्रोत्साहनम् दत्तवान् । स्वतः श्रीकृष्णदेवरायः कविरासीत् । आमुक्तमाल्यदा’ इति तेलुगुकाव्यम् स्वयं रचितवान् । पोर्चुगीसदेशीयैः उत्तमसम्बन्धम् स्थापयित्वा उत्तमकुलानाम् अह्वानाम् विक्रमणम् कृतवान् । डोमिङ्गू पेयस इति पोर्चुगीस यात्रिकः श्रीकृष्णदेवरायस्य आस्थानम् सन्दर्शितवान् । सः विजयनगरसाम्राज्यस्य वैभवम् श्रीकृष्णदेवरायस्य व्यक्तित्वं च मनसा सम्यक् वर्णितवान् । श्रीकृष्णदेवरायः कथम् परिपूर्णः राजाभवत् इति स्पष्टतया वर्णितवान् । श्रीकृष्णदेवरायस्य प्रशासनकाले विठलस्वामीदेवालयः बृहल्लक्ष्मी नरसिंहस्वामी विग्रहः च हम्पी प्रदेशे निर्मिताः अभवन् । विरुपाक्षदेवालयस्याभिवृध्दिं च कृतवान् माध्वगुरुव्यासतीर्थानाम् शिष्यः अभवत् । श्रीकृष्णदेवरायस्य प्रशासनकाले कृषिव्यापार यन्त्रोद्यम क्षेत्रे च अनेकविधा प्रगतिः दृष्टा अभवत् अस्य साम्राज्यम् दक्षिणभारते व्यापकं विस्तृतं चासीत् । ईशान्य भागे ओरिस्सासीमापर्यन्तम्, पश्चिमेभागे सालसेट् पर्यन्तम् दक्षिणे हिन्दुमहासागरपर्यन्तम् विस्तृतम् साम्राज्यं कृष्णदेवरायः परिपालितवान् । श्रीकृष्णदेवरायः तिरुमलै वेङ्कटेश्वरदेवालयेऽपि उत्तमं कार्यम् कारितवान् । अस्य स्मरणार्थम् इदानीमपि तुरुमलै क्षेत्रे ‘तुलाभारमण्डपम्’ कृष्णदेवरायस्य मूर्तिः च सन्ति । श्रीकृष्णदेवरायस्य आस्थाने तेनाली रामकृष्णः इत्यादि प्राज्ञा पण्डिताः कवयः आसन् । श्रीकृष्णदेवरायः क्रि.श.१५२९ तमे वर्षे मृतः अभवत् । श्रीकृष्णदेवरायानन्तरम् सहोदरः अच्य्तरायः क्रिस्ताब १५२९ तः १५४२ वर्षपर्यन्तम् विजयनगरसाम्राज्ये सम्राट् आसीत् । अनेके अच्युतरायस्य सिंहासनारोहणम् नाङ्गीकृतवन्तः । अतः अधिकारार्थम् अन्तः कलहः आरब्धः अभवत् । अस्मिन् समये बिजापुरस्य आदिलशाही सुल्तान इत्येषः आक्रमणं कृत्वा मुडगल् रायचूरु प्रदेशान् वशीकृतवान् । ओरिस्या राज्यस्य गजपतिः गोलकोण्डप्रदेशीयः कुतुब् षा च आक्रमणार्थम् प्रयत्नम् कृतवन्तः । अच्चूतरायः आक्रमणम् नियन्त्रितवान् । किन्तु आक्रान्तान् प्रदेशान् पुनः वशीकर्तुम् असमर्थः अभवत् । अस्मिन्नेव समये पोर्चुगीसजनाः अपि स्वशासनप्रदेशान् विस्तारयितुम् प्रवृत्ताः अभवन् । अच्चुतरायस्य प्रशासनस्य अन्तिमे समये राजकीयस्थित्यन्तराणां समयः आसीत् । अनेक प्रान्त्याधिकारिणः प्रबलाः अभवन् । विजयनगर साम्राज्यस्य नियन्त्रणम् धिक्कृतवन्तः । अच्युतरायः कांश्चन माण्डलिकान् पराजितवान् किन्तु सम्पूर्णतया जेतुम् असमर्थः अभवत् । एतस्मिन् अस्यिरे समये एव अरविडुवंशीयः जामाता रामरायः तिरुमलः वेङ्कटाद्रिः च कूटम् रचितवन्तः विजयनगरसाम्राज्ये अन्तः कलहः प्रवृध्दः अभवत । अस्मिन्नेव विषयसमये अच्चुतरायः दिवम् गतः । क्रि.श.१५४२ तमे वर्षे अच्युतरायमहाराजस्य मरणानन्तरम् तस्य सुतः बेङ्कटाद्रिः अथवा प्रथमः वेङ्कटः सिंहासनारुढः अभवत् । अन्तः कलहे च जामातु रामरायस्य प्रतिनिधिः सदाशिवः विजयी अभवत् । स बालकः आसीत् । अतः रामरायः एव राज्य प्रशासनम् सञ्चालितवान् । रामराय इत्येषः समर्थः प्रशासकः आसीत् । सः विजयनगरस्य पुनर्निर्माणय प्रयत्नम् कृतवान् । क्रि.श.१५५तमवर्षतः १५५०तमवर्षपर्यन्तं राजप्रतिनिधिः भूत्वा रामरायः एव प्रशासनम् कृतवान् । यदा सदाशिवः प्राप्त वयस्कः अभवत् तदाऽपि रामरावः एव सर्वाधिकारम् स्वहस्ते एव स्थापयित्वा अग्रे पञ्च दशवर्षपर्यन्तम् साम्राज्ये प्रशासकः अभवत् । स्वसहोदशै तिरुमलम् वेङ्कटाद्रिं च सेनाधिकारि पदे स्थापितवान् । प्रमुखस्थानेषु आप्ताधिकारिणां नियुक्तिम् कृतवान । श्रीरामरायः स्वतन्त्रतया साम्राज्यस्य प्रशासनम् कुर्वन् अनेक माण्डलिकान् पराजित्य उपायनम् स्वीकृतवान् सहस्रशः मुस्लिमजनान् सैन्ये स्वीकृतवान् । सेना सामर्थ्यं च वर्धितवान् बिजापुर गोलकोण्ड अहमदनगर बीदर् नगरेषु स्थितेषु बहमनि सुल्तानजनेषु यः अन्तः कलहः आसीत् तस्य लाभम् स्वीकर्तुम् प्रयत्नम् कृतवान् । परस्परम् तेषु युध्देषु प्रवृत्तेषु स्वयमपि एकाक्षतः प्रविश्य स्वराज्यम् बलीष्ठम् कर्तुम् प्रयत्नम् कृतवान । एते सर्वे सुल्तानजनाः मिलित्वा क्रि.श.१५६४ तमे वर्षे विजयनगरं प्रति आक्रमणम् कृतवन्तः । कृष्णानद्याः उत्तरभागे चत्वारिशत कि.मी दूरे ताळीकोटे प्रदेशे अर्भ सैन्ये अभिमुखं आगतः । अत्र स्वयम् रामरायः अशीतिवर्षीयः युध्दे भागम् स्वीकृतवान् । एतत् युध्दम् ताळीकोटे कदनम् इति प्रख्यातम् भवत् । प्रथमतया रामरायः शत्रणाम् नियन्त्रणे समर्थः अभवत् । किन्तु अनन्तरम् सैन्ये स्थितौ मुस्लिम सेनापति जनौ वञ्चनाम् कृतवन्तौ । एतया रामरायः पराजितः रणरङ्गे एव मृतः चाभवत् । सहोदरः वेङ्कटाद्रिः अपि मृतः अभवत् २३ जनवरी १५६५ तमे दिनाङ्के एव एतत् युध्दमारब्धं विजयनगर साम्राज्यस्य अस्तङ्गतेः कारणम भवत् । शत्रुसेना विजयनगरम् आक्रम्य सर्वसम्पदः लुण्ठनम् करोत । एकदा सर्व वैभवोमेतम् नगरम् विनष्टम् अभवत् । इदानीम् हाळु हम्पे इति कथयन्ति । पुनः अत्र शिलामयम् स्थलम् त्यक्त्वा अन्यम् वैभवम् नष्टम् अभवत् । तिरुमलः सदाशिवेन सह पेनुकोण्डप्रदेशम् गत्वा साम्राज्यस्य दक्षिणे भागे नियन्त्रणम् प्राप्तवान् । क्रि.श.१५७० तमे वर्षे सदाशिवस्यमरणानन्तरम् तिरुमलः प्रशासकः इति स्वयम् धोषितवान् एषः। क्रि.श.१५७२ तमे वर्षे मृतः अभवत् । अनन्तरम् अस्य पुत्रः श्रीरङ्गः सिंहासना रुढः अभवत् । अस्य प्रशासनकाले राज्यविस्तारः न्यूनः अभवत् । अस्य सहोदरः एव द्वितीयः वेङ्कटः क्रि.श.१५८६ तमे वर्षे सिंहासनारुढः क्रि.श.१६२४ वर्षपर्यन्तम् प्रशासनम् कृतवान् अरविडुवंशीयेषु अत्यन्तम् समर्थः इति ख्यातः अभवत् । एषः पेनुकोण्डनगरतः राजधानीम् तिरुपतिसमीपे चन्द्रगिरि प्रदेशे स्थानान्तरितवान् । अस्म मरणानन्तरमपि विजयनगरवंशीयेषु अन्तः कलहनः प्रभावः विनष्टः एव अभवत् । सप्तदश शतकपर्यन्तं अपि विजयनगरवंशीयाः राजानः प्रशासकाःआसन् किन्तु समर्थाः नासन् । अन्ये प्रबलाः आसन् । कर्णाटके केळदिवंशीयाः मैसूर ओडेयर् वंशीयाः च प्रबलाः सन्तः स्वतन्त्रतया राज्यम् निर्माय विजयनगरसाम्राज्यस्य परम्पराम् अनुसरन्तः प्रशासकाः अभवन् । विजयनगरस्य राज्यव्यवस्थायाम् प्रभुत्वं वंशपारम्परिकम् आसीत् । राजानः दुर्बलाः भवन्ति चेद अन्तः कलहः सामान्यः आसीत् । एतत्समये दण्डनायकाः एव अधिकारं स्वीकुर्वन्ति स्म । सदा युध्दभीतिः आसीत् । अतः अधिकसेनाबल संरक्षणम् अनिवार्यमासीत् । अतः एव इतिहासकाराः ‘वाटस्टेत्’ ‘युध्दराज्यम्’ इत्युक्तवन्तः विजयनगरसाम्राज्यम् एतदपपन्नमेव । हिन्दुधर्मरक्षणाय साम्राज्यस्य स्थापनां कृत्वा विजयनगरराजाः हिन्दुधर्म प्रतिष्ठापना यार्थाः, हिन्दुराय सुरत्राणाः इति बिरुदम् प्राप्तवन्तः । हिन्दूधर्म संस्कृति इत्यादि अभिवृध्यर्थम् उत्तमम् प्रोत्साहं दत्तवन्तः । सर्वधर्माणामपि आश्रयन् दत्तवन्तः । शैव वीरशैव जैन वैष्णव सम्प्रदायाः विरोषतया आश्रयम् प्राप्तवन्तः । कन्नडसाहित्यस्य विजयनगरराजाः विशेषतया प्रोत्साहनं दत्तवन्तः । अतः एतेषाम् प्रशासनकाले साहित्यरचनाः विफुलाः सञ्जाताः आसन् । पुरन्दरदासः कनकदासः कुमारव्यासः सत्नाकरवर्णि, एते सर्वे विजयनगरसाम्राज्यस्य युगे एव प्रसिध्दाः आसन् । गङ्गादेवी तिरुमलाम्बिका च कन्नडसाहित्ये गुणात्मक साहित्यस्तष्टिम् कृतवत्यौ । प्रौढदेवरायः साळुव नरसिंहः श्रीकृष्णदेवरायः इत्यादि महाराजाः स्वयम् लवयः अपि आसन् वेदान्तदेशीक वादिराज इत्यादि लेखकाः संस्कृते ग्रन्थरचनाः कृतवन्तः । संस्कृते अनेक धार्मिकग्रन्थानां निर्माणम् अभवत् । वैद्यशास्रे विजयनगरराजानाम् काले ‘आयुर्वेद सुधानिधि’ इति ग्रन्थः प्रकटितः अभवत् । तेलगुभाषायामपि साहित्यरचनाः अभवन् । आस्तुसिल्प चित्रकलामूर्तिशिल्प नृत्य सङ्गीतादि क्षेत्रेषु अपि उत्तमाप्रगतिः दृष्टाऽभवत् । देवालयनिर्माणे विजयनगरराजाः अतीव उत्तमम् कार्यम् कृतवन्तः । हम्पी लेपाक्षी मूडबिदरे श्रीरङ्गम् इत्यादि प्रदेशेषु विजयनगरराजानाम् काले निर्मितान् देवालयान् अधुनापि दृष्टुम् साध्यमस्ति । देवालयेषु कल्याणमण्डपानि तथा गिपुराणि निर्मितानि सन्ति । मूर्तिशिल्पे हम्पीनगरः गणपति नरसिंहः विग्रहाः निर्मिताः अभवन् । एतत् विजयनगरराजानाम् साधनायाः साक्षीभूतम् अस्ति । विजयनगर राजाः परम्परादीत्या जीवनशैलीमनुसरन्तः अपि धार्मिक सामाजिकार्थिकविषयेषु प्रगतिपराः विचारशीलाः आसन् । विजयनगरम् आगताः यात्रिकाः गौरवम् प्राप्तवन्तः तथा स्वग्रन्थेषु विजयनगरस्य वैभवं स्पष्टतया वर्णितवन्तः । एतेषां लेखनार्धरण राजभिः जनसामान्यानाम् उपयोगिकार्याणि बहूनि कृतानि इति ज्ञातुम् शक्यते । अनेन च सामान्यजनजीवने शान्तिः तृप्तिचासीत् इति इतिहासकाराः अभिप्रायं प्रकटितवन्तः । हिन्दूधर्मस्य विशेषप्रोत्साहम् दत्तवन्तः विजयनगरप्रभवः अन्येषाम् धर्माणामपि निर्लक्ष्यम् न् कृतवन्तः अन्यधर्मीयानपि सहजतया दृष्टवन्तः । द्वितीयवेङ्कटपतेः समये क्रैस्त गुरवः राजास्थानम् आगतवन्तः । गौरवम् प्राप्तवन्तः च । मुस्लिममन्दिराणाम् निर्माणाय च अवकाशः दत्तः आसीत् । एतत् विजयनगरराजानाम् धार्मिकनीतेः विशाल गुणम् प्रतिपादयति । समकालिकाः विदेशीयाः यात्रिकाः अविस्मरणीयम् साम्राज्यम् ’ इति विजयनगरसाम्राज्यम् वर्णितवन्तः ।


"http://sa.wikipedia.org/w/index.php?title=विजयनगरसाम्राज्यम्&oldid=277533" इत्यस्माद् पुनः प्राप्तिः