कृष्णदेवरायः
कृष्णदेवरायः विजयनगर साम्राज्यस्य तुळुवा वंशस्य राजा आसीत्। भारतीयेतिहासे प्रख्यातं विजयनगरसाम्राज्यम् । तस्य पालकः कश्चित् सुसम्पन्नः राजा आसीत् । सः स्वपराक्रमेण बलयुक्तं शत्रुसैन्यं जित्वा अपि, पुनः शत्रौ दयागुणं दर्शयति स्म । अतः सः चक्रवर्ती उत्तमः, योग्यः परिपालकः प्रजारञ्जकश्च इति कीर्तितः आसीत् । तस्य काले हम्पिनगरस्य वीथीषु रत्नानि, वज्राणि च जूर्णानि, धान्यानि इव विक्रीण्ते स्म । धर्मस्य, ललितकलानां च उदारभावेन आश्रयं कल्पितवान् आसीत् सः रसिकः । स्वयं महाकविः सन् अपि परकवितानुरागी आसीत् सः । नगरे आपणेषु यथा सामान्यवणिजः धान्यस्य विक्रयणं कुर्वन्ति तथा एतद्देशीयाः वणिजः रत्नानि वज्राणि राशीकृत्य तेषां विक्रयणं कुर्वन्ति स्म । तस्य राज्ये रात्रिसमयेऽपि युवतयः आभरणानि धृत्वा विना भयम् एकाकिन्यः एव सञ्चरन्ति स्म । अन्यदेशेभ्यः आगताः यात्रिणः तस्य राज्यम् एवम् आसीदिति स्वग्रन्थेषु उल्लिखितवन्तः सन्ति । तेन ज्ञायते तत् राज्यं कियत् धनवत्, राजा च कियान् समर्थः आसीत् इति ।
सः प्रभुः एव श्रीकृष्णदेवरायः विजयनगरसाम्राज्यस्य चक्रवर्ती ।
श्री कृष्णदेवराय जाति रेड्डी