विजयनगरसाम्राज्यम्
विजयनगरसाम्राज्यं १३३६ तमे वर्षे हरिहरः (हक्क) तथा बुक्करायः इति सहोदराभ्यां संस्थापितम् । अस्य साम्राज्यस्य राजधानी आसीत् विजयनगरम् । विजयनगरम् इदानीन्तनस्य कर्णाटकस्य "हम्पे"प्रदेशः । कृष्णदेवरायस्य शासनावसरे एतत् साम्राज्यम् उत्तुङ्गस्थितिं प्राप्नोत् । यद्यपि १५६५ तमे वर्षे अस्य साम्राज्यस्य पराभवः जातः तथापि पुनरेकं शतकं यावत् लघुप्रमाणेन शासनम् अकरोत् । तदानीन्तनकालस्य दक्षिणभारतस्य राज्यानि इण्डोनेषियापर्यन्तम् अपि प्रभावस्य प्रसारम् अकुर्वन् । विशालः आग्नेय-एषिया-प्रदेशः अपि एतेषाम् अधीने आसन् । कालान्तरे हिन्दुराजवंशाणां बहमनिसुल्तानानां च परस्परं कलहः आरब्धः । तस्य परिणामरूपेण तावत्पर्यन्तं दूरे एव स्थितयोः हिन्दु-मुस्लिं-संस्कृत्योः परस्परं सम्पर्कः सञ्जातः । कला-शिल्पकलाक्षेत्रे विजयनगरसाम्राज्यस्य योगदानं महत् अस्ति । कन्नड-तेलुगु-संस्कृतसाहित्ये अपि तेषां योगदानम् अविस्मरणीयम् । अस्य साम्राज्यस्य पतनस्य कारणीभूताः उत्तरभारते साम्राज्यस्थापनं कृतवन्तः सुल्तानाः । एते सुल्तानाः रजपूतानां स्थानस्य देहल्याः समीपे एव प्रथमं राज्यस्थापनम् अकुर्वन् । विजयनगरसाम्राज्यस्य पतनेन सह २००० वर्षाणि यावत् पुरातनी भारतस्य अभिजातसंस्कृतिः अन्त्यम् आप्नोत्, भारतीये इतिहासे नवः अध्यायः च आरब्धः ।